________________
ललितविस्तरा-सटीका
उपचारतश्च स्वादुपध्यानस्येष्टत्वं, तज्जन्यानग्रहम्यवेष्टत्वाद्, यथोक्तम्-'कज्ज' इच्छंतेणं, वणंतरं कारणंपि इठंति जह आहारजतित्ति, इच्छंतेणेह आहारो॥१॥' एवमिष्टहेतुत्वादियं क्रियाऽपि हितयोगलक्षणा इष्टा सिद्धेत्यत एन, एवं व्यतिरेकमाह
टी०...तथा-समुदायेषु प्रवृत्ताः शब्दा अवयवेष्वपि प्रवर्तन्ते इति न्यायस्य सन्दर्शनार्थमाह 'लोकहितेभ्योर्हद्भ्यो भगवद्भ्यो नमः' इह लोकशब्देन लोकप्रसिद्धो नरनारकादि-व्यवहारः संव्यवहारस्तत्र भवा सांग्यवहारिकाः, अादिशब्दात्तविपरीता नित्यनिमोदाऽवस्था असांव्यवहारिका जीवा गृह्यन्तेऽर्थात् सकल सांव्यवहारिका-सांव्यवहारिकोभयभेदभिन्नः प्राणिलोको गृह्यते, (ये जीवाः सूक्ष्मनिगोदतो निर्गत्य बादरनिगोदेऽथवा पृथ्वीकायादावागताः स्युस्ते व्यवहारराशिस्था जीवा उच्यन्ते. एकशो व्यवहारराशौ, आगत्यानन्तरं पुन: सूक्ष्मनिगोदे गतास्ते व्यवहारराशिस्थाः कथ्यन्ते. यावन्तो जीवा व्यवहारराशितो मोक्षं गता भवेयुस्ताबन्तो जीवा अव्यवहाररांशितो व्यवहारराशावागच्छेयुरेतादृशी लोकस्थितिः,) (अनन्तानां जीवानां मध्ये एकं शरीरं, एतादृशान्यसंख्यानि शरीराणि मिलितानि तथापि चर्मचक्षुषाऽदृश्यानि स सूक्ष्मसाधारण वनस्पतिकायोऽथवा सूक्ष्मनिगोदः, एते सूक्ष्मनिगोंदजीवाश्च चतुर्दशरज्ज्वात्मकलोके सर्वत्र सर्वथाऽभिव्याप्यर भरिताः सन्ति, सूक्ष्मत्वेन जगतो व्यवहारे नायान्ति, केनचित् मारिता अपि न नियन्ते, अपि न दह्यन्ते, छेदिता मपि न च्छिद्यन्ते परन्तु स्वल्पायुष्कत्वेन बहूनि जन्ममरणानि कुर्वन्ति, अनादितो निगोदे जन्ममरणानि वत्तंमानानि भवन्ति, ये जीवा निगोदमध्यतो निर्गता न जगतो व्यवहारे चागता न, तेऽव्यवहाराराशिगता जीवाः कथ्यन्ते) अथवा पंचास्तिकायात्मक: सकलो लोको ग्राह्यः, अलोकस्याऽपि लोकएवाऽन्तर्भाव:-समावेशः, यतः, आकाशास्तिकायो लोकाऽलोकोभयात्मकोऽस्ति, लोंकादिव्यवस्थाया निबन्धनं पूर्वोक्तमेव, अत एव सकलप्राणिलोकरूपायऽथवा सकलपंचास्तिकायात्मकाय लोकाय हिताः 'लोकहिताः' (अस्तिकायः -प्रदेशानां समुदायोऽस्तिकायः, धर्माधर्माऽऽकाशजीवपुद्गलाः पञ्चाऽस्तिकायाः, (१) धर्मास्ति कायः = जीवपुद्गलानां गच्छतां गतिसहायकं द्रव्यं धर्माऽस्तिकायः, द्रव्यस्य निर्विभाज्यभागरूपाः प्रदेशाः, असङख्यात-प्रदेशात्मको धर्मास्तिकायः, सर्वलोकव्यापी चलनक्रियायामत्यन्तोपकारि, तत्त्वम् । (२) अधर्मास्तिकायः = स्थितिमतां जीवपुद्गलानां स्थिति-सहायकं द्रव्यं, असंख्यातप्रदेशात्मकः, सर्वलोकव्यापो, सर्वस्थिरकार्येषूपयोगि तत्त्वम् । (३) आकाशास्तिकायः = धर्मादीनां सर्वेषां द्रव्याणामबकाशदमाकाशम्, अनंतप्रदेशात्मकम्,
117