________________
ललितविस्तरा-सटीका
नतु काचकामलाद्युपहत इव चक्षुषि अन्यथेति, एतदेव भावयति-"नहि" नैव "अन" मार्गानुसारिश्रद्धासाध्यदर्शने "प्रतिबन्धो" विष्कम्भो "नियमेन" अवश्यंभावेन कुतश्चिदिति गम्यते, किं सर्वथा ? नेत्याह-'ऋते" विना, कालात्, काल एव ह्यन प्रतिबन्धक इति भाव: "इति" एवं निपुणसमयविदो" निश्चयनयव्यवहारिणो ब्रुवते, ननु कालेऽपि प्रतिबन्धके कथमुच्यते-'न पत्र प्रतिबन्धो नियमेनेत्याह-"अयं च" कालप्रतिबन्धः अप्रतिबन्ध एव, कुत इत्याह-"तथेति" दर्शनरूपतया तस्या:-बढाया भवन-परिणमनं तद्भवनं तवोपयोगित्वात्-व्यापारवत्त्वात् कालस्य, व्यतिरेकमाह-"तं" कालम् "अन्तरेण" विना "तत्सिद्यसिद्धेः' तस्य-दर्शनस्य म्वभावलाभानिष्पत्तेः, कुत इत्याह-"विशिष्ट स्य" विचित्रसहकारिकारणाहितस्वभावातिशयस्य, 'उपादानहेतोरेव" परिणामिकारणस्यैव
- "तचापरिणतिस्वभावत्वात्" तथापरिणति:-कार्याभिमुखपरिणामः सैव स्वभावो यस्य कालस्य तत्तथा, तद्भावस्तत्त्वं तस्माद्व्यपर्यायत्वाकालस्य "उक्तवदिति" प्राकसूत्राभिहितानपधर्मवत् ।
टीका-अथ-भगवत्सु अभयदत्वं साधितम्, जगति सत्यमेवाऽस्ति यदभयदा स्तीथंकरा एव सन्ति नान्ये, यथतेर्हन्तो भव्येभ्योऽभयदास्तथैव सत्यदर्शनरूपनयनदा अपि सन्त्येतद्विषयगभितस्य शक्रस्तवान्तर्गतषोडशपदस्य-चक्षुर्देति पदस्य विशिष्टं विवरणं = अत्र चक्षुर्देति पदघटक, चक्षुः = चक्षुरिन्द्रियं सामान्यतः, तच्च द्रव्यतो भावतश्च द्विधा, .. . (१) बाह्याभ्यन्तरसांधकतमकरणरूपोपकरणेन्द्रियं द्रव्येन्द्रियं यत: "निवृत्ति उपकरणे द्रव्येन्द्रिय" (त० अ० २ सू०-२७) भावेन्द्रियं तु क्षयोपशम उपयोगश्च "लब्ध्युपयोगी भावेन्द्रियं" ( अ० २ सू०१८) अव निवृत्तिपदेनाकारो गृह्यन्ते. उपकरणं-इन्द्रियाभ्यन्तराकृतिस्थविषयग्राहकक्ति लंब्धिः ज्ञानाद्यावरण-क्षयोपशमविशेषः, उपयोग:-लब्ध्यनुसारेण विषय-व्यापि-आत्मनो ज्ञा. नादि-व्यापारविशेषः, एवं चेन्द्रियत्वेन प्रसिद्ध सामान्य चक्षुर्न गृह्यते परन्तु अत्र सूत्रघटितं चक्षुविशिष्टमेव न सामान्यं, अन वैशिष्टयं च, उपयोगविशेषजीवस्वभाव-विशिष्टजीवादितत्त्वनिर्णयकारणभूतश्रद्धा (रुचिधर्मप्रशंसादिरूप) रूपस्वभावविशिष्टात्मधर्मवत्त्वं । न च दर्शनहेतुभूत ज्ञानावरणादिक्षयोपशम एव चक्षुष्टवं कथं न कथितं ? मिथ्यात्वमोहक्षयोपशमसाध्यतत्त्वरुचिरूपश्रद्धा चक्षुष्टवेन कथं कथितं ? वाच्यम्, अन्धस्य रूपमिव तत्त्वरुचिविहीनस्थ तत्त्वदर्शनानुपपन्नत्वमिति. इयं प्रकृतश्रद्धा भगवत्प्रसादसाध्यत्वेन प्रसिद्धा, सम्यग्दर्शनादिरूप-मोक्षमार्गानुकूलत्वेन मार्गानुसारिणी, सुखत्वेन-क्लेशरहितत्वेनाऽवाप्यते, निरुक्तश्रद्धायां- सत्यामेव नियमतस्तत्त्वदर्शनं भवति, यथा कल्याणचक्षुषि सत्येव सद्भूतरूपस्य दर्शनम्, काचकमलाद्युपहते चक्षुषि सद्भूतरूपदर्शनं न भवति : मार्गानुसारिश्रद्धासाध्यदर्शनं प्रति काल विना सर्वथा प्रतिबन्धकाभावः, काल एवान प्रतिबन्धकं इति निश्चयनयव्यवहारिणो अवते. न च काले प्रतिबन्धके नियमेनात्र प्रतिबन्धो नेति वाच्यम् कालप्रतिबन्धोऽप्यप्रतिबन्धरूप उत्तेजक एव, (यथा दाहं कार्य प्रति मणिविशेषस्य प्रतिबन्धकता लोकसिद्धा, परन्तु मणिविशेषान्तरसत्तायां दाहोत्पत्ति भवति, मणिविशेषान्त राभावविशिष्टमणिविशेषस्य प्रतिबन्धकताऽवश्य-वक्तव्यताऽस्ति, अतो मणिविशेषांतरस्य, उत्तेजकता उपपन्नाऽस्ति, तथा दर्शन
142