________________
ललितविस्तरा-सटीका
शुश्र षादिः, भवनिर्गुणतादिपरमार्थज्ञानरूपस्वार्थस्य (अथवा विशिष्टपापपरमाणुक्षयरूपस्वफलस्य) साधको नास्त्येवा-परमतेनाऽप्येतत्समर्थनम् = अस्मदपेक्षया भिन्नजातीयैरपि किं पुनरस्माभिः ?
अध्यात्मचिन्तकैरेतन्निरूपितम् तथाहि = योगिमार्गप्रणायकः (प्रणेता वा प्रकृष्टनायक:) अवधूताचार्यः कथयति "सदाशिवकृतोपकारं विना” उक्तरुपा:-तत्त्वशुश्रूषादयः न भवन्ति, यतो जलक्षीरसुधासमानानि विषयतृष्णाऽपहारित्वेन श्रुतचिन्ताभावनारूपाणि ज्ञानानि न जनयन्त्येव, तत्त्वगोचरा एव हि शुश्रूषादयो जघन्यमध्यमोत्कृष्टावस्थावन्तः, श्रुतादित्रयज्ञानजनका इति.
तत्त्वागोचराः शुश्र षादयस्तु सामान्येन लोकप्रतिष्ठिताः, यथा शय्यागतस्य नपस्य निद्रालाभार्थ कथादिविषयाः शुभ षादयोऽन्यार्था एव भवन्ति, नत्वाख्यानपरिज्ञानार्थाः अर्थाद यथा राजा शय्यागतः सुप्तः सन गाथकानां कथागीतादि शृणोति, तथाऽपि विषयादिषु ग्रस्तत्वेन कथादौ न ध्यानं दत्ते, अत एतद -शुश्रू षादयःस्वफलजनका न भवन्ति तथा विविदिषामन्तरेण शुभ षादयस्तत्त्वज्ञानरूपस्वफलजनका न भवन्ति अतः तत्त्वगोचरशुश्रूषादयो न कथ्यन्ते, आभासरूपा एवेति,
शरणपदार्थस्य सर्वाङगीणं तात्पर्य तथा शरणदपदस्योपसंहरणम् -
मिथ्यात्वमोहरूपविशिष्टकर्मक्षयोपशम-जातं ज्ञानं, अर्थाद् ग्रन्थिभेदसहकृतमिथ्यात्वमोहादिरूपविशिष्टकर्मक्षयोपशमजन्यं विषय-विषयक-तृष्णाऽपहारकमेव ज्ञान-तत्त्वबोधः कथ्यते, नान्यत् , तदतिरिक्त, यज्ज्ञानं विशिष्टकर्मक्षयोपशमजं विषयतृष्णाऽपहारि न भवति तज्ज्ञानं तत्त्वज्ञानं न कथ्यतेऽपितु अज्ञानं-मिथ्याज्ञान-विपरीतज्ञानं, संशयज्ञानं, सम्यगज्ञानकोटिरहितं, कथमिति चेतकथ्यते, अभक्ष्यास्पर्श नीयन्यायेन वाङमात्रज्ञानमज्ञानं भवति (यथा गोमांसादिकं भक्षणनामकक्रियाविषयत्वेऽपि भाविन्युत्तरकाले पापदुर्गत्यादिबलवदनिष्टपरिणामनिष्पादकत्वेनाभक्ष्य कथ्यते, तथान्त्यजरजस्वलानार्यादेः स्पर्श नक्रियाविषयत्वेऽपि, उत्तरकालीन बलवदनिवार्यानिष्टपरिणामसर्जकत्वेनाऽस्पर्श नीयं, अनीतिचौर्यादेः कृतिविषयत्वेऽपि ऐहिकपारलौकिकानिष्टफल साधकत्वेनाऽकर्त्तव्यत्वमाधुनिकन्यायशासनेऽपि विद्यते) प्रस्तुतेऽपि ज्ञानमपि कामभोगविषयकतृष्णानाशकत्वा भावे, ज्ञानक्रियामात्रसत्त्वेऽपि दुर्गत्यादिबलवदनिष्टपरिणामाऽनुबन्धित्वेनाऽज्ञानमेवेति । अर्थात्
152