________________
ललितविस्तरा-सटीका
प्रदीपत्वधारणरूपान्यथाकरणे भगवत्सु तादृशी भगवत्ता-ईश्वरता, नास्त्यर्थाद् भगवतां तादृशी भगवत्ता नास्ति यत्-पदार्था यत्स्वभावेऽवतिष्ठमानाः सन्ति, तान् पदार्थान् स्वस्वभावतोऽपसार्य परभावे परिवर्तयितु न शक्नोति. ईश्वरो द्रव्यस्वभावमन्यथाकत्तुं नेष्टे, परे तु वदन्ति, "कर्तुमकर्तु मन्यथाकत मीष्टे स ईश्वरः” परन्तु, ईश्वरे तादृशी भगवत्ता न वर्त्तते, यत् पदार्थगतस्वस्वभावमन्यथाकत्तुं सर्मथा स्यादिति जैनी दृष्टिः,) कः स्वभाव ? इति प्रश्ने कथ्यते तावत् स्वो भावः स्वभाव:' आत्मीया सत्ता (स्वात्मवृत्तियावद्गुणधर्माणामस्तिता) स चान्यर्थत्युक्ते = स्वभाव:-आत्मीया सत्तैव, परभाव:-परकीयसत्तेत्युक्ते 'मे माता वन्ध्य' ति वद् वदतो व्याघात आगतोऽर्थात् परोक्तं वचनं परस्परं व्याहतं-व्याघातवद्विरुद्धं, पदार्थगतस्वभावान्यथाकरणे-परभावीकरणे द्वितीयापत्तिर्दश्यते, किञ्चेति = एवं अविषये (तथाविधायोग्यगतासामर्थ्यप्रयुक्ता भगवता (अनीश्वरता) रूपप्रसंग आगच्छेत्तदा 'अचेतनरूपधर्मास्तिकायादीनामपि (किं पुनः प्रागुक्तविपरोतलोकस्याप्रदीपत्वे इत्यपि शब्दार्थः) चेतनाकरणेविपरीताकरणे-चैतन्यवत्त्वेनाविधाने पूर्व-प्रसञ्जनेन समानं, अभगवत्ता-प्रसञ्जनमिति. तथाहि यदा विशिष्टसंज्ञिलोकभिन्नभव्यलोक प्रति भगवन्तोऽप्रदीपाः स्युरिति कथिते तदा वादिना कथित -'स भगवानीश्वरः कथं ? इति कथयित्वा भगवत्सु, अभगवत्ता-प्रसञ्जनं दत्तम्, अधुना प्रत्युत्तरे वदामो वयम्, अचेतनस्य चेतनत्वाकरणे अभगवत्ताप्रसङगः, पूर्वप्रसङग-तुल्य एव यत उभयत्राविषयगत-सामर्थ्याभावोऽस्ति, अत एवाविषयगताऽसामर्थ्यप्रयुक्ताऽभगवत्तव प्रसङगः प्रसङगो न मन्यते, यत ईदृश एष वस्तुस्वभावोऽस्ति, स्वभावस्तु पर्यनुयोगानह एवेति यदि भगवत्सु चेतनस्यानेतनकरणविषयकमीश्वरत्वं भाव्यमिति मान्यतायां स्वात्मन्यपि चेतनत्वभिन्ना-चेतनत्वकरणे सम्यग्दर्शनादिभिन्नमहामिथ्यादृष्टयादेः करणं स्यादित्यापत्तिः, नैतत्कदाचिद् भव्यत्यर्थाच्चेतनोऽचेतनरूपश्चा-चेतनश्चेतनरूप इति भवितु न शक्यते, कालत्रयेऽपि जीवो जीव एव नाजीवः, अजीवोऽजीव एवेति स्वभावः, अन्यथा जगति चेतना-चेतनयो |दोऽनादितोऽस्ति, पदार्थस्थिते र्व्यवस्थाया अभावोऽथवाऽनवस्थाप्रसङग आगच्छेदिति, अभगवत्ताप्रसञ्जनमप्रमाणं तथा स्वभावत इति ज्ञेयम् तथा च विशिष्टसंज्ञिलोकं (तथाविधयोग्यलोक) अपेक्ष्यव 'लोकप्रदीपा भगवन्तो ज्ञेयाः, नान्यथेति शक्रस्तवस्य त्रयोदशपदं व्याख्यातं समाप्तम् । . तथा 'लोक-प्रद्योतकरेभ्यः' इह यद्यपि लोकशब्देन प्रक्रमाद्भव्यलोक उच्यते, भव्यानामालोको वचनांशुम्योऽपि दर्शनं यस्मात् । तथा एतेषां भवति तदभावे व्यर्थ आलोकः॥१॥ इति वचनात, तथाऽप्यत्र लोकध्वनिनोत्कृष्टमतिः
129