________________
ललितविस्तरा - सटीका
भाव: स्वभावः अमीषा सत्ता, स चान्यथा चेति व्याहतमेतत् किंच- एवमचेतनानामपि चेतनाऽकरणे समानमेतदित्येवमेव भगवत्स्त्वायोगः, इतरेतरकस्नेऽपि स्वात्मन्यपि तदन्याविधानात्, यत्किञ्चिदेतदिति, यथोदित लोकापायैव लोकप्रदीपाः १३ ॥
पं०..." तदभ्युपगमेत्यादि ” तदभ्युपगमवतामपि सर्वप्रदीपा भगवन्तो न पुनर्विवक्षितसंशिमावस्येवेत्यंगीकारवतामपि न केवलं प्रागुक्तान्धकल्प लोकस्येत्यपिशब्दार्थः, तत्त्वोपलम्भशून्यप्रवृत्तिसिद्ध रित्युत्तरेण योगः कुत इत्याह- तथाविधलोकदृष्टयनुसार प्राधान्यात्" तथाविधः - परमार्थतोऽसत्यपि तथारूपे वस्तुनि बहुरूढव्यवहारप्रवृत्तः स चासौ लोकश्च तथाविधलोकस्तस्य दृष्टि: - अभिप्रायो व्यवहारनय इत्यर्थः, तस्यानुसार - अनुवृत्तिस्तस्य प्राधान्याद् इदमुक्तं भवति - सर्व प्रदीपत्वाभ्युपगमे भगवता लोकव्यवहार एव प्राधान्येनाभ्युपगतो भवति, न वस्तुतत्त्वमिति, लोकभ्यवहारेण हि यथा प्रदीपः प्रदीप एव नाप्रदीपोऽपि, कटकूटकादीन । मेवा प्रदीपत्वेन रूढत्वात्, तथा भगवन्तोऽपि सर्वप्रदीपा एव नतु केषाञ्चिदनुपयोगादप्रदीपा अपि, ऋजुसुवादिनिश्चयन यमतेन तु यद् यत्र नोपयुज्यते तत्तदपेक्षया न किञ्चिदेव, यथाऽऽह मंगलमुद्दिश्य भाष्यकार:- 'उज्जुसूयस्य सयं संपयं च जं मंगलं तयं एक्कं । नाईयमणुष्पन्नं, मंगल मिट्ठे परक्कं वा ।। १ ।। नाईयमणुप्पन्नं, परकीयं वा पयोयणाभावो । दितो खरसिंगं, परधणमहवा जहा बिहलं ||२|| " ति, ततो भगवन्तोऽपि संज्ञिविशेषव्यतिरेकेणान्यतानुपयुज्यमाना अप्रदीपा एवेति कवमित्याह - "अनपेक्षितगुरुला ववं" गुरुनिश्वयनयस्तदितरो लघुस्तयोर्भावो गुरुलाघवं सद्भूतार्थविषय: सम्यन्नावग्राहकः ततो गुरुपक्षः तत्राश्रयितुं युक्तो नेतर इनि तत्त्वपक्षोपेक्षणात्, अनपेक्षितं यत्र तद्यथा भवतीति क्रियाविशेषणमेतत् यद्वा गुणदोषविषयं गुरुलाघवमपेक्ष्य प्रेक्षावतोऽपि क्वचिद्यवहारतस्तवोपलम्भशून्या प्रवृत्तिः स्यात् न चासावत्र न्यायोऽस्तीत्यतस्तनिषेधार्थमाह-"अन प्रेक्षितगुरुलाचन मिति” ततः किमित्याह- 'तत्त्वोपलम्भ शून्य प्रवृत्तिसिद्ध:' तत्त्वोपलम्भशून्या-व्यवहारमावाश्रयत्वेन न स्तवनीयस्वभावसंवित्तिमती प्रवृत्तिः - प्रस्तुतस्तवलक्षणा तस्या: सिद्ध: - निष्पत्तेः, तद्देशनभ्वं शुभ्योऽपि तत्त्वोपलम्भाभावादिति पूर्वेण सम्बन्ध इति । " तदन्यपाकरणे तत्तत्त्वायोगादिति" तस्य जीवा दिवस्तुस्वभावस्यान्यथाकरणे अस्वभावकरणे भगवद्भिः "तत्तत्वायोगात् तस्य वस्तुस्वभावस्य स्वभावत्वायोगात् "किञ्चेत्यादि" विचेत्यभ्युच्चये, एवमविषये, असामर्थ्यना भगवत्त्वप्रसञ्जनेऽचेतनानामपि धर्मास्तिकायादीनां कि पुनः प्रागुक्तविपरीत लोकस्याप्रदीपत्वे इत्यपिशब्दार्थ:, चेतनाऽकरणे - चैतन्यवतामविधाने समानं-तुल्य प्राक्प्रसञ्जनेन, एतद्-अभगवत्वप्रसञ्जनम् "इति" अस्माद्धेतोः " एवमेव" अप्रदीपत्वप्रकारेणेव "भगवत्वायोग" उक्तरूपः । अभ्युपगम्यापि दूषयन्नाह - " इतरेतरक रणेऽपि " इतरस्थ-जीवादेरितरकरणे ऽपि - अजीवादिकरणे, अपिः - अभ्युपगमार्थे स्वात्मन्यपि स्वस्मिन्नपि तदन्यन्य- व्यतिरिक्तस्य महा मिथ्यादृष्टयादेः विधानात् करणात् नचैतदस्त्यतः "वत्किञ्चिदेतद्" अभमबस्वप्रसञ्जनमिति ।
टी०... यथा 'समुदायेषु प्रवृत्तशब्दा अवयवेष्वपि प्रकाशन्तेऽनेकधेति न्याय सन्दर्शनार्थमाह" - 'लोकप्रदीपेभ्यो नमः', अन लोकप्रदीपपदघटकलोकशब्दद्वारा विशिष्ट एव = तेषां तीर्थंकराणां लोकप्रदीपानां देशनादि ( प्रभावादि) रूपांशुभिः किरणैः (द्वारा) मिथ्यात्वनामकान्धकारस्यापनयन - दूरीकरणेन यथायोग्यं प्रकाशिता ज्ञेयरूपभावाः यस्य यस्मिन् वा स संज्ञिलोको गृह्यते
126