________________
ललितविस्तरा-सटीका
- पं०-"मग्गदयाण", "मार्गः इहेत्यादि" "इह" सूके "माग्नः" पन्थाः, स किंलक्षण इत्याह-"चेतसो" मनसोऽवक्रगमनम्-अकुटिला प्रवृत्तिः, कीदृश इत्याह-भुजंगमस्व-सर्पस्य गगनलिका-शूषिरवंशादिलक्षणा ययाऽसावन्तः प्रविष्टो गन्तुं शक्नोति, तस्या बायामो-दध्य तेन तुल्यः क्षयोपशमविशेष इति योगः, किंभूत इत्याह-"विशिष्टयणस्थानावराप्तिप्रगुणः" इति, वक्ष्यमाणविशिष्टयुगलामहेतुः, "स्वरसवाही" निवाभिलावप्रवतः "क्षयोपशमो". दुःखहेतुदर्शनमोहादिक्षयविशेषः, तथाहि-यथा भुजंगमस्य नलिकान्तःप्रवृत्तस्य ममनेऽवक एव मनिकायामः समीहितस्थानावाप्तिहेतुः, बक्के तत्र गन्तुमशक्यत्वाद्, "एवंमसावपि" मिथ्यात्वमोहनीयादिक्षयोपगमश्चेतस इति । तात्पर्यमाह
.. "हेतुस्वरूपफलमुखा" हेतुना-पूर्वोदितश्रद्धालमणेन स्वमेण-स्वगतेनैव फलेन-विविदिषादिना शुद्धानिर्दोषा सुखा-उपशमसुखरूपा सुवासिकेत्यर्थः, एष मार्गस्वरूपनिश्चयो, व्यतिरेकतो भावयन्नाह-"न" नैव "अस्मिन्" भयोपशमरूपमार्गे "आन्तरे" अन्तरंगहेती बहिरंगगुर्वादिसहकारिसद्भावेऽपि "वोदितगुणस्थानापाप्तिः" सम्यग्दर्शनादिगुणलाभः, कुत इत्याह-"मार्गविषमतया" अयोपशमविसंस्थुलतया "तमनेन" मनमेव्याघातेन "प्रतिबन्धोपपतेः" यथोदितमस्थानावाप्तेविष्कस्मसंभवात्, कृतो ? यतः "सानुबन्धक्षयोपशमात्" उत्तरोतरानुबन्धप्रभूतक्षयोपशमात् "गुणस्थानावाप्तिः" पूर्वोक्ता जायत इति, व्यतिरेकमाह-"अन्यथा" सानुबन्धक्षयोपशमाभावे "तदयोगात्" यथोदितगुणस्थानावाप्तेरभावात्, कुत इत्याह
क्लिष्टं दुःखमतीति पु-कर्म ततः क्लिष्टकर्मण: "तत्र" निरनुबन्धक्षयोपशमे "तत्त्वत:" अन्तरंगवृत्या "बाधकस्वात्" प्रकृतगुणस्थानस्येति, क्लिष्टस्वल्पमेव व्याचष्टे-"सानु" परम्परानुक्सापा, क्लिष्टंक्लेशकारि, एतत्-कर्म, न पुनस्तत्कालमेव परमक्लेशकार्यपि स्कन्दकाचार्याियकम्मवन्महावीरकर्मवद्वा "इति तन्त्रगर्भः" एष प्रवचनपरमार्थः, कुत एतदित्याह-"तद्बाधितस्य" क्लिष्टकम्माभिभूतस्य "अस्य" चेतसः "तथागमनाभावात्" अवक्रतया विशिष्टमुणस्थानगवनाभावात्, कुत इत्याह-"पूनस्तदनुभवोपपत्तेः" तस्य-क्लिष्टदुःखस्यानभव एवोपपत्तिस्तस्याः, अवश्यमनुभवनीये हि तब कयमवर्क चित्तममनं स्यादिति भावः । नन सम्यग्दर्शनाबाप्तावपि कस्यचिन्मिथ्यात्वगमनात् कथमत्र क्लिष्टदुःखाभाव इत्याह-"नच" नैव "असो" प्रकृतजीवः "तथा" प्रागिव "अतिसक्लिष्टः' अतीव सानुबन्धक्लेशचान् "तत्प्राप्तौ" । माग्नप्राप्ती "इति" एतत् "प्रवचनपरमगुह्यं" शासनहृदयम्, अन्न हेतु:
"न खल" व "विनान्वेः" सम्यक्त्ववतो "भूयः" पुनः "तबन्यो" बन्धिबन्धः "इति" एवं "तन्त्रयुक्त्युपपत्तेः" पुनस्तबन्धेन न पवलीयते कदाचिदित्यादिशास्त्रीययुक्तियोगात्, ततः कि सिद्धमित्याह-"एवं" सानुबन्धतया "अनिवृत्तिगमनेन" अनिवृत्तिकरणप्राप्त्या "अस्य" मार्गरूपक्षयोपशमस्य "भेदो" विशेषः, शेषक्षयोपशमेभ्यः परतन्त्रेणापीदं साधयमाह--"सिद्धं च" प्रतीतं" च "एतत्" सानुबन्धक्षयोपशमवतो अन्धिभेदादिलक्षणं वस्तु "प्रवृत्त्यादिशब्दवाच्यतया"नामान्तरेषेत्यर्षः, "योगाचार्याणां" पतञ्चलिप्रभृतीना, कमित्याह--"प्रवृत्तिपराक्रमजयानन्दऋतम्भरभेदः कर्मयोग" प्रवृत्तिः--चरमयथाप्रवृत्तिकरणशुद्धिलक्षणा, प्रकृतो मार्ग इत्यर्थः, पराक्रमेण--वीर्यविशेषवृद्धया अपूर्वकरणेनेत्यर्थो, जयो--विबन्धकाभिभवो विघ्नजयोऽनिवृत्तिकरणमित्यर्थः, आनन्द:-- सम्यग्दर्शनलाभरूपः'तंमोग्रन्थिभेदादानन्दः' इति वक्ष्यमाणवचनात्, ऋतम्भरः सम्यग्दर्शनपूर्वको देवतापूजनादियापारः, ऋतस्य-सत्यस्य भरणात्, ततश्च ते प्रवृत्त्यादयो भेदा यस्य स तथा....
144