________________
raaण क्रियाकृतविकार: प्रत्यक्षेण न दृश्यते वानुमीयते तत्प्राप्यं कर्म 'स घटं करोती' त्यत्र निर्वत्यं कर्म, घटकर्मणि, कुम्भकारक्रियाकृतो विकार:- प्रत्यक्षः, यतो घटः स्वस्वरूपां प्राप्नोति, एवं स्वरूपलाभः क्रियाकृतो विशेषः, सुवर्णं कुण्डलं करोतीत्यत्र विकार्यं कर्म, यतः कुण्डलकर्मणि स्वर्णकृत्क्रियया कश्चिद् विकारो जातश्च सुवर्णस्य स्थाने गुणान्तरवद्वस्तु जातं तत्प्रत्यक्षम् स पुत्रः सुखमनुभवतो' त्यत्र तद्वदनोपरि प्रसन्नतालक्षणेन सुखमनुमीयते प्राप्यकर्मणि, कर्त्ती कृतक्रियाविशेषः प्रत्यक्षेणानुमानेन च नोपलभ्यते न्यायसिद्धान्तदीपिकायां तु करणव्यापारविषयकारणत्वं कर्मत्वम् यथा व्रीहीन् प्रोक्षतीत्यादी व्रीहेः कर्मत्वम् तेन व्रीहेः प्रोक्षणफलीभूतातिशयाऽनाश्रयत्वेऽपि न कर्मत्वाSनुपपत्ति: : ( न्या. सि दी. पृ. १६) एवमात्मनाऽऽत्मानं जानातीत्यादावप्यूह्यम् ।
ललितविस्तरा-सटीका
ननु एतादृशं-कर्तृ व्यापारापेक्षं कर्मकारकत्वं कथं घटेत ? तत्र व्यवहारप्रतीतिरूपेण कः साक्षीति चेदुच्यते, कङकटुकाः- पाकानर्हा मुद्गादय उच्यन्ते तान् 'कङकटुकान् पचतीति प्रयोगे, पाकायायोग्यभूतानां 'कङकटुकानां पचने- रन्धने, स्व-कङकटुकगत विक्लित्तिरूपविकाराभावेऽपि कर्मत्व दृश्यतेऽतस्तादृशप्रयोगप्रामाण्येन तत्र यथा कर्मत्वं प्रमाणं तथाऽत्रापि प्रमाणं क्रियतामिति, अर्थाद् एवं चाचेतनेषु हितयोगोऽपि ( अपिनाऽहितयोगः ) मुख्य एव कर्तृ व्यापारापेक्षया - यथार्थदर्शनः बोधप्ररूपणादिरूपकर्तृ क्रियापेक्षया, न तु गौणः न तूपचरितो न कारणिकः - कारणजन्यत्वेनापवादरूप:, अपितूत्सर्गरूप एवातो न स्तव - विरोधः, स्तवस्तु संवादित्वेन परमप्रामाणिक एबेति । 'भगवन्तोऽर्हन्तः पञ्चास्तिकायात्मकं सकललोकं याथात्म्येन पश्यन्ति तदनुरूपं च चेष्ट भाव्यपायपरिहारसारं तस्मात्ते सकललोकाय हिता:- हितकारिणः, अत्र हितयोगस्य मुख्यत्वेन सदभूतार्थ-विषय के प्रस्तुते स्तवे न कोऽपि विसंवादो वा विरोधः ।
इति द्वादशपदं समाप्तम् ।
f
तथा 'लोकप्रदीपेभ्यः' अत्र लोकशब्देन विशिष्ट एव तद्देशनाद्यंशुभिमिथ्यात्वतमोऽपनयनेन यथाहं प्रकाशितज्ञेयभावः सव्रिलोकः परिगृह्यते यस्तु नैवंभूतः तत्र तत्त्वतः प्रदीपत्वायोगाद्, अन्धप्रदीप दृष्टान्तेन यथा ह्यन्धस्य प्रदीपस्तत्त्वतः अप्रदीप एव, तं प्रति स्वकार्याकरणात्, तत्कार्यकृत एव च प्रदोपत्वोपपत्तेः, अन्यथाऽतिप्रसंगात्, अन्धकल्पश्च यथोदितलोकव्यतिरिक्तस्तदन्यलोकः, तद्देशनाद्यंशुभ्योऽपि तस्वोपलम्भाभावात्, समवसरणेऽपि सर्वेषां प्रबोधाश्रवणात् इदानीमपि तद्वचनतः प्रबोधादर्शनात्, तदभ्युपगमवतामपि तथाविधलोक दृष्टयनुसारप्राधान्याद्, अनपेक्षितगुरुलाघवं तस्वोपलम्भशून्यप्रवृत्तिसिद्धेरिति । तदेवंभूतं लोकं प्रति भगवन्तोऽपि अप्रदीपा एव तत्कार्याकरणादित्युक्तमेतत्, न चैवमपि भगवंतां भगवत्वायोगः, वस्तुस्वभावविषयत्वादस्य तदन्यथाकरणे तत्तत्त्वायोगात्, स्वो
125