________________
ललितविस्तरा-सटीका
साम्प्रतं भवनिर्वेदद्वारेणार्थतो भगवद्बहुमानादेव विशिष्ट कर्मक्षयोपशमभावाद्, अभयादिधर्मसिद्धिस्तद्वयतिरेकेण नैःश्रेयसधासम्भवाद् भगवन्त एव तथा तथा सत्त्वकल्याणहेतव इति प्रतिपादयन्नाह-अभयदयाणमित्यादिसूत्रपञ्चकं, इह भयं सप्तधा-इहपरलोकाऽऽदानाकस्मादाजीवमरणाश्लाघाभेदेन, एतत्प्रतिपक्षतोऽभयमिति विशिष्टमात्मनः स्वास्थ्य, निःश्रेयसधर्मभूमिकानिबन्धनभूता धृतिरित्यर्थः, न ह्यस्मिन्नसति यथोदितधर्मसिद्धिः, सन्निहितभयोपद्रवैः प्रकामं चेतसोऽभिभवात्, चेतःस्वास्थ्यसाध्यश्चाधिकृतो धर्मः, तत्स्वभावत्वात, विरुद्धश्च भयपरिणामेन, तस्य तथाऽस्वास्थ्यकारित्वात, अतोऽस्य गुणप्रकर्षरूपत्वात्, अचिन्त्यशक्तियुक्तत्वात्, तथाभावेनावस्थितः सर्वथा परार्थकरणात्, भगवद्भ्य एव सिद्धिरिति । तदित्थंभूतमभयं ददतीत्यभयदाः १५ ॥
पं०-'भवनिर्वेदेत्यादि" भवनिर्वेद:-संसारोद्व गो यथा-"कायः संनिहितापायः, सम्पदः पदमापदाम् । समागमाः सापगमाः, सर्व मुत्पादि भङगुरम् ॥१॥" एवंचिन्तालक्षण: स एव द्वारम-उपायस्तेन भगवन्तस्तथा तथा सत्त्वकल्याणहेतवः इत्युत्तरेण सम्बन्धः, कथमित्याह-"अर्थत:" तत्त्ववृत्त्या "भगवब्दहमानादेव" अर्हत्पक्षपातादेव, भवनिर्वेदस्यैव भगब्दहुमानत्वात्. ततः किमित्याह-"विशिष्टकर्मक्षयोपशमभावाद्'' विशिष्टस्यमिथ्यात्वमोहादेः कर्मणः क्षयोपशम:--उक्तरूपस्तद्भावात, ततोऽपि किमित्याह--"अभयादिधर्मसिद्धेः" अभयचक्षर्मार्गशरणादिधर्मभावात्, व्यतिरेकमाह--तद्वयतिरेकेण" अभयादिधर्मसिद्धयभावेन "नैःश्रेयसघर्मासम्भवात" निःश्रेयसफलानां सम्यग्दर्शनादिधर्माणामघटनात् "भगवन्त एव" अहल्लक्षणाः "तथा तथा" अभयदानादिप्रकारेण "सत्त्वकल्याणहेतवः” सम्यक्त्वादिकुशलपरम्पराकारणमिति
__ "इहेत्यादि' इहपरलोकादानाकस्मादाजीवमरणाश्लाघाभेदेन--इहपरलोकादिभिरुपाधिभिर्भेदोविशेषस्तेन, तत्र मनुष्यादिकस्य सजातीयादेरन्यस्मान्मनुष्यादेरेव सकाशाद्यद्भयं तदिहलोकभयं, इहाधिकृतभीतिमतो भावलोक इहलोकः, ततो भयमिति व्युत्पत्तिः, तथा विजातीयात्तिर्यग्देवादेः सकाशान्मनुष्यादीनां यद्भयं तत्परलोकभयं, आदीयत इत्यादानं, तदर्थं चौरादिभ्यो यद्भयं तदादानभयं, अकस्मादेव-बाह्यनिमित्तानपेक्षं ग्रहादिष्वेव स्थितस्य रात्यादौ भयमकस्माद्भयं, आजीवो-वर्तनोपायस्तस्मिन् अन्येनोपरुध्यमाने भयमाजीवभयं, मरणभयं प्रतीतं, अश्लाघाभयम्--अकीर्तिभयं, एवं हि क्रियमाणे महदयशो भवतीति तद्भयान्न प्रवर्त्तते इति, "एतत्प्रतिपक्षतः” एतस्य--उक्तभयस्य प्रतिपक्षतः--परिहारेणाभयं-भयाभावरूपं "इति" इत्येवंलक्षणं, पर्यायतोऽप्याह--
- "विशिष्टं" वक्ष्यमाणगुणनिबन्धनत्वेन प्रतिनियतम् "आत्मनो" जीवस्य "स्वास्थ्य" स्वरूपावस्थानं, तात्पर्यतोऽप्याह--"निःश्रेयसधर्मभूमिका निबन्धनभूता धृतिरित्यर्थ इति' निःश्रेयसाय-मोक्षाय धर्मो निःश्रेयसधर्म:--सम्यग्दर्शनादिस्तस्य भूमिका-बीजभूतो मार्गबहुमानादिगुणस्तस्य निबन्धनभूता-कारणभूता
137