________________
ललितविप्तरा-सटीका
भव्य सत्त्वलोक एव गृह्यते, तत्रैव तत्त्वतः प्रद्योतकरणशीलत्वोपपत्तेः, अस्ति च चतुर्दशपूविदामपि स्वस्थाने महान् दर्शनभेदः,
तेषामपि परस्परं षट्स्थानपतितत्वश्रवणात् न चायं सर्वथा प्रकाशाभेदे, अभिनो होकान्तेनैकस्वभावः, तन्नास्य दर्शनभेदहेतुतेति स हि येन स्वभावेनैकस्थ
सहकारी तत्तुल्यमेव दर्शनमकुर्वन्न तेनेवापरस्य तत्तत्वविरोधादिति, भावनीयं, इतरेतरापेक्षी हि वस्तुस्वभावः, तदायत्ता च फलसिद्धिरिति, उत्कृष्टचतुर्द्दशपूर्वविल्लोकमेवाधिकृत्य प्रद्योतकरा इति लोकप्रद्योतकराः ॥१४॥
पं०..." प्रक्रमादिति"
आलोकशब्दवाच्य प्रद्योतोपन्यासान्यथानुपपत्तेरिति "भव्यानामित्यादि" भव्यानां नाभव्यानामपि " आलोक : " प्रकाश: सद्दर्शन हेतुः श्रुतावरणक्षयोपशमः, इदमेवान्वयव्यतिरेकाभ्यां भावयन्नाह - "वचनांशुभ्योऽपि " प्रकाशप्रधान हेतुभ्यः, किं पुनस्तदन्यहेतुभ्य इत्यपिशब्द र्थः, "दर्शनं" प्रकाश्यावलोकनं ‘यस्माद्” इति हेतावेतेषां भव्यानां "भवति" वर्त्तते "तथेति" यथा दृश्यं वस्तु स्थितं ननु कथमित्थं नियमो ! भव्यानामप्यालोकमात्नस्य वचनांशुभ्योऽभावादित्याह - " तदभावे" तथादर्शनाभावे "व्यर्थ: " अकिञ्चित्कररतेषामालोकः स आलोक एव न भवति, स्वकार्यकारिण एव वस्तुत्वात् "इतिवचनात् " एवंभूतश्रुतप्रामाण्यात्, "तथापि " एवमपि "अ" सूत्रे " लोकध्वनिना" लोकशब्देन "उत्कृष्टमतिः " औत्पत्तिक्यादिविशिष्टबुद्धिमान् गणधरपदप्रायोग्य इत्यर्थः
" भव्य सत्त्वलोक एव" न पुनरन्यो, यो हि प्रथमसमवसरण एव भगवदुपन्यस्तमातृकापदत्रयश्रवणात प्रद्योत प्रवृत्ती दृष्टसमस्ताभिलाप्यरूपप्रद्योत्यजीवादिसप्ततत्त्वो रचितसकलश्रुतग्रन्थः सपदि सञ्जायते स इह गृह्यते इति । कृत एतदेवमित्याह - " तत्रैव" उत्कृष्टमतावेव भव्यलोके, "तत्त्वत्तो" निश्चयवृत्त्या "प्रद्योतकरणशीलत्वोपपत्तेः " उत्पन्ने इ वा १ विगमेइ वा २ धुवेइ वा ३ इतिपदत्रयोपन्यासेन प्रद्योतस्य - प्रकृष्टप्रकाशरूपस्यतच्छीलतया विधानघटनात् भगवतां प्रद्योतकशक्तेस्तत्रैव भव्यलोके कात्स्न्येंनोपयोग इतिकृत्वा, अमुमेवार्थं समर्थयन्नाह - "अरित " वर्त्तते, चकारः पूर्वोक्तार्थ भावनार्थः, चतुर्द्दश पूर्वविदामपि, आस्तां तदितरेषामित्यपिशब्दार्थः, "स्वस्थाने " 'चतुर्द्दशपूर्व लब्धिलक्षणे " महान्" बृहन् "दर्शनभेदो" दृश्यप्रतीतिविशेषः, कुत इत्याह
" तेषामपि " चतुर्द्दश पूर्वविदामपि किं पुनरन्येषामसकल श्रुतग्रन्थानामित्यपिशब्दार्थः, "परस्परम्" अन्योऽन्यं " षट्स्थान श्रवणात् " षण्णां वृद्धिस्थानानां हानिस्थानानां चानन्तभागासंख्ये यभागसंख्ये यभागसंख्ये यगुणा संख्येयगुणानन्तगुणलक्षणानां शास्त्र उपलम्भात्, यद्येवं ततः किमित्याह - " न चायं " महान्दर्शनभेदः 'सर्वथा प्रकाशाभेदे' एकाकार एव श्रुतावरणादिक्षयोपशमलक्षणे प्रकाशे इत्यर्थः एतदेवं भावयति-" अभिन्नो" अनानारूपो "हिः" यस्माद्, एकान्तेन" नियमवृत्त्या "एकस्वभावः " एकरूपः प्रकाश इति प्रकृतं, एकान्तेन कस्वभावे हि प्रकाशे द्वितीयादिस्वभावाभाव इति भावः' प्रयोजनमाह "तत्" तस्मादेकस्वभावत्वात् न "अस्य" प्रकाशस्य 'दर्शनभेदहेतुता" दृश्य वस्तु प्रतीति विशेष निबन्धनता, एतदेव भावयति स हि प्रकाशो येन "स्वभावेन" आत्मगतेन "एकस्य" द्रष्टुः "सहकारी" सहायो दर्शनक्रियायां साध्यायां "तत्तुल्यमेव" प्रथमद्रष्टसममेव "दर्शनं" वस्तुबोधम् "अकुर्व्वन्”
130