SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरा सटीका ( यद्यदहितं परस्मै चेष्टते, विचारयति च तत्तदहितं फलरूपेण स्वस्मै भवति, स्वं प्रति अहितमायातीत्यप्यर्थः समीचीनतया चिन्तनीयः ) ननु यथाऽचेतनगताऽहितयोगः पुनरागम - कर्मकः तथा समसचेतनेषु अप्यहितयोगः पुनरागमकर्मकः कथं नेति चेदुच्यते, तादृशक्रियाफलभूतापायसहित - सचेतन (जीवाऽस्तिकाय) गताहितयोगे पुनरागमकर्मकत्वं नास्त्येवात उपचरतोऽहित योगो न परन्तु सत्य एव, तथाऽचेतनेऽहितयोगे च क्रियाफलभूतापायरहिते अचेतनसमसूक्ष्म निगोद - नित्यनिगोदादौ सचेतन एवाहितयोगे पुनरागमकर्मकत्वमस्ति परन्तु अचेतन ( अचेतनसमसचेतनेऽपि ) पुनरागमकर्मपद्धत्या प्रकृतकृताऽचेतनाहितयोग उपचरितो नैवाऽपितु अनुपचरितः सत्य एव, अर्थात् सचेतनेऽचेतने विपरीत क्रियादिजन्याऽहितयोग उपचरितो न सत्य एवेवं सचेतनेऽचेतने यथार्थ - क्रियादिजन्यो हितयोगः सत्य एवेति, ननु सच्चेतने कस्मिंश्चित्. अहितयोगात् क्रियाफलभूतापायस्य सम्भवेन, फलाश्रयत्वरूपकर्मता घटते परन्तु अचेतन - पदार्थेषु क्रियाफलापायाभावोऽस्ति मिथ्यादर्शनबोधप्ररूपणादिकमाश्रित्य प्रवृत्ताहित योगाक्षिप्तं - सामर्थ्यागतं सम्प्राप्तं कर्मत्वं कथं घटमानं स्यादिति चेत्कथ्यते - अचेतनपदार्थगत कर्मत्वं- (विषयतानामकं) मिथ्यादर्शनादिक्रियारूपकत्तृ व्यापारापेक्षया कृतमेव परन्तु, अचेतनगतापायरूपफल विशेषापेक्षया कर्मत्वं नास्ति, अर्थाद्, अर्चेतनगतं कर्म विक्रायं नास्ति, घट पश्यतीतिवत् प्राप्यं कर्म वर्त्तते, 1 2 3 ( ईप्सितं कर्म विधा, निर्वत्यं विकार्य - प्राप्यभेदात्- ( १ ) योऽविद्यमानः पदार्थः कर्तृः क्रियया जायतेऽथवा यो विद्यमानः पदार्थो जन्मना प्रकाशते तन्निर्वत्यं कर्म, यथा शकटं करोति सा पुत्रं प्रसूते, तत्र कटपुत्रयोरेतन्निर्वत्यं कर्म, (२) विकार्य कर्म द्विधा, एकं प्रकृते विनाशेन यदुत्पद्यते, द्वितीयं तु प्रकृतावीषत् परावृत्त्य-गुणान्तत्पादनेन भवति यथा काष्ठं भस्मीकरोति, अत्र भस्म एतत् काष्ठरूपप्रकृतेरुच्छेदेन जात कर्म, मुवर्णं कुण्डल करोंति, अत्र अत्र सुवणं प्रकृतिमीषत् परावृत्त्य गुणान्तरमाधाय कुण्डलेति विकारं - अवस्थान्तरं करोतीति द्वितीयप्रकाररूपं विकार्यं कर्म, (३) प्राप्यं कर्म कर्त्ता, स्वक्रियया यत्कम, नोत्पादयति न परावर्त्तयति, केवलं स्वक्रियया यमाप्तुमिच्छति तत्प्राप्यं कर्म, यथा स घटं पश्यति, अन घटेति प्राप्यकर्माsस्ति, भर्तृहरिराह = 124
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy