________________
ललितविस्तरा-सटीका
कथमिति चेदुच्यते = असमानदर्शन करणे मति, एकस्वभावापन्नप्रकाशोऽपरद्रष्ट्टसहकारिभूतः पराभ्युपगा-प्रथमद्रष्टमह कारिगं प्रति प्रतिबन्धकों भवति. प्रथमद्रष्टसहकारित्वं, अपरद्रष्ट सहकारिणा प्रतिबध्यतेऽत एगसमानदर्शन क्रिया भवति. अर्थात्, स प्रकाशः, येन स्वभावेन कस्यचिच्चतर्दशपूर्ववेत्तः दर्शनक्रियां प्रति सहकारी भवति, तत्समानं दर्शनमकुर्वन् प्रकाशो द्वितीय चतुर्दशपूर्वविदं प्रति तेनैव स्वभावेन महकारो न भवति. यतो दर्शनभेदं प्रति, अभिन्न-एकरूपप्रकाशस्याभावः कारणं भवति. अर्थात प्रकागभेदेन दर्शनभेदः सिद्धः, कार्यभेदद्वारा निर्णीयते सवंद्रष्ट्टचतुर्दशपूर्ववित्सु दशनभदरूपकार्य भिन्न भिन्न दृश्यते, ततस्तद्दर्शनभेदप्रयोजक-प्रकाशभेदो मन्तव्य एव, तत: प्रथमद्रष्ट्टनिष्ठदृश्यदर्शनसहकारिकारणभूतः प्रकाशो भिन्न-स्वभावः अपरद्रष्टसमवेतदृश्यदर्शनसहकारिभतः प्रकाशो भिन्न-स्वभाव इति मतेनैव सर्वव्यवस्था सुचार्वी रक्षिता भवेन्नान्यथा तथाहि कारणभेदपूर्वको हि निश्चयतः कार्यभेदः, यदि, अविशिष्ट-सामान्यकारणप्रयुक्त विशिष्ट कार्योत्पत्तिप्रतिपत्तो जगतप्रसिद्ध कारणवैचित्र्यं-कारणनानाविधत्वं निरर्थक स्यात् अथवा कार्यकारणविषयकव्याप्तिरूपो नियमोऽव्यवस्थो भूत्वा भङगशीलः स्यात्, नियम: = 'कारण विना कार्य न भवेत-नोत्पद्यत, स्वकार्यकारणं, अन्यकायकारणं न भवेत् ( पटका रणतन्तुः, घटस्य कारण न भवेत्तथा) अन्यथा-विपरीतत्वेन तु कारणं विना कार्योत्पत्तिः, अन्यस्य कारण म्वकाय कारणं स्यातदा क्वचिदपि कार्यकारणनियमरूपा व्यवस्था न भवेत," नियमस्य समन्वयः- इतरेतर पक्षो हि वस्तुस्वभाव:' कारणरूपवस्तस्वभाव: कार्यरूपवस्तुस्वभावमपेक्षते तथैव कार्यरूपवस्तुस्वभाव:' कारणरूपवस्तुस्वभावमपेक्षते इति इतरेतरापेक्षो वस्तुस्वभावः कार्यकारण रूपवस्तस्वतत्त्वं अत एव कार्यस्वभावापेक्षकारण-स्वभावाधीना कार्यसिद्धिर्भवति, यादृशः प्रकाश-रूपःकारणस्वभावस्तादृश दर्शनरूपं कार्यमुत्पद्यते इत्यर्थः । . . प्रकाशभेदरूपका रणभेद योज्यो दर्शनभोदरूप-कार्यभेदों भावत्यतः 'उत्कृष्टचतुर्दशपूर्वविल्लोकमेव
= भगवतां प्रज्ञापना (देशनासूर्यप्रकाशरूप) नामकप्रद्योतेन प्रतिपन्नसमस्ताऽभिलाप्यभावकलापा गणधरा एवोत्कृष्टचतुर्दशपूर्वविदः कथ्यन्तेऽर्थांदनन्तगुणवृद्धिरूपोत्कृष्ट वृद्धि-स्थानगतचतुर्दश-पूर्वलब्धिद्वारोत्कृष्ट-चतुर्दशपूर्वविल्लोकमधिकृत्यैव (नान्यान्षट्स्थानहीनश्रुतलब्धीन् पुरुषानधिकृत्य यतो हीनश्रुतलब्धीन् प्रति भगवतां प्रदीपत्वं ज्ञेयं प्रद्योतकरत्वं न) प्रद्योतकरा अहंन्तो भगवन्तो भवन्ति.
(प्रज्ञापनीय (अभिलाप्य) भावास्तु, अनभिलाप्यभावानामनंतभागे वर्तन्ते, तेष्वपि च प्रज्ञापनीयभावानामनन्तो भाग एव श्रुते नियोजित एव, यावन्तोऽभिलाप्यभावाः सर्वे श्रुते नियोजयितु शक्या भवेयुस्तहि तज्ज्ञातृणां सर्वेषां ज्ञान समानं कथितं भवेत्, अर्थाद् यद्यपि सर्वे चतुर्दशपूवविदश्चतु.
133