________________
ललितविस्तरा-सटीका
लोकालोकभेदेन द्विविधं, यावदाकाशप्रदेशेषु धर्मादीनां सत्ता, तावदाकाशप्रदेशात्मकं, लोकाकाशम् असंख्यातप्रदेशात्मकं, लोकाकाशादन्यदलोकाकाशं, अनंतप्रदेशात्मक आकाशमेक, सर्वव्यापकं परन्तु धर्मास्तिकायादिद्रव्यपञ्चकसहस्थायित्वरूपोपाधिना लोकाकाशं तदुपाधिरहितमलोकाकाशमिति द्विधा भेदों वर्तते. (४)पुद्गलास्तिकायः = रूपरसगन्धस्पर्शवन्तः पुद्गलाः पूरणगलनधर्माणः अत्र परमाणव एवं पद्गलत्वेन मुख्यवृत्त्या व्यह्रियन्ते यतः परमाणूनां मिलनेन स्कन्धरूपत्वं स्कन्धतो वियुक्तत्वेन-भेदेनार्थाद मिलनभेदरूपधर्मवत्त्वेन परमाणूनां पुद्गलत्वम्. यदा परमाणवो मिथो मिलन्ति तदा स्कन्धदशामाप्नवन्ति, यदा परमाणवो भिद्यन्ते तदा पुनः परमाणव एव, एवं परमाणवः पुनर्विनिप्रदेशिनो यावदनंत-प्रदेशिनः, स्युस्तदा स्कन्धपरिणामाः कथ्यन्ते च स्कन्धतो भिन्ना अपि पतन्ति, तत्र कोऽप्येकः परमाणुर्जघन्यत एक समय, उत्कृष्टतोऽसख्यसमयं यावत् परमाणुरूपेण भिन्नस्तिष्ठति, तदनन्तरमवश्यं स्कन्धत्वेन परिणमति, पुनरेष परमाणुर्यदा स्कन्धे लगति तदा प्रदेशसंकेतेन कथ्यते, स्कन्धलग्नाः परमाणवः प्रदेशाः, पुनः परमाणुभिः सृष्टाः स्कन्ध-देशप्रदेशरूपा विकारा अपि पुद्गलभेदाः कथ्यन्ते, पुद्गले शब्दान्धकाराद्या दविधाः परिणामरूपा धर्मास्तिष्ठन्ति । जीवाऽस्तिकायः = ज्ञानदर्शनरूपोपयोगः-चेतनालक्षणो जीवः, असख्यातप्रदेशात्मकः, "यः कर्ताकर्मभेदानां भोक्ता कर्मफलस्य च, संसर्ता परिनिर्वाता. सह्यात्मा नान्यलक्षणः ॥"हितकारिणोऽर्हन्तो भगवन्तो भवन्ति, तेभ्यो नमः । हित-पदार्थस्य परमार्थः = यथावस्थितदर्शनपूर्वकः = यत्प्रकारावच्छेदेन स्थितं-अविपरीतत्वेन दर्शनरूपवस्तुबोधः पूर्व-कारणं यत्र तद्, प्ररूपणाचेष्टारूपक्रियाया विशेषणं. अर्थाद् यथावस्थितवस्तुबोधकारणजन्यसम्यक्-प्रज्ञापनानामक-व्यापारविषयीकृत-सम्यग्दर्शनपूर्वक-प्रज्ञापनाविषयस्य वस्तुन आगामिकालापेक्षया, अबाधन-अपीडन-अनुकूलत्वरूपेण हेतुना हिता अर्थाद् यः कर्ता यं विषयं (कर्मतापन्नं) स्वस्वरूपानुकूलेन याथार्थ्येन पश्यति, तद् दर्शनानुरूपं यथादर्शनं व्यवहरति (व्याहरति) दर्शनानुरूप-प्रज्ञापनाव्यापाररूपक्रियायां सत्यामपि भविष्यत्कालीनमपायं (बाधनं-पीडन) परिहरग्नित्यर्थः (न पुनः सत्यवादिलौकिक-कौशिकविश्वामित्रनामक-मुनिवद् भाव्यपायहेतुः) स एवंरूपः, यथार्थदर्शनपूर्वक-भाव्यपायपरिहारपूर्वकयथार्थ-प्रज्ञापनाव्यापारविषयी कृताय वस्तुने तत्त्वतोऽनुग्रहहेतुहित इति हितार्थः । यो वस्तुमानं प्रति यथार्थद्रष्टा-ज्ञाता, तत्तदर्शनज्ञानपूर्वक-भाव्यपायपरिहारपूर्वक सम्यक्प्ररूपणारूपक्रिया-कर्ता, स तत्त्वतो हितोऽनुग्रह-उपकारकर्ता समर्थ्यते नान्यः, यो वस्तुतत्त्वं प्रति न यर्थाथ द्रष्टा-ज्ञाता, नास्ति तत्तद्दर्शन ज्ञानवैशिष्टयावच्छेदेन भाविअपायपरिहर्ता, तद्भावपूर्वकसम्यक्
118