________________
ललितविस्तरा-सटीका
अविदधानो, न तेनैव" प्रथमद्रष्ट्टसहकारिस्वभावेन 'अपरस्य" द्वितीयस्य द्रष्टुः सहकारीति गम्यते । कुत इत्याह "ततत्त्वविरोधात्" अतुल्यदर्शन करणे तस्य-एकस्वभावस्यापरद्रष्ट्टसहकारिणस्तत्त्वं-प्रथमद्रष्ट्ट सहकारित्वं पराभ्युपगतं तस्य विरोधाद्-अपरद्रष्ट्ट सहकारित्वेनैव निराकृतः इति" एतत्, "भावनीयम्" अस्य भावना कार्या, कारणभेदपूर्वको हि निश्चयतः कार्यभेदः, ततोऽविशिष्टादपि हेंतोविशिष्टकार्योत्पत्त्यभ्युपगमे जगत्प्रतीतं कारणवैचित्यं व्यर्थमेव स्यात, कार्यकारणनियमो वाऽव्यवस्थितः स्यात्, तथाचोक्तम् 'नाकारणं भवेत्कार्य, नान्यकारणकारणमामन्यथा न व्यवस्था स्यात्कार्यकारणयोः क्वचित् ॥१॥" भावनिका स्वयमप्याह-"इतरेतरापेक्षो" "हिः' यस्मादर्थे, इतर:-कारणवस्तुस्वभाव इतरं कार्यवस्तुस्वभावश्च कारणवस्तुम्वभावमपेक्षते-आश्रयते इतरेतरापेक्षः' "वस्तस्वभावः" कार्यकारणरूपपदार्थस्वतत्त्वं, ततः कि.मित्याह-"तदायत्ता च' कार्यापेक्षकारणस्वभावायत्ता च "फनसिद्धिः" कार्यनिष्पत्तिः, यादृक् प्रकाशरूप: कारणस्वभावस्तादृग् दर्शनरूपं कार्यमुत्पद्यते इतिभावः, "इति" अस्मात्प्रकाशभेदेन दर्शनभेदाद्ध तो: "उत्कृष्टचतुर्दशपूर्वविल्लोकमेव" नान्यान् षट्स्थानहीनश्रुतलब्धीनधिकृत्य -आश्रित्य प्रद्योतकरा इति । एवं चेदमापन्नं यदुत-भगवत्प्रज्ञापनाद्योतप्रतिपन्ननिखिलाभिलाप्यभावकलापा गणधरा एवोत्कृष्ट चतुर्दशपूर्व विदः, भवन्ति, गणधराणामेव भगवतः, प्रज्ञापनाया एव, उत्कृष्ट प्रकाशलक्षणप्रद्योतसम्यादनसामर्थ्याद एवं तहि गणधरव्यतिरेकेणान्येषां भगवद्वचनादप्रकाशः प्राप्नोतीति चेत्, न, भगवद्वचनसाध्यप्रद्योते । देशस्यतेषु भावादिग्दर्श प्रकाश येव पृथक् पूर्वादिदिदिवति । एवं प्रद्योतकरसिद्धौ प्रद्योतनीयनिरिणायाह
टी०...लोकप्रद्योतकररूपं शक्रस्तवस्य चतुर्दशं पदं विवियते = तथा 'समुदायेषु अपि प्रवृत्ताः शब्दा अवयवेष्वपि प्रवर्तन्ते' इति पूर्वोक्तन्यायस्य सन्दर्शनार्थं कथ्यते 'लोकप्रद्योतकरेभ्यः' लोकं प्रति प्रद्योतकरेभ्योऽर्हद्भ्यो भगवद्भ्यो नमः । इह यद्यपि लोकशब्देन प्रक्रमाद् (आलोकशब्दवाच्यप्रद्योतोपन्यासान्यथाऽनुपपत्तेः = भव्यलोक-शब्दोपस्थिते रभावेसति, आलोकशब्दवाच्यप्रद्योतोपन्यासो न भवेद, भव्यलोकशब्दोपस्थितौ सत्यां, आलोकशब्दवाच्यप्रद्योतोपन्यासो भवेत्, यतो हेतुप्रयोगो द्विधा - 'सत्येव साध्ये हेतोरुपपत्तिस्तथोपपत्तिः, असति साध्ये हेतोरनुपपत्तिरेवाऽन्यथाऽनुपपत्तिः' प्रक्रमःउपक्रमः = तात्पर्यनिर्णायको हेतुविशेषः यथा वेदान्तिनां मते 'उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् अर्थवादोपपत्ती च हेतुस्तात्पर्य निर्णये ।। 'इत्यादौ (वाच.) तथा चेतिश्लोकोक्तान्युपक्रमादीनि ग्रन्थतात्पर्यग्राहकाणि ॥ प्रद्योतरूपप्रक्रम-उपक्रमः, तात्पर्यग्राहकत्वेन प्रक्रमेण भव्यलोकरूपतात्पर्य गृह्यते,) भव्यलोक उच्यते यतः 'भव्यान् प्रत्येव सम्यग्दर्शनहेतुरूपश्रुतावरणक्षयोपशमनामकप्रकाशापरपर्याय आलोकः कथ्यते, कथमिति चेदुच्यते प्रकाशप्रधानहेतुरूप-जिनवचन-चन्द्रिकात एव भव्यानां दर्शनं -प्रकाश्यज्ञेयविषयकाऽवलोकन भवति, यथा दृश्यं वस्तु स्थितं भवति तथा दर्शनं भवति, तथादर्शनाभावे सति तान् प्रति व्यर्थोऽकिञ्चित्कर आलोको भवति, तानभव्यान् प्रति आलोकः स आलोको न भवति, यतः स्वकार्यकारित्वं वस्तुत्वं कथ्यते' इति एवभूतनामक-श्रुतनयवचनस्य प्रामाण्यं वर्त्तते ततो भव्यलोको लोकशब्देनोच्यते तथाप्यत्र लोकप्रद्योतकरनामकपदे लोकशब्देन, उत्कृष्टमति:
131