________________
ललितविस्तरा-सटीका
पं.-"दुःखपरम्परासङ क्लेशविक्षोभतः" इति, दुःखपरम्परायाः-नरकादिभवरूपायाः सङ्क्लेशस्य च-क्रोधादिलक्षणस्य विक्षोभतः-स्वरूपह्रासलक्षणचलनादिति ।
"शुश्रूषेत्यादि" शुश्रूषा-श्रोतुमिच्छा, श्रवणं-श्रोत्रोपयोगो, ग्रहणं-शास्त्रार्थमात्रोपादानं, धारणमअविस्मरण, मोहसन्देहविपर्ययव्युदासेनं ज्ञानं विज्ञान, विज्ञातमर्थमवलम्ब्यान्येषु व्याप्त्या तथाविधवितर्कणमूहः उक्तियुक्तिभ्यां विरुद्धादर्थात्प्रत्यपायसम्भावनया व्यावत्तनमपोहः, अथवा सामान्यज्ञानमूहो विशेषज्ञानमपोहः, विज्ञानाहापोहानुगमविशुद्धमित्थमेवेति निश्चयस्तत्त्वाभिनिवेशः, पश्चात्पदाष्टकस्य द्वन्द्वः समासः, "प्रज्ञागुणाः" बुद्धरुपकारिण इत्यर्थः, किंविशिष्टा इत्याह-"प्रतिगुणम्' एकैकं शुश्रूषादिकं गुणमपेक्ष्योत्तरोत्तरे "अनन्तपापपरमाण्वपगमेन" अनन्तानाम्-अतिबहूनां पापपरमाणूनांज्ञानावरणादिक्लिष्टकम्मशिलक्षणानामपगमेन-प्रलयेनते-तत्त्वगोचराः शुश्रूषादयः, "इति" एतत् "समयवृद्धाः” बहुश्रुता ब्रुवते, कुत एतदित्याह--
"तदन्येभ्यः” उक्तविलक्षणहेतुप्रभवेभ्यः “तत्त्वज्ञानायोगाद्" भवनर्गुण्यादिपरमार्थापरिज्ञानाद् , एतदपि कुत इत्याह-"तदाभासतया" तत्त्वगोचरशुश्रूषादिसहशतया "एतेषां"प्रतिगुणमनन्तपापपरमाण्वपगममन्तरेण जातानां "भिन्नजातीयत्वाद्" अन्यजातिस्वभावत्वात्, नन्वाकारसमतायामपि कुत एतदित्याह-"बाह्याकृतिसाम्येऽपि" तत्त्वगोचराणामितरेषां च शुश्रूषादीनां "फलभेदोपपत्तेः" फलस्यभवानुरागस्य तद्विरागस्य च यो भेदः-आत्यन्तिकं वैलक्षण्यं स एवोपपत्तिः-युक्तिस्तस्याः, कथं नाम एकस्वभावेषु द्वयेष्वपि शुश्रूषादिषु बहिराकारसमतायामित्थं फलभेदो युज्यत इति भावः,
तहिं न सम्भविष्यन्त्येव तत्त्वगोचरतामन्तरेण शुश्रूषादय इत्याशङ्कयाह-"सम्भवन्ति, तु" न न सम्भवन्ति तुः-पूर्वेभ्य एषां विशेषणार्थः, तदेव दर्शयति-"वस्त्वन्तरोपायतया" वस्त्वन्तरं-तत्त्वविविदिषापेक्षया पूजाभिलाषादि, तदुपायः-कारणं एषां ते तथा तद्भावस्तत्ता तया, अत एवाह
"तद्विविदिषामन्तरेण" तत्त्वजिज्ञासां विना, व्यवच्छेद्यमाह-"न पुनः" न तु "स्वार्थसाधकत्वेन" "भावसाराः" परमार्थरूपाः, ननु कथ न स्वार्थसाधका एत इत्याह-“अन्येषां" वस्त्वन्तरोपायतया प्रवनानां प्रबाविप्रकर्षण' तत्त्वपरिज्ञानदूरभावेन हेतुना “प्रबलमोहनिद्रापेतत्वात' बलिष्ठमिथ्यात्वमोहस्वापावष्टब्धत्वात्, परमतेनाप्येतत्समर्थयन्नाह-“उक्त च" निरूपितं च "एतत" तदन्यभ्यस्तत्त्वज्ञानाभावलक्षणं वस्तु "अन्यरपि" अस्मदपेक्षया भिन्नजातीयैरपि, किं पुनरस्माभिः ?, करित्याह-"अध्यात्मचिन्तकैः" आत्मतत्त्वगवेषकैः, कुत इत्याह-"यद्” यस्मात्कारणात् "आह" उक्तवान् “अवधूताचार्यो" योगिमार्गप्रणायकः, उक्तमेव दर्शयति-"न" नंव "अप्रत्ययानुग्रहं" सदाशिवकृतोपकारम् "अन्तरेण" विना "तत्त्वशुश्रूषादयः” उक्तरूपाः, कुत इत्याह
"उदकपयोऽमृतकल्पज्ञानाजनकत्वात् ", उदकं -जलं पयः-क्षीरं अमृतं-सुधा तत्कल्पानि विषयतृष्णापहारित्वेन श्रुतचिन्ताभावनारूपाणि ज्ञानानि तदजनकत्वात् , तत्त्वगोचरा एव हि शुश्रूषादया मृदुमध्याधिमात्रावस्था एवंरूपज्ञानजनका इति, स एव इतरानवजानन्नाह-"लोकसिद्धास्तु" सामान्येन लोकप्रतिष्ठिताः "तुः" पुनः शुश्रुषादयः "सुप्तनपाख्यानकगोचरा इव" यथा सुप्तस्य–णय्यागतस्य नृपस्य-राज्ञो निद्रालाभार्थमाख्यानविषयाः शुश्रूषादयोऽन्यार्था एव भवन्ति, नत्त्वाख्यानपरि
148