________________
14:
ललितविस्तरा - सटीका
पापपरमाणुक्षयजन्यं, अज्ञान - संशय विपर्यासरूपमिथ्याज्ञान त्रितयस्य ध्वंसपूर्वकं तत्त्वविष• यकज्ञानं विज्ञानम् ।
(६) ऊहः - विज्ञातमपेक्ष्यपूर्वतो
विशिष्टज्ञानावरणादिक्लिष्टकर्मा शरूपानन्तपापपरमाणुक्षयजन्यं तथाप्रकारेषु, अन्येषु पदार्थेषु व्याप्त्या = अर्थात् समान पदार्थं दृष्ट्वा वा श्रुत्वा यथा दूराद् धूमं दृष्ट्वा तर्को भवति, धूमोऽस्त्यतो वह्निना भाव्यमिति, एवमन्यतत्त्वभूतपदार्थविषयकव्याप्तिपूर्वकं विज्ञाततत्वविषयकवितर्कः, स तत्त्वविषयक ऊहः तर्कापरपर्यायः ।
(७) तत्त्वगोचरापोह : - ऊहमपेक्ष्य पूर्वतो विशिष्टज्ञानावरणादिक्लिष्टकर्मा शरूपानन्तपापपरमाणुक्षयजन्यं, आगमयुक्ति (न्याय) भ्यां विरुद्धादर्थात् प्रत्यपायसम्भावनाया (उभय लोकविरुद्ध जो वहिंसादिदुष्कृत्यादिना इहलोके, परलोके नारकादिदुर्गति आदि प्रत्यपायसम्भावनया) बलवदनिष्टानुबन्धित्वं विज्ञाय दुर्गुणदुष्कृतादितो दूरीभवनरूपं रक्षणं अपोहः, तत्त्वविषयकविशेषज्ञानं अपोहः ।
(८) तत्त्वाऽभिनिवेशः = अपोहादिकमपेक्ष्य पूर्वतो विशेषज्ञानावरणादिक्लिष्टकर्मा शरूपानन्तपापपरमाणुक्षयजन्यः, विज्ञानोहापोहत्रयस्यानुगमनेन विशुद्ध:, अर्थात् विज्ञानोहापोहात्मकनिकषत्रयेण, निर्मलः, इत्थमेवेति निश्चय : 'तत्त्वाभिनिवेशः तथा च तत्त्वविषयकचिन्तालक्षणविविदिषारूपशरणस्य सत्तायामेव बुद्ध रष्टगुणा: ( उपकारिणः ) तत्त्वगोचराः–तत्त्वरूपविषयविषयका भवन्ति, नान्यथा तत्त्वगोचर - शुश्रूषादिरूपप्रज्ञागुणाष्टकं प्रति तत्त्वचिन्ताऽऽत्मकविविदिषा रुपं शरणं कारणम्, विशिष्टशरणसत्तायां तत्त्वगोचरप्रज्ञागुणाष्टकस्य सत्ता विशिष्टशरणरूपकारणाभावे तत्त्वगोचरप्रज्ञागुणाष्टकस्याभावः इत्यन्वयव्यतिरेकाभ्यां तत्त्वगोचरप्रज्ञागुणाष्टक तत्त्वचिन्तात्मक विविदिषाशरणयोः कार्यकारणभावविनिश्चयो ज्ञेयः । इति बहुश्रुताः समयवृद्धा वदन्ति ।
प्रतिगुणमनन्तपापपरमाणुक्षयरूपकारणभिन्नान्य
तथा च विविदिषाविशिष्टः
कारणेभ्यो जन्य -- शुश्रूषादिभिस्तत्त्वज्ञानस्यासम्भवो भवति,
अत एव विविदिषाविशिष्टः प्रतिगुणमनन्तपापपरमाणुक्षय कारणजन्यतत्त्वशुश्रूषादिभिस्तत्त्वज्ञानं (भवनिर्गुणतादि परमार्थज्ञानं ) भवति, तस्मादेव विविदिषाविशिष्टः
150