________________
ललितविस्तरा-सटीका
'विद्वत्प्रवादः'प्राज्ञप्रसिदिः, योगक्षेमयोरन्यतरकृत्सर्वथा तदकर्ता वा नाथ: स्यादित्याशकानिरासायाह-
नव'तदुभयत्यागात्' तदुभयं-योगक्षेमोभयं सर्वथा तत्परिहारादनयोरेवान्यतराश्रयणाद्वा 'बाधणीयोऽपि' ग्राह्योऽपि अपित्ववशान्नाथः, किं पुनरमाश्रयणीय इत्यपिशब्दार्थः, कुत इत्याह-'परमार्थेन' निश्चयप्रवृत्त्या 'तल्लक्षणायोगात्' नावलक्षणायोगात्, उभयकरत्वमेव तल्लक्षणमित्युक्तमेव. विपक्षे बाधकमाह-'इत्थमपि' तल्लक्षणायोगेऽपि, तल्लक्षणयोगे तु प्रसज्यत एवेत्यपिशब्दार्थः 'अतिप्रसङ्गाद्' अकिञ्चित्करम्य कुड्यादेरपि नाथत्वप्राप्तेः नहि गुणेश्वर्यादिना महानेव नाथ इति नातिप्रसङग इत्याशवाह'-महत्त्वमानस्य' योगक्षेमरहितस्य महत्त्वस्यक केवलस्य 'इह' नाथत्वे 'अप्रयोजकत्वाद्' बहेतुत्वात्, कुत इत्याह
'विशिष्टोपकारकृत एवं' योगक्षेमलक्षणोपकारकृत एव, नान्यस्य तत्त्वतो' निश्चयेन 'नापत्वात' नाथभावात, उपवारतस्तहि महान्नायो भविष्तीत्याशस्याह -'औपचारिकवाग्वृत्तेश्च' उपचारेणानाचे आधिक्यसाधानाथधर्माध्यारोपेण भवा औपचारिकी सा चामौ वाग्वत्तिश्च तस्याः, च: पूनर 'पारम पिकस्तवत्वासिद्धिः सद्भतार्थस्तवरूपासिद्धिरिति, अनीदृशि नाथत्वानुपपत्तेरिति पूर्वेण योगः 'तत्' तस्माद् ‘इह' सूवे 'येषामेव' वक्ष्यमाणक्रियाविषयभूतानामेव नान्येषां 'बीजाधानोभेदपोषणः' धर्मवीजस्याधानेन-प्रशंस दिनोभेदेन-चिन्ताङ्क रक रणेन पोषणेन-सच्छ त्यादिकाण्डनालादिसम्पादनेन योग:-अप्राप्तलाभलक्षण:, क्षेमं च-लब्धपालनलक्षणं 'तत्तदुपद्रवाद्यभावेन' तनदुपद्रवा चित्ररूपाणि नरकादिव्यसनानि आदिशब्दात्तन्निबन्धनभूतरागादिग्रहः तेषामभावेन-अत्यन्तमुच्छेदेन 'त एव' मान्ये 'भव्याः' उक्तरूपाः परिगृह्यन्ते,
... येवला- 'अमुबोयपि प्रवृताः शब्दा अनेकधाऽवयवेष्वपि प्रवत्तंन्ते इति न्यायसन्दर्शनार्थमाह 'लोकनायेभ्यः' इति इह तु लोकशब्देन भव्यत्यप्रकारावच्छिन्नभव्यरूप एवेतरभेदः = भव्यमानस्य बीजादिविषयीकतुंमशक्तत्वेन, भन्यमानतो विशिष्ट एव-विभागविषयत्वेन भिन्न एवार्थाद् बीजाधानादिकुशलभाव-विषयोकत्तुं शक्तः-समर्थः-बीजाधानादिविषययोग्यतानामकसामर्थ्यवानत एव रागादिरूपो वा रागादिजन्यो य उपद्रबस्ततो रक्षणीयता-रागादिरूपोपद्रवविषयताया अपसारणता-दूरीकरणभावः, अर्थाद् रागाचपद्रवरक्षणविषयतया हेतुना सर्वथा स्वायत्तीकृत-धर्मबोजवपनचिन्तासच्छु त्यादिविशिष्टशुभाशयद्वारा संविभक्तः = कालापेक्षया संगतविभागवान् कृतः-तथाभत्वव्यपरिपाकदशायोग्यः कृतः, यतः कुशलाशयो हि भगवतां प्रसादेन लभ्योऽस्ति, एतादृशो बीजाधानादिसंविभक्तो भव्यलोको ग्राह्यः, कथमिति चेदुच्यते बीजाधानादेरविषयभूते भव्यबीवमाने भगवतां नाथत्वं न घटते, यतो यथा विद्वत्प्रवादः योगक्षेमयोः कर्ता अयमहन् भगवान् नाथोऽस्ति, योगक्षेमकर्तृत्वं नाथस्य लक्षणम्-स्वरूपम् (वेदान्तिनस्तु अलभ्यलाभसहितं लब्धपरिरक्षणं योगक्षेमः, यथा अनन्याश्चिन्तयन्तो मां ये जना पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ गीता अ. ६ श्लो. २२) इत्यादी इत्याहुः । अवार्थे
112