________________
ललितविप्तरा-सटीका
प्रद्योतस्याऽत्रासम्भवोऽस्ति, ननु कथमिवासो-प्रद्योतोऽचेतनेषु स्यादिति चेदुच्यते अतः चेतनभिन्नेषु धर्मास्तिकायादिषु अचेननेषु पूर्वोक्तभावसाधनरूपस्य प्रद्योतस्याऽसम्भवे सति, अतो 'ज्ञानयोग्यतवेह प्रद्योतनमन्यापेक्षयेति' = अतो, अचेतनमानधर्मास्तिकायादिपदार्थेषु पूर्वकथित-परिभाषितभावसाधनरूप-प्रद्योतस्याऽसम्भवोऽस्ति, अतो भावसाधनतोऽन्य-भिन्नापेक्षया = अचेतनादिस्वरूपस्य प्रकाशकं. आप्त-सर्वज्ञस्य वचनमपेक्ष्य, इह-अचेतनेषु ज्ञानयोग्यतंव' श्रुतज्ञानेन ज्ञातापाररूप ज्ञानं प्रति विषयभावेन-विषयतया परिणतिः परिणमनमेव. ज्ञातुर्ज्ञानरूपव्यापार सति तं प्रति सम्मुखीनतया विषयाणां विषयत्वेन परिणतिः स्वभावेन विषयपरिणाम एष ईदृशः कथ्यते । तथाहि = यथा प्रदीपप्रभादिकं प्रकाशकमपेक्ष्य चक्षुष्मतो द्रष्टु द्रष्टव्यापाररूपदर्शनं प्रति घटादिरूपदृश्यविषयनिष्ठा, दर्शनक्रियाविषय-भावेन विषयत्वेन परिणमनरूपपरिणतिरेव प्रकाशस्तथाऽचेतनादिस्वरूपप्रकाशकवीतरागवचनमपेक्ष्य श्रुतज्ञानज्ञात निरूपव्यापार प्रति विषयभावे परिणतिरेवाचेतनादिगतः प्रकाशो ज्ञेयः, परन्तु श्रुतावरणक्षयोपशमरूपः प्रकाशो न हि जय इति. तत:-पूर्वकथित-प्रतिपादनेन प्रतीयत एव, यत् स्तवेषु-स्तति स्तोत्रस्तवनादिष 'समुदायेष्वपि अनेकधा प्रवृत्ताः शब्दा अवयवेष्वपि प्रवर्तन्ते' इति न्यायत एवमेव वाचक-शब्दस्य प्रवृत्तिरिति स्थिते केचिदत्र वदन्ति 'स्तवेषु-मङगलकारकेषु विघ्न-विध्वंसकेष, अपुष्कल शब्द: प्रत्यवायः' सम्पूर्णलोकरू ढस्वार्थानभिधायकः शब्दः प्रत्यवायो विघ्नरूपो भवतीति मत लोकोत्तमादिपदपञ्चकेन निराकृतं कृतं यतस्तत्त्वतः-वास्तवीं स्तवनवृत्तिमपेक्ष्य विभागश:-विभाजनतः -प्रवृत्तस्य-लोकावययेषु, अपि प्रवृत्ति-विषयस्य लोकशब्दस्य सम्पूर्णस्वार्थस्याऽकथनेपि अपष्कलता न्यूनता न घटते परन्त लोकरूढसम्पर्णलोकस्वार्थस्यापेक्षया त न्यनत्व यज्येत तथापि वस्त--तत्त्वसत्य-वास्तवस्यापेक्षया न्यनत्व सर्वथा न घटते, वस्तुशब्दतो वस्तुतत्त्व महत्, शब्द ज्ञानतो तत्त्वज्ञान महदिति । एवं च लोकोत्तमत्वेन लोकोत्तमाः सन्त्यत एव लोकनाथत्वेन लोक नाथा भवन्त्यत एव ते, लोकहितत्वसिद्धिद्वारा लोकहिता भवन्त्यत एते लोकप्रदीपत्वेन लोक प्रदीपा भवन्त्यत एव ते लोकप्रद्योतकरत्वेन लोकप्रद्योतकरा भवन्ति, तथा च पूर्वं पूर्व कारणं पर पर कार्यमिति न्यायन पूर्व-पूर्व-पदनिष्ठा कारणता, क्रमशः परपरनिष्ठा कार्यता सङकलनीया, अर्थात समस्तभव्यलोक प्रति उत्तमत्वेन (लोकोत्तमाः), अत: विशिष्ट-बीजाधानादिसंविभक्त भव्यलोकं प्रति नाथत्वेन (लोकनाथा:). अत: सकलप्राणिलोक अथवा पञ्चास्तिकायात्मक लोक प्रति हितकारित्वेन (लाक हिताः) अतः सम्यग्दर्शननयनसपन्न-संज्ञि-लोक प्रति प्रदीपन्वेन (लोकप्रदीगाः), अतः, उत्कृष्टचतुद्द शपूर्वधर गणधरलोक प्रति प्रद्योतकरत्वेन (लोकप्रद्योतकगः). भिन्नभिन्नरूपेषु भिन्न भिन्नक्षेत्रेष, अर्हन्तो भगवन्तः परार्थकरणतत्परा भवन्ति, अर्थादह तो भगवन्त: सामान्येन--सर्वलोकव्यापकत्वेन भिन्नभिन्नार्थकसर्वलोकोपकारकत्वेन पञ्च लाकात्तगादोनि विशेषणपदानि, एतेषु पञ्चसु पदेषु पराथंकरणरूपोपयोगसत्त्वेन, पञ्चस पदेष प्रथमस्तोतव्य सम्पद एव सामान्येन (व्यापकत्वेन) उपयोगवत्त्वेन, तत्पदपञ्चकवती 'सामान्येनोपयोगसम्पत् कथ्यते इति चतुर्थीसम्पदः समाप्तितः, चतुर्दशपदानि सहैव सम प्तानीति,
136