________________
ललितविस्तरा-सटीका
योगश्च क्षेमं च इति समाहारद्वन्द्वो ज्ञेयः । उपेयादीश्वरं चैव योगक्षेमार्थ-सिद्धये ।। याज्ञ. सं. आचाराध्यायः) ननु योगक्षेमयो मध्यसो योगकर्ताऽथवा क्षेमकर्ताऽर्थादुभयोरन्यतरकर्ताऽथवा सर्वथा योगक्षेमयोरकर्ता कथं नाथो न सम्भवेदिति चेदुच्यते, योगक्षेमयोरुभयोः सर्वथा त्यागात्, योगक्षेमयोरन्यतराश्रयणापेक्षया वा, आश्रयणीयो-ग्राह योऽपि, अथित्वनशान्नाथो न स्यात्, (किं पुनरनाश्रयणीय इत्यपि शब्दार्थः) योगक्षेमयाचकः, योगक्षेमग्रहणयोग्यः, यमाश्रित्य योगक्षेमं प्रवर्तते स आश्रयणीयोऽपि नाथो न स्यात्, (योगक्षेमकर्तृत्वं नाथस्य लक्षणं । तत्र योगक्षेमाभाववति गोशालकेऽतिव्याप्तिः, तदा स्याद् यदा योगक्षेमाभाववत्त्वं नाथस्य लक्षणं क्रियते, यदि योगाभाववत्त्वं वा क्षेमाभाववत्त्वं क्रियते क्षेमवति लक्षणं अतिव्याप्तं वा योगवति लक्षणमतिव्याप्तं) यतो योगक्षेमकत्तुं त्वं विशिष्टभव्यलोके भगवतामस्त्येवार्थाद् योगक्षेमाभाववति अथवा योगक्षेमान्यतरस्थाने निश्चयप्रवृत्तिद्वारा नाथलक्षणस्य योगाभावोऽस्ति, योगक्षेमकरत्वं नाथस्य लक्षणं निर्दोषमेव । एवं नाथलक्षणाभावेऽपि नाथलक्षणयोगस्य मान्यतायामतिप्रसङगो दोष आयाति, कुत्रेति चेदुच्यते अकिञ्चित्करेऽचेतने कुडयादौ नाथलक्षणस्यातिव्याप्तिः स्याद्, यतस्तत्र योगक्षेमोभयाभावाऽन्यतराभावमानं विद्यते, यद्यपि गुणैश्वर्यादि-प्रयुक्ते महत्त्वे नाथस्य लक्षणे क्रियमाणे पूर्वोक्ताऽतिव्याप्ति नै भवेत्तथापि योगक्षेमरहितस्य केवलस्य महत्त्वस्य नाथत्वलक्षणेऽप्रयोजकत्वं-हेतुशून्यत्वं वर्तते, मात्र महत्त्वस्य नाथलक्षणं, नाथलक्षणस्वरूप-रहितत्वम्, नाथस्य लक्षणे केवलं महत्त्वं न हेतुः, महत्त्वेन हेतुना नाथत्वस्य न सिद्धिः परन्तु योगक्षेमौ नाथत्वसिद्धौ हेतू स्तः, महत्त्वरहितस्यायोगक्षेमवतोऽनाथत्वं, महत्त्वेन नाथत्वेन न साध्यसाधनसिद्धिः, अय नाथः योगक्षेमकारित्वादन योगक्षेमकर्तृत्वेन हेतुना नाथत्वं साध्यते न महत्त्वोन. योगक्षेमरूपविशिष्टोपकारकृति भगवति नाथत्वं घटते नान्यत्र निश्चयनयेन नाथभावो योगक्षेमनामकविशिष्टोपकारकारक एव तिष्ठति. नान्यत्र पुरुषे एव किञ्चयदि उपचारत-आरोपतो नाथत्वाभाववान् महान् नाथः कथं नेतिचेदुच्यते, उपचारेण महत्त्वसमानधर्मापेक्षयाऽनाथमहति नाथधर्माऽध्यारोपेण भवा औपचारिकी (वस्तुतो यो नाथो नास्ति तत्र महत्त्वसाधhण नाथत्वधर्मारोपेण, अनाथानां महतां नाथत्वेन स्तुतिरूपवचनव्यवहाररूपौपचारिक -वचनवृत्ति-योगेन) या वाग्वृत्तिः, तयाऽर्थादौपचारिक-वाग्वृत्तिद्वारा सद्भूतार्थस्तवरूपपारमाथिक-अनौपचारिकस्तवस्यासिद्धिः स्यात्, एतद्वस्तु, महदनिष्टं, महदसत्यं, अतएव बीजवपनादिरूपक्रियाया अविषयभूतभव्येषु भगवतां नाथत्वं योगक्षेमकारित्वं नास्त्येव परन्तु बीजवपनादिक्रियाविषयभूत-विशिष्टभव्यलोकेषु भगवतां नैयत्येन नाथत्वं-योगक्षेमकारित्वं वास्तविकं घटत एवेति.
113