________________
ललितविस्तरा-सटीका
औत्पत्तिक्यादिविशिष्टबुद्धिमान् गणधरपद-प्रायोग्यो भव्यजीवलोक एव गृह्यतेऽर्थाद् विशिष्टतमभव्यलोक एवानवकारेणाऽन्यलोकस्य निषेधः सम्पद्यते, यः खलु प्रथमसमवसरण एवार्हद्भगवद्भिः संस्थापित-मातृका (जैनशासनस्य मातेव माता, मूलाक्षररूपा मातृका) रूपत्रिपदी श्रवणहेतुजन्यप्रद्योत (प्रकृष्टप्रकाशप्रवृत्तौ = सर्ववस्तुबोधे प्रथमाने सति सकलाऽभिलाप्यरूपप्रद्योतविषयजीवादिसप्त (नव) तत्त्वविषयकप्रत्यक्षद्रष्टा, सकलश्रुतग्रन्थरूपद्वादशांगीप्रणेता तत्क्षण एव सजायते सोऽत्र गृह्यते, कथमेतदिति चेदुच्यते, उत्कृष्टबुद्धिसम्पन्न एव भव्यलोके, जघन्यादि भेदभिन्नमतिभव्यलोक वर्जयिन्वा, यतो निश्चयनयतः, उत्पन्ने इ वा (उत्पद्यते वा) विगमे इ वा (त्रिगमयति वा) धुवैइ वा (ध्रुवति) (उत्पादद्रव्यधौव्ययुक्तं सत्) इति त्रिपदीसमुच्चारणोपन्यासद्वारा, प्रकृष्टप्रकाशरूपप्रद्योत-स्वभावत्वेन विधान घटते, अर्थाद् भगवनिष्ठप्रद्योतकरशक्तिविशेषस्योत्कृष्टमातविशिष्टभव्यलोके साकल्येन सर्वात्मना, उपयोगरूपोपकारो घटते । सर्वोत्कृष्टमतिवैभव-सम्पन्नगणधरपदप्रायोग्य-भव्यलोकं प्रति प्रद्योतकरणशक्तिस्वभाववन्त: 'लोकप्रद्योतकराः' उच्यन्ते, नान्यत्र-नान्यं प्रत्येव. नन, उत्कृष्ट मतिसम्पन्नचतुर्दशपूर्ववेत्तृणामपि (आस्तां तदितरेषामित्यपिशब्दार्थः) चतुर्दशपूर्वलब्धिनामक (शक्तिविशेषलब्धिः) स्वस्थाने-आत्मगतमूलस्थाने महान् (महत्त्वशाली विस्तारवान्) दर्शनभेद:-दृश्यपदार्थविषयप्रतीती-निर्णयात्मकज्ञाने तारतम्यरूपभेदोऽस्ति-वर्तते, यतः-तेषामपि चतुर्दशपूर्वज्ञात्तृणामपि (कि पुनरन्येषां विकल श्रुतग्रन्थानां इत्यपि शब्दार्थः) परस्परं (अन्योऽन्यं) एकोऽन्येन सह, अन्यो-द्वितीयस्तृतीयेन सहवं सर्वत्र चतुर्दशपूर्व वित्सु परस्परं षट्स्थानेपतितत्वं-वर्तमानत्वं श्रूयते, यतः षण्णां वृद्धिस्थानानां हानिस्थानानां चानन्तभागासंख्येयभागसंख्येकभाग-संङख्येयगुणा-सख्येयगुणानन्तगुणलक्षणानां शास्त्रे, उपलम्भ-उपलब्धि भवति (चतुर्दशपूर्वविदः परस्परं क्षयोपशमवैचित्र्येणाक्षरलाभापेक्षया सदृशा अपि भावापेक्षया (पदार्थदर्शनापेक्षया) भिन्नाः, षट्सु स्थानेषु वत्तंमानाः सन्ति) अत एव चतुर्दशपूर्वविदां स्वस्थाने महान् दर्शनभेद: सिद्धः किञ्च = सर्वात्मना एकरूपात्मके श्रुतावरणादिक्षयोपशमहेतुजन्ये प्रकाशे सति महान् दर्शनभेदो (स्वल्पोऽपिदर्शनभेदो) न, यतोऽप्रकाशः एकान्तेनैकरूप: प्रकाश इति प्रकृतमतमर्थाद्, अनानारूप एकान्तेनैकस्वभावे (अभिन्ने) हि प्रकाशे द्वितीयादिस्वभावानामभावः, तत एकस्वभावत्ववति (अभिन्ने) प्रकाशे दृश्यवस्तुप्रतीतिविशेषमूलकारणता नास्ति. सोऽभिन्न एकरूपः प्रकाशः, आत्मगतेन येन स्वभावेन एक-प्रथमद्रष्टुः दर्शनक्रियाकत्तुंः, साध्यरूपदर्शनक्रियायां सहकारी-सहायको भवति. प्रथमद्रष्टुः-दर्शनकत्तुंः समानं वस्तुबोधनामक दर्शनं, अविदधानः-अकुर्वन् सन् सोऽभिन्नप्रकाशः, तेनैव प्रथमद्रष्टरूपसहकारिस्वभावद्वारव द्वितीयस्य-प्रथमभिन्नस्यापरस्य द्रष्टुः-दर्शन कत्तु : सहकारी न भवति.
132