________________
ललितविस्तरा-सटीका
रूपकार्य प्रति कालविशेषस्य प्रतिबन्धकता सिद्धाऽस्ति, परन्तु काल विशेषांतरस्याऽथवा तत्त्वरुचिनामकश्रद्धाकारणस्य सत्तायां दर्शनरूपकार्यमुत्पद्यते, कालविशेषांतरस्याऽथवा श्रद्धाया अभाव विशिष्टकालविशेषस्य प्रतिबन्धकताया अवश्यवक्तव्यत्वेन कालविशेषांतरस्याऽथवा श्र दाया उत्तेजकता-कार्यजनकता, अर्थात् प्रतिबन्धशक्ति निरुध्य कार्यजनकतारूपोतेजकता मन्तव्यव, युक्तियुक्तमिति.) दर्शनरूपेण विशिष्टश्रद्धायाः परिणमने व्यापारवत्त्वेन कालः कारणम्, यतः कालं विना दर्शने स्वभावलाभस्य सिद्धिनं भवति, विचित्रसहकारिकारणकृतस्वभावातिशयरूपविशिष्टस्य परिणामिकारणस्यैव तथापरिणामस्वभावोऽस्ति, तेन प्रकारेण पूर्वोक्तेन विशिष्टेन परिणमनरूपस्वभावोऽस्ति, तथा च कालकारणसहकृततत्त्वरुचिरूपश्रद्धा, तत्त्वदर्शनपरिणतिकार्य प्रति कारणम्, तत: पूर्वोक्तविवेचनत एषा-तत्त्वरुचिरूपमार्गानुसारिश्रद्धा, सम्यग-दर्शनादि-मोक्षधर्मरूपकल्पवृक्षं प्रति. अवन्ध्यबीज (नियत-अव्यवहित फलजनक) भूताऽस्तीति परिभावनीयमेवेति । इयं-विशिष्टश्रद्धा-मार्गानसारितत्त्वरुचिरूपं लोकोत्तरं चक्षुरिन्द्रियं पूर्वोक्ताऽहंद्भ्यो भगवद्भ्य इति. तथा च यथाऽभयनामकोऽद्भुतधर्मो निरुक्तविशेषणविशिष्टाहद्भगवद्भ्यः प्राप्यते तथा विशिष्टश्रद्धास्पं नयन भगवद्भ्य एवेति. एवं च मार्गानुसारितत्त्वरुचिश्रद्धाभावचक्षुर्वेभ्योऽहं द्भ्यो भगवद्भ्योनमः । इति शकस्तवस्य चक्षुर्देति' रूपं षोडशपदस्य विबरणं समाप्तम् ।। तथा 'भगदयाणं' इह मार्गः-चेतसोऽवक्र गमनं, . . भुजङ्गमनलिकायामतुल्यो विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाही भयोपशमविशेष:, हेतुस्वरूपफलशुद्धा सुखेत्यर्थः, नास्मिन्नान्तरेऽसति यथोदितगुणस्थानावाप्तिर्गिविषमतया चेत:- स्खलनेन प्रतिवन्धोपपत्तेः, सानुबन्धक्षयोपशमतो यथोदितगुणस्थानावाप्तिः, अन्यथा तदयोगात् क्लिष्टदुःखस्य तत्र तत्वतो बाधकत्वात्, सानुबन्धं क्लिष्टमेतदिति तन्त्रगर्भः, तद्बाधितस्यास्य तथागमनाभावात्, भूयस्तदनुभवोपपत्तः, न चासो तथाऽतिसडिक्लष्टस्तत्प्राप्ताविति प्रवचनपरमगुह्यं न खलु भिन्नग्रन्थे यस्तबन्ध इति तन्त्रयुक्त्युपपत्तेः, एवमन्यनिवृत्तिगमनेनास्य भेदः, सिद्ध चैतत्प्रवृत्त्यादिशब्दवाच्यतया योगाचार्याणां, प्रवृत्तिपराक्रमजयानन्दऋतम्भरभेदः । कर्मयोग इत्यादिविचित्रवचनश्रवणादिति, न चेदं यथोक्तिमार्गाभावे, स चोक्तवद्धगवद्भ्य इति माग्गं ददति मार्गदाः १७ ॥
143