________________
ललितविस्तरा-सटीका
पं०..."अतो भावसाधनप्रद्योतासम्भवादचेतनेषु धर्मास्तिकायादिषु 'ज्ञानयोग्यतैव' श्र तज्ञानज्ञात व्यापाररूपं ज्ञानं प्रति विषयभावपरिणतिरेव "इह" अचेतनेषु 'प्रद्योतनं"प्रकाशः, अन्यापेक्षया तत्त्वस्वरूपप्रकाशकमाप्तवचनमपेक्ष्यति, यथा किल प्रदीपप्रभादिकं प्रकाशकमपेक्ष्य चक्षुष्मतो द्रष्टुर्घटादेर्दश्यस्य दर्शनविषयभावपरि णतिरेव प्रकाशम्तथेहापि योज्य मिति, नतु श्रुतावरणक्षयोपशमलक्षण इति । "एतेनेति" एतेन लोकोत्तमादिपदपञ्चकेन "अपुष्कलशब्द इति" सम्पूर्णलोकरूढस्वार्थानभिधायकः, "तत्त्वेनेत्यादि", तत्त्वेन-वास्तवीं स्तवनवृत्तिमाश्रित्य "ईदृशस्य" विभागेन प्रवृत्तस्य लोकशब्दस्य सम्पूर्णस्वार्थानभिधानेऽपि “अपुष्कलत्वायोगात्" न्यूनत्वाघटनात्, लोकरूढस्वार्थापेक्षया तु युज्येताप्यपुष्कलत्वमिति तत्त्वग्रहणम् ।।
टी०...'प्रद्योत्यं तु' = प्रद्योतनामक्रियाया विषयः, पुनः सप्त प्रकारा भेदा यस्य तत् -सप्तप्रकारं, जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षलक्षणं जीवबदितत्त्वं (१-चैतन्यलक्षणं जीववस्तु. २-चैतन्यरहित, अजीवतत्त्वं, ३-जीवो येन सुखं भुङक्ते तत्कर्म पुण्यतत्त्वं, ४-जीवो येन दुःखं संवेदयति तत्कर्म पापतत्त्वं, ५-जीवाजीवावपेक्ष्य जाता शुभाशुभप्रवृत्तिः सा, आश्रवतत्त्वं, जीवेष कर्मागमन, अत्र पुण्यपापयोः समावेशो भवति.६ जीवप्रदेशः सह कर्मणां मिथ: संश्लेषो बन्धतत्त्वं, तदाश्रवजन्यं भवति, ७-संवरतत्त्वं तु बन्धप्रतिपक्षरूपं प्रवृत्ति-निरोधरूपं, जीव प्रत्यागच्छतां कर्मणां विष्कम्भनं, ८-निर्जरातत्त्वं-पूर्वबन्धस्य देशक्षयो निर्जरातत्त्वं, ६-बन्धजातीयसकलकर्मक्षयो मोक्षः।।) एतत्प्रद्योत्यं सूत्रे, अक्षररूपेणाऽगृहीतमपि, सामर्थ्य गम्यं (प्रद्योतरूपशब्दशक्तिद्वारा गम्यं-ज्ञेयं) यतः, 'तथा' 'शाब्दन्यायात्' शब्दशास्त्रप्रसिद्धनियमविशेषरूप-शाब्दन्यायोऽस्ति, तथाहि = प्रद्योतनामक-क्रियायाः कर्तुः सिद्धौ = प्रद्योतकरस्य सिद्धौ सत्यां 'सकर्मका धातवो नियमतः प्रकारभूतं कर्म, गृह णन्ति' अन 'प्र+द्यत्' नामक धातुः प्रेरके णि-प्रत्ययार्थः, तेषु सकर्मकधातुषु कर्मणा सहिताः सकर्मकाः,) सकर्मकोऽस्ति, अवश्यं कर्म नयति, तत्कर्म क्रियाविषयत्वेन फलाश्रयरूपं भवति, तथा च प्रद्योत्यरूपकर्मणोऽभावे प्रद्योतकरत्वस्याभावोऽतः सामर्थ्यत:-शब्दार्थोंभयगतशक्तिद्वारा प्रद्योत्यस्य गम्यमानत्वं ज्ञेयम्, अर्थाद् यथाऽर्हन्तः प्रद्योतयन्ति-प्रकाशयन्ति, इति वाक्ये सति, कान् विषयान् प्रद्योतयन्ति ? इत्याकारकाकाङक्षाशमनाय 'प्रद्योत्य' रूपकमपदस्या ध्याहार: कर्तव्य इति युक्तः, (शब्दाध्याहारः = आकाडिक्षतशब्दानुसन्धानम् (नील. ४ पृ. ३१) यथा 'पिधेहि' इत्युक्ते द्वारमिति द्वितीयान्तपदाध्याहारः, अध्याहि यते ज्ञानायानुसन्धीयते, अश्रुतपदस्योपरितोऽनुसन्धानम्) ननु जीवादितत्त्वं प्रद्योतधर्म-स्वभावकमपि कस्मात् कारणानभवति येन सम्पर्णस्यैव लोकस्य भगवतां प्रद्योतकरत्वसिद्धिः स्यादिति चेदुच्यते, अन्यथा - प्रद्योत्यत्वाभाववत्स चेतन भिन्नेषु धर्मास्तिकायादिषु प्रद्योतनरूपप्रद्योतस्याभावो यतः प्रद्योतनं प्रद्योत इति भावसाधनस्याऽसम्भवोऽस्ति = अर्थाद्, आप्त-सर्वज्ञवचन (त्रिपदीरूपवचन) साध्यः श्रुतावरणक्षयोपशमो भावः, साधनं तु प्रकाशव्यापाररूपः प्रद्योतः, तस्य भाव-साधनरूप प्रद्योतन
- 135