________________
ललितविस्तरा-सटीका
(सम्यग्दर्शनसम्पन्नोऽथवा दीर्घकालिकी संज्ञाद्वारा सुदीर्घातीतार्थस्मरणशीलत्वे सति कथं नु नाम कर्तव्यं' इत्यागाम्यर्थचिन्तनप्रयोजकसंज्ञित्वविशिष्टः संज्ञी-समनस्कः ) यस्तु' विशिष्टसंशिलोको नास्ति, तत्र विशिष्टसंज्ञित्वरहिते लोके तत्वतः - निश्चयनयतः प्रदीपत्वयोगाभावो भगवतां ज्ञेयः अन्धप्रदीप दृष्टान्तद्वारा विज्ञेयः तथाहि = अन्धस्य चक्षूरहितस्य प्रदीपो वस्तुतोऽप्रदीप एव, यतस्तमन्धं प्रति स्व-प्रदीपकार्यरूप- प्रकाशाकरणं वर्तते, (लोचनाभ्यां बिहीनस्य प्रदीपः कि करिष्यति.) कि च तत् - प्रदीपकार्य, प्रकाशकर्त्तर्येव प्रदीपत्यमुपपद्मं युक्तं भवति, तथा च यं प्रति प्रदीपः स्वकार्यंप्रकाशं करोति तं प्रति स प्रदीपः कथ्यते तत्वतः, अन्यं प्रति अप्रदीपः कथ्यते इति नियम:, यदि यं प्रति स्वप्रकाशकार्य मकुर्वन् प्रदीपो मन्येतु तदाऽतिप्रसङग आगच्छेद् अर्थात् ये ये प्रकाश कार्य न कुर्वते ते सर्वे प्रदीपा एव कथ्यन्ते इत्यापत्तिः स्यात्.
:
किञ्च यथोदित लोकव्यतिरिक्त-पूर्वोक्तविशिष्टसंज्ञिलोकतो व्यतिरेकवान् स विशिष्ट-संज्ञिलोकतोऽन्योऽन्धकल्पः - चक्षू रहित तुल्यो ज्ञेयः कथमिति चेदुच्यते, तेषां तीर्थंकराणां लोकप्रदीपानां देशनादिरूपकरणेभ्योऽपि, अन्धकल्प विशिष्टसंज्ञिलोकभिन्नलोके तत्त्वोपलम्भतत्त्वानुभवरूप - प्रकाशस्याभावो वर्त्तते यतः समवसरणेऽपि (दिव्याद्भुत भगवद्देश नास्थानविशेषेऽपि ) सर्वेषां नृदेव तिर्यग्जनकोटिकोटिसङख्याकानां सभासदां प्रबोधप्राप्तिरूपतत्त्वोपलम्भो न श्रूयते,
केषांचिद् विशिष्टसंशिलोकानां प्रबोधः- तत्त्वोपलम्भो भवत्येव इदानीमपि वर्त्तमानकालेऽपि तेषां लोकप्रदीपानां तीर्थंकराणां वाणीस्वरूपागसापेक्षमा, केषाञ्चित् स भवति, परन्तु सर्वेषां जैनेन्द्रवचनतः, तत्त्वपिलम्भप्रकाशरूपप्रबोधो न दृश्यते ( श्रीमतां हरिभद्रसूरीश्वराणां स्वानुभवसिद्धमिदं वाक्यम्, तेन वाक्येन वर्त्तमानकाले जैनेन्द्रवाण्या अस्तित्वमाविष्कृतं पञ्चमारपर्यन्तं यात्रज्जिनवाणी विद्यमानव, अधुनाऽपि जैनवाणीरूपकिरण द्वारा केषाञ्चित्प्रबोधः, तत्त्वज्ञान-प्राप्ति - प्रकाशो भवति, केषाञ्चिन्न भवति यतस् तत्र योग्यता बलीयसी.)
19
व्यवहारनयवादी = 'सर्वलोकान् प्रति प्रदीपा भगवन्तः अर्थाद् विशिष्टसंज्ञिलोकं च विशिष्टसंज्ञिलोकभिन्न- सर्व-संज्ञिलोकं प्रति भगवन्तः प्रदीपा एबेति मते व्यवहारस्य प्राधान्यं प्रतिपन्नमेव न पुन वस्तुतत्त्वं यतो यथा प्रदीपा एव प्रदीपा उच्यन्ते, नाप्रदीपाः, प्रदीपोऽप्रदीपो भवितु नार्हति कटकुटयादयोऽप्रदीपत्वे रूढा एव, अतः कटकुटयादयोऽप्रदीपत्वेन व्यवहि यन्ते, प्रदीपाश्च प्रदीपत्वेन व्यवहि यन्ते इति व्यवहारो वदति तथा च भगवन्तोऽपि सर्वलोकप्रदीपा एव, केषाचित् प्रदीपत्वेनानुपयोगादप्रदीपा अपि, अर्थाद् विशिष्टसज्ञिलोकभिन्नान्यमंज्ञिलोकं प्रति तत्त्वज्ञानरूपप्रकाशाकार्याकरणमात्रेणा प्रदीपाः कथं कथ्यन्ते ? प्रदीपास्तु प्रदीपा एव स्वकार्यं कुर्वन्तु वा न कुर्वन्तु परन्तु प्रदीपा अप्रदीपा न भवन्ति, अप्रदीपाः प्रदीपा न भवन्तीति.
127