________________
ललितविस्त रा-सटीका
ऋजुसूत्रादिनिश्चयनयवादी = यद् यत्र (यं ति) नोपयुज्यते (नोपयोगि भवति) तत्तदपेक्षया (तत्तत्र-तं ति) न किञ्चिदेवार्थादकिञ्चित्करमन्यथासिद्धमेवेति नियमतो भगवन्तोऽपि, विशिष्टसंझिलोकं । विमुख्य, अन्यत्र-अविशिष्टसजिलोकोफ्रादिसर्वलोकेऽन्धकल्पेऽनुपयुज्यमानास्तत्त्वज्ञानरूपप्रकाशकार्याऽकरणद्वारा, अनुपयोगिनो भवन्तः, अप्रदीपा एवेति, कामति चेदुच्यते-अनपेक्षितगुरुलाघवं = गरिष्ठभावशित्वहेतुना गुरुः = निश्चयनयः, तद्भिन्नो लघु:-व्यवहारनयः, तयो भर्भावः, गुरुलाघवं, अत्र सद्भूतार्थ-विषयग्राहित्वेन सत्यभावनिश्चायकत्वेन गुरुपक्ष आश्रयणीयः परन्तु व्यवहारनयो न ग्राह्य इति निश्चयनय-मतापेक्षा-सहितत्वेन कथ्यते, 'अनपेक्षितं गुरुलाघवं' यथा स्यात्तदा क्रियाविशेषणं, गुरुलघुपक्षोभयानाश्रयणेनार्थस्यास्वारस्यन कथ्यते 'यद्वेति' गुणदोषविषयं गुरुलाघवं (स्वल्पदोषस्यागपूर्वकानल्प-गुणकपक्षग्रहणरूपं) अपेक्ष्य, प्रेक्षावतोऽपि क्वचिद् व्यवहारापेक्षया तत्त्वोपलम्भ-तत्त्वानुभवरूपज्ञानसम्प्राप्तिशून्या प्रवृत्तिः स्यात्, एष न्यायोऽत्र नास्तीति, तस्य निषेधाय कथ्यते, अनपेक्षितगुरुलाघवं' अर्थाद् गुरुलाघवस्यापेक्षणेन तत्त्वज्ञानशून्यप्रवृत्तिभवतीति गुरुलाघवंसापेक्षा, व्यवहारमात्राश्रयत्वेन, तत्त्वोपलम्भशन्या = न. स्तवनीयस्वभाव. संवित्तिमती प्रवृत्तिः-प्रस्तुतस्तवलक्षणा, तस्याः सिद्धिः-निष्पत्तिः, अर्थाद् गुरुलाघवमनपेक्ष्य, व्यवहारमात्रपक्षमपेक्ष्य स्तोतव्याहंद्भगवत्स्वभावांवित्तिरूपतत्त्वोपलम्भशून्या या प्रस्तुतस्तत्ररूपप्रवृत्ति सिद्धि नं भवति, एवं स्थिते तीर्थंकराणां देशनादिकिरणेभ्योऽपि तत्त्वोपलम्भप्रकाशा----- भाववान् विशिष्टसजिलोकभिन्नसंझिलोकोंऽधकल्पोऽस्ति, तमन्धलोकं प्रत्यहन्तो भगवन्तोऽप्रदीपा एव, यतः, तमन्धं प्रति तत्त्वोपलम्भप्रकाशकार्य न करोति भगवान् इति पूर्वं कथितमेवेति। । सर्वप्रदीपा भगवन्तः' इति मतं खण्डितमेवेति. ननु यदि भगवन्तो विशिष्टसंज्ञिलोकं प्रति स्वकार्यकरण-द्वारा प्रदीपा एव तद्भिन्नसंज्ञिलोकमन्धकल्पं प्रति स्वकार्याकरणद्वारा, अप्रदीपा एवेति मते भगवत्सु भगवत्ताया (पूर्णप्रकाशकारिताया) क्षति न्यूनत्वं कथं नेति चेदुच्यते, भगवन्तो विशिष्टसंज्ञिलोकं प्रति प्रदीपा एव तद्भिन्नसंज्ञिलोकमन्धं प्रति अप्रदीपा एवेति कथनतो भगवत्सु भगवत्ताया अभावो न भवति प्रत्युत, एतत्प्रकृतस्तवस्य भगवतां लोकप्रदीपत्वरूपस्तोत्रस्य विषयो वस्तुस्वभावोऽस्ति, अर्थाद् भगवद्वस्तुनिष्ठस्वभावविषयकप्रकृतवस्तुस्तवस्य प्रवृत्तिरस्ति, स्वभावगभितस्तुतिद्वारा भगवत्स्वभावपरिचयोऽर्थाद् - यादृशः स्वभावस्तादृशी स्तुतिरिति परिज्ञानेन, सत्यस्वीकारेण भगवतां शुद्धा सत्वा भगवत्ता, भक्तहट्दये शाश्वती प्रतिष्ठिता भवति. यदि जीवादिवस्तुस्वभावस्य विपरीत-करणं-अस्वभाबकरणं-परद्रव्यस्वभावस्य करणं भगवतां स्यात्तदा वस्तुनिष्ठस्वभावस्य स्वभावत्वस्याभ वः सजायेत, (अमुक व्यक्ति प्रति प्रदीपरूपा अमुकव्यक्ति च प्रति, अप्रदीपरूपा इत्यप्येको वस्तुस्वभावः, यं प्रति, अप्रदीपरूपा भगवन्तः स्युस्तं प्रति
ति
128