________________
ललितविस्तरा-सटीका
ज्ञानार्थाः "इति" अवधूताचार्योक्तिसमाप्त्यर्थः, सर्वतात्पर्यमाह-"विषयतृडपहार्येव हि ज्ञानं" विषयाभिलाषनिवर्त्तकमेव हिः-यस्मात्कारणात् ज्ञानं-तत्त्वबोधः, कोदशमित्याह-"विशिष्टकर्मक्षयोपशम" विशिष्टात्-मिथ्यात्वमोहविषयात क्षयोपशमाज्जातम, अनभिमतप्रतिषेधमाह-"न" नेवान्यद्-विषयतृष्णानपहारि, ज्ञानमिति गम्यते, कुत इत्याह
"अभक्ष्यास्पर्शनीयन्यायेन" प्राग्व्याख्यातेन "अज्ञानत्वात्" तत्त्वचिन्तायां ज्ञानाभावरूपत्वात् , यदि नामवं ततः किमित्याह-"न च" नैव "इदं" ज्ञानं "यथोदितशरणाभावे" प्रागुदितविविदिषाविरहलक्षणे, एवमपि किमित्याह-"तच्च" शरणं "पूर्ववद" अभयादिधर्मवद् , “भगवद्भ्य" इति ।
टोका-अथ 'शरणदे'ति नामकस्य शक्रस्तवीयाष्टादशपदस्य विशिष्टं विवरणम
यथाऽर्हन्तो भगवन्तः 'अभयदाः, चक्षुर्दाः, मार्गदाः सन्ति तथा शरणदाः सन्ति, अत एव 'शरणदेभ्योऽर्हद्भ्यो भगवद्भ्यो नमः, इह शरणदेतिसूत्रघटक-शरणपदस्य विवेचनम् = शरणं-भयार्त्तत्राणं भयेन पीडितानां त्राणं-रक्षणमित्यर्थः, तद-शरणं हि संसाररूपभयानकवनगतानां, अतिप्रबलरागादिरूपभावशत्रुभिर्हताहतानां, नरकादिभवरूपदुःखपरम्परायाः क्रोधादिकषायलक्षणसङक्लेशस्य, अपुनर्भवरूपेण विक्षोभत:-स्वरुपह्रासलक्षणचलनात् सम्यक्तया आश्वासन (परमधैर्य) स्य स्थानसहश, अर्थात् तत्त्वचिन्तारूपमध्यवसानं (निर्णयः) विविदिषेत्यर्थः, किंच विविदिषायां सत्यां तत्त्वविषयकाः शुश्रू षाश्रवणग्रहणधारणा-विज्ञानोहापोहतत्त्वाभिनिवेशाः प्रज्ञागुणा भवन्ति ।
(१) शुश्रूषा = ज्ञानावरणादिक्लिष्टकर्मा शरूपाणामनन्तानां पापपरमाणूनां क्षयजन्य-तत्त्वविषयकश्रवणेच्छा-तत्त्वविषयं श्रोतुमिच्छा, तत्त्वरूपाशुश्रूषावा.
(२) श्रवणम् = शुश्र षामपेक्ष्य पूर्वतो विशिष्टज्ञानावरणादिक्लिष्टकर्मा शरूपानन्तपापपरमाणुक्षयजन्यतत्त्वविषयक श्रवण-श्रोत्रेन्द्रियेन सोपयोग-उपयोगपूर्वं ध्यानं दत्त्वा श्रवणम् ।
(३) ग्रहणम् = श्रवणसापेक्षं पूर्वतो विशिष्टज्ञानावरणादिक्लिष्टकर्मा शरूपानन्तपापपरमाणुक्षयजन्यं तत्त्वविषयक शास्त्रार्थमात्रग्रहणम् ।
(४) धारणम् = ग्रहणमपेक्ष्य पूर्वतो विशिष्टज्ञानावर णादिक्लिष्टकर्मा शरूपान्तपापपरमाणुविषयकक्षयजन्यस्य श्रुतस्य गृहीतस्य च तत्त्वस्याविस्मरणम ।
(५) विज्ञानम् = धारणमपेक्ष्य पूर्वतो विशिष्टज्ञानावरणादिक्लिप्टकर्मा शरूपानन्त
149