________________
ललितविस्तरा-सटीका
धृतिः - आत्मनः स्वरूपावधारणम् " इत्यर्थः " अर्थ :-- परमार्थः, एतदेव भावयति "न हीति" "न" सेव “हिः” यस्माद् “अस्मिन्” स्वास्थ्ये "असति" अविद्यमाने "यथोदितधर्म्मसिद्धिः" निःश्रेवसधम्र्मनिष्पति कृतं इत्याह-- "सन्निहितभयोपद्रवेः" सन्निहितः -- चेतसि वर्त्तमानं र्भयान्वेवोक्तरूपाण्युपद्रवा भयोपद्रवाः -- व्यसनानि, 'तैः प्रकामम्-- अत्यर्थः चेतसों मनसोऽभिभवात् पीडनात्; प्रकामग्रहणं च भयोपद्रवाणामन्तरंगत्वेनात्यन्तिकाभिभवहेतुत्वख्यापनार्थमिति । यदि नामैवं ततः किमित्याह-
“चेतःस्वास्थ्यसाध्यश्चाधिकृतो धर्मः" चित्तसमाधानहेतुश्चाधिकृतो धर्मः - सम्यग्दर्शनादिः कुत इत्याह-"तत्स्वभावत्वात्”, स्वभावो ह्यसौ धर्मस्य यच्चेतः स्वास्थ्यसाध्योऽसाविति । ननु भयपरिणामेऽप्यस्य सम्भवात् कथमभय-हेतुकत्वमित्याह "विरुद्धश्च" निराकृतश्च भयपरिणामैन, कुत इत्याह-- "तस्य" भयपरिग्रामस्य " तथा " धर्म्मसाधकेन चेत. स्वास्थ्येन विरुद्धस्य -जस्वास्थ्यस्थ विधायकत्वाद् "अतो" निःश्रेयसचभूमिकानिबन्धनभूतधृतिरूपत्वाद् "अस्य" अभयस्य भगवद्द्भ्य एव सिद्धिरित्युत्तरेण सम्बन्धः, गुणप्रकर्षरूपत्वा“दित्यादि” अन चत्वारः परम्पराफलभूता हेतवी गुणप्रकर्ष रूपत्वा चिन्त्यशक्तियुक्तत्व तथा भावावस्थितिसर्वथा परार्थकरणलवाणाः, तथा हि--भगवता गुणकर्ष पूर्व कर्मचिन्त्यशक्तियुक्तस्वं गुणत्रकर्षाभावेऽचिन्त्यशक्तियुक्तत्वाभावाद, अचिन्त्यशक्तियुक्तत्वे च तथाभावेन - अभयभावेनावस्थितिः, अचिन्त्यशक्तियुक्तत्वमन्तरेण तथाभावेनावस्थातुमशक्यत्वात्, तथाभावेनावस्थितौ च सर्वथा - सर्वप्रकारैर्बी - जाधानादिभिः “ परार्थं करणं" परहितविधानं' स्वयं तथारूपगुणशून्येन परेषु गुणाधानस्याशक्यस्थात् “भगवद्भ्य एवे"
टी० - साम्प्रतमधुना भवनिर्वेदद्वारेण = संसारादृद्वेगः खेदः यथा सापायः कायः, सम्पद्, विपरूपान्तरं, संयोगा विभोपान्ताः सर्वं मदुत्पवने तद् विपद्यते इत्याकारक-बुद्धि-विशेषः, स एव द्वारमुपायस्तेन, अर्थतः तत्त्ववृत्या भगवद्बहुमानाद्-अत्यक्ष पालादेवार्याद् वहुमानरूप एव भवनिर्वेदोऽस्ति भवनिर्वेदाभिन्नं भगवद्बहुमानं भगवत्पक्षपाताभावप्रयुक्तो भवनिर्वेदाभावोऽस्ति, अर्थापेक्षया भगवद्भक्तिः- भवनिर्वेद इति द्वयमेकार्थक कथमिति चेद् भगवान् भवनिर्वेदमयोऽस्ति. तदाराधनस्य भवनिर्वेद एव फलं (जय वीतराग ! जगद्गुरो ! भवतु मम तब प्रभावतो भगवन् ! भवनिर्वेद इत्यादि वचनं साक्षिरूपं ज्ञ ेयं) भवनिर्वेद रूपभगवद्बहुमान प्रयुक्तो मिथ्यात्वमोहादि - niraas - क्षयोपशमो भवति तथा विशिष्ट कर्मक्षयोपशमप्रयुक्ता - अभयचक्षुर्मार्गशरण दिभावधर्मसिद्धिर्भवति,
यत्ताभयादिधर्मं सिद्धिस्तत्र, आत्मस्वास्थ्यरूप - मोक्षफलकसम्यग् - दर्शनादिधर्माणां सत्ता, यत्राभयादिधर्म सिद्धेरभावस्तत्र नैःश्रेयसधर्माणाम सम्भव इति, अन्वयव्यतिरेकाभ्यां पूर्वोक्तकार्यकारण भावसिद्धिर्ज्ञेया,
अत एव अर्हत्स्वरूपा भगवन्त एब, तेन तेन प्रकारेण अभयदानांदि - प्रकारावच्छेदेन सत्त्वरूप सम्यक्त्वादि कुशलपरम्परायाः कारणमिति अर्थाऽर्हन्तो भगवन्त एव भवनिर्वेदादिद्वारा योग्यात्मसु अभवादि धर्मजननद्वारा सम्यक्त्वादिमंगलमालाया विधायका इति प्रतिपादनकरणाय कथयन्ति
138