________________
ललितविस्तरा सटीका
देशपूर्वगताक्षरलाभेन समाना अक्षरश्रुतापेक्षया सर्वे चतुर्दशपूर्वधराः सदृशाः, तथापि श्रुतविशेषेण, क्षयोपशमस्य वैचित्र्येण ते हीनाधिका ज्ञेयाः, अत एव चतुर्दशपूर्वधरा हानिवृद्धिरूपषट्स्थानपतिताः, अतः कोऽपि, उत्कृष्टचतुर्दशपूर्ववित्, सर्वानभिलाप्यान् भावान् यो - जानाति, ( ततोऽन्येऽल्पान् स्वल्पान् भावान् जानन्ति यः सर्वेभ्यों भावेभ्योऽल्पीय सोऽभिलाप्यभावान् जानाति स जघन्यचतुदेशपूर्वधरो ज्ञेयः ) तमपेक्ष्य प्रद्योतकरा भगवन्तः ।
इदमत्र हृदयम् = भगवतां प्रज्ञापना-देशनाजन्यं, उत्कृष्टप्रकाशरूपं त्रिपदीनामकं प्रद्योतं प्राप्य, उत्कृष्टश्रुतावरणक्षयोपशमद्वारा समस्ताभिलाप्यभावकलापस्य वेत्तारी गणधरा एवोत्कृष्टचतुर्दशविदो भवन्ति यतो गणधरेषु योग्याधिकारिषु भगवतां प्रज्ञापनाया एव उत्कृष्ट प्रकाशरूपप्रद्योतसम्पादनसामर्थ्यं वर्त्ततेऽर्थाद् भगवान् त्रिपदीप्रज्ञापनाद्वारा सकलाऽभिलाप्यपदार्थ विषयक श्रुतावरणादिक्षयोपशमजन्यं, उत्कृष्ट प्रकाशनामकप्रद्योतं गणधरेष्वेव विनिदधाति यतो भगवतस्तादृशप्रज्ञापनं ईदृशपूर्वं सामर्थ्यं समस्ति ।
ननु एवं तहिं गणधरान् विमुच्यान्येषां भगवद्वचनात्प्रकाशाभावः किं प्राप्नोतीति नेदुच्यते, भगवद्वचनसाध्य - गणधरनिहितप्रद्योतस्यैकदेश एतेषु भवति यथा दिग्दर्शक - प्रकाशकादित्यप्रकाशः पृथक्पृथग्भागेन पूर्वादिदिक्षु विद्यते । इति प्रद्योतकरसिद्धिः ।
प्रद्योत्यं तु सप्तप्रकारं जीवादितत्त्वं, सामर्थ्यंगम्यमेतत्, तथाशाब्दन्यायात्, अन्यथा अचेतनेषु प्रद्योतनायोगः, प्रद्योतनं प्रद्योत इति भावसाधनस्यासम्भवात्,
पं०... ०... ' प्रद्योत्यं तु" प्रद्योतविषयः पुनः "सप्तप्रकार" सप्तभेदं "जीवादितत्त्वं जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षलक्षणं वस्तु " सामर्थ्य गम्यमेतत्" सूत्रानुपात्तमपि कुत इत्याह- " तथाशाब्दन्यायात्" क्रियासिद्धी कर्म्मसु धातुषु नियमतस्तत्प्रकारकम्भावात्, आह-जीवादितत्त्वं प्रद्योतधम्मंकमपि कस्मान्न भवति, येन सम्पूर्णस्यैव लोकस्य भगवता प्रद्योतकरत्वसिद्धिः स्यादित्याशङकय व्यतिरेकमाह - " अन्यथा " प्रद्योत्यत्वं विमुच्य " अचेतनेषु" धर्मास्तिकायादिषु प्रद्योतनायोगः, कथमित्याह - "प्रद्योतनं प्रद्योत इति भावसाधनस्यासम्भवात्” आप्तवचनसाध्यः श्रुतावरणक्षयोपशमो भावः साधनं तु प्रद्योतः कथमिवासावचेतनेषु स्याद् ? अत एवाह
अतो ज्ञानयोग्यतैवेह प्रद्योतनमन्यापेक्षयेति, तदेवं स्तवेष्वपि एवमेव वाचकप्रवृत्तिरितिस्थितम्, एतेन "स्तवेऽपुष्कलशब्दः प्रत्यवायाय" इति प्रत्युक्तं तत्त्वेने दृशस्यापुष्कलत्वायोगादिति लोकप्रद्योतकराः १४ । एवं लोकोत्तमतया लोकनाथभावतो लोकहितत्वसिद्धेर्लोकप्रदीपभावात्, लोकप्रद्योतकरत्वेन परार्थंकरणात् स्तोतव्यसम्पद एव सामान्येनोपयोगसम्पदिति ४ ॥
134