________________
ललितविस्तरा-सटीका
प्रतिगुणमनन्तपापपरमाणुक्षयजन्यस्तत्त्वशुश्र षादिः, तत्वगोचरः कथ्यते । विविदिषाविशिष्टः प्रतिगणमनन्तपापपरमाणुक्षयरूप-कारणभिन्नान्यकारणजन्य-शुश्र षादिः, तत्वज्ञानरूपं फलं न जनयति, यतः विविदिषाविशिष्ट: प्रतिगुण-मनन्तपापपरमाणुक्षयरूपकारणं विनाऽन्यकारणजन्यशुश्र षादिः, तत्वज्ञानस्वभावभिन्नान्यजातीयत्वेन 'बाह्यदर्शनतः-शब्दशरीरतः, तत्वगोचरशश्र षादिसमानशुश्रू षादिः, आभासतया कथ्यते,
ननु शब्दरूपबाह्याकारत्वेन समानत्वेऽपि, एको भेदस्तत्वगोचरशुश्र षादिः, द्वितीयो भेद आभासरूपशुश्रू षादिरिति भेदद्वये किं कारणम् ? - अत्रोत्तरम् = इह भेदद्वये फलभेद एव प्रधानं कारणम्,
(१) भवानुरागरूपफलं प्रति तत्वगोचरभिन्नान्यशुश्रूषादिः कारणम्, अत एव तत्वगोचरभिन्नान्यशुश्रूषादिः, आभासत्वेन वर्ण्यते,
(२) भवविरागादिफलं प्रति तत्वगोचरशुश्रूषादिः कारणमस्ति, अतस्तत्वगोचरत्वविशिष्टशुश्रूषारूपेणोच्यते, अर्थादाभासभूतशुश्रूषादिरूपकारणजन्यं फलं 'भवरागो' ऽस्ति तत्वभूतशुश्र षादिरूपकारणजन्यं फलं 'भववैराग्य' मस्ति, इत्येवं तत्वातत्वशुश्र - षादिकार्य भिन्न भिन्नं भवत्यतः एकः शुश्र षादिः आभासमात्रः, द्वितीयः शुश्र षादिः, तत्वगोचरत्वेन प्रसिद्धयतीति । ननु शुश्र षात्वादिरूपैकस्वभाववतोस्तत्वातत्वशुश्रूषयोर्बाह्याकारः, एकसमानोऽस्ति, तत एवं फलभेदः कथं युक्तः ? बाह्याकारसमतायामपि तत्वगोचररुपशुश्र षादिरस्तु, मास्तु, आभासरूपशुश्र षादिः, यत्सत्यं तदुच्यताम्-अत्रोत्तरम् = आभासरूपशुश्रूषादेः सम्भवोऽस्ति, कथमिति चेदुच्यते तत्वविविदिषां विना वस्त्वन्तरं (पूजाऽभिलाषादिरूपान्यवस्तु) उद्दिश्य शुश्र षादिर्भवति, स आभास-शुश्र षादिवति, अत एव कथ्यते तत्वविषयकविविदिषां विना भवनिर्गुणतादि-परमार्थज्ञानरुप-स्वार्थस्य (अथवा प्रतिगुणमनन्तपापपरमाणुक्षयरूपफलस्य) असाधकत्वेन तत्वागोचर शुश्रू षादिः, तत्वरूपो नास्ति, अर्थादाभासरूपोऽस्ति (यः स्वार्थ साधयति स एव परमार्थरूपोऽस्ति) ननु आभासरूपशुश्र षादिः - -स्वार्थस्य (भवनिर्गुणताऽऽदिपरमार्थज्ञानस्वफलस्याऽथवा विशिष्टपापपरमाणुक्षयरूपस्वफलस्य) कथ न साधकः ? .
- अत्रोत्तरम्-अतिप्रबल-मिथ्यात्वमोहनिद्राक्रान्तत्वेनाभासरूपशुश्रूषादितः परमजागृतिरूपतत्वज्ञानं दूरसुदूरं भवति, पूजाभिलाषरूपवस्त्वन्तरमुद्दिश्य प्रवृत्तो विविदिषाविरहितः
.
.
151