________________
ललितविस्तस-सटीका
प्ररूपको न, स तत्त्वतोऽहितोऽननुग्रह-अनुपकारकर्ताऽस्तीति, यथा माता वात्सल्याऽतिशयतो हितषिण्यपि पुत्रं क्षीरमधिकं भोजयन्ती, ज्ञानाभावतो भाविनमपायमपरिहरन्ती, अधिकक्षीरभोजनादनन्तरमजीर्णादिभवनेन वमनादिकं कुर्वन्तं पुत्रं प्रेक्षमाणाऽनुतपन्तौ लोकदृश्यते इति, अनेनैवाविपरीतदर्शन ज्ञानपूर्वकसम्यक्प्रज्ञापनाविषयं प्रत्युत्तरकालावच्छेदेनाबाधनपूर्वक-व्यवहाररूपक्रियाकत:. इष्टं क्रियाफलं (स्वपरहित) चेतनेषु वाञ्चेतनेषु क्रियायां सत्यां स्वगतं क्रियाकत रूप
चेतनगतं घटते. चेतनविशेषेषु विषये क्रियायां सत्यां तु स्वपरगतं घटतेऽर्थात् क्रियाकर्तृस्वचेतनगतं क्रियाविषयचेतनविशेषगतं घटते ।। तत्तद्विषयं प्रति तत्तद्व्यवहाररूपा क्रिया, च तत्तद्व्यवहारकर्ता हित:-अनुग्रह-उपकारहेतुरस्ति, इति, सण्टङकः । इष्टपदार्थव्याख्या = 'इष्टं च सपरिणामं हितं' उत्तरोत्तरं-अग्रतोऽग्रतो भाविकालीन-शुभफलेन -पण्यानुबन्धिपुण्यरूप-शभफ्लेन सहाविच्छिन्नप्रवाहरूपसम्बन्धनामकानुबन्धसहितं हितं-सुखकारि यत्तदिष्टं, अर्थात् प्रकृतहितयोगसाध्योऽनुग्रह-उपकारो वस्तुत इष्ट-इष्टत्वेन परिभाष्यते-यथास्थितस्वरूपदशनपूर्वकप्ररूपणाजन्योपकार एवष्टत्वेन व्याख्यातः ।। .. ........... यथा = दृष्टान्तोपन्यासः क्रियते = स्वादुपथ्यान्नवद् = रसनेन्द्रियप्रीणन कारणत्वेन स्वादु-- च सततो. ल्लङघनीयत्वापेक्षया पन्था इव पन्थाः-भविष्यत् कालस्तत्र पथि साधु पथ्यं च स्वादुपथ्यं तदन्नं च तद्वत्, अतीतप्रायरोगवत: प्राणिनः, (अभिनवे हि रोगे 'अहित पथ्यमप्यातुरे' इतिवचनात् पथ्यानधिकार एवेति इति रोगिण' इति पाठे एवं प्रकार: स्वादुपथ्यान्ना) यो रोगस्तद्वत इति) स्वादुपान्नवदन स्वादुत्वेन पथ्यत्वेनान्नमेकान्तेनेष्टं वर्तमानकालीनसुखहेतुभूतस्वादुत्वाभावे सति पथ्यस्य सुखहेतुरेकान्तेन न भवतीतीष्टत्वाभावः, स्वादुत्वसहचरितस्य पथ्यस्य सुखहेतुत्वेनैकान्तेनैवैष्टम् । वर्तमानकालावच्छेदेन ... सुख कारणत्वेन स्वादु, भविष्यकामावच्छेदेन सुखकारणत्वेन पथ्यम्, वर्तमानभविष्यदुभयकालापेक्षया स्वादुपथ्यान-ग्रहणम्, अनेष्टत्वमुपचारतः-कारणे कार्योपचारतः, यतः स्वादुपथ्यान्नजन्यतृप्तिरूपानुग्रहरूपोपकारस्यवेष्टत्वात् 'कार्यमिच्छता पुरुषेणानन्तरं-पूर्व कारणमपीष्टमिति, यथाऽऽहारजतृप्तिमिच्छतेहाहारः ॥ अर्थाद वस्तुतो यथास्थितस्वरूपदर्शनपूर्वकं भाव्यपायपरिहारपूर्वकप्ररूपणाजन्योपकार एव इष्टरूपकार्यमस्ति, तथापि, अव्यवहितत्वेन कारणत्वेन, एषा यथावस्थितस्वरूपदर्शनपूर्वकभाव्यपायपरिहारपूर्वकप्ररूपणारूपहितयोगलक्षणक्रियाऽपीष्टरूपाऽस्त्येव, विशिष्टानुग्रहकार्यरूपेष्ट प्रति यथावस्थित
119