SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरा-सटीका सहकारिणां भव्यत्वसमीपवत्तित्वेन भव्यत्बपरिपाकस्य विलम्बाभावः, केवल-प्रकृतबीजादि-सिद्धिभाबस्य शीघ्रत्वं न परंतु भव्य स्वपरिपाकस्य शीघ्रत्वं यतो योग्यतारूपकारण-जन्यत्वं वर्त्तते न तु तथा -भव्यत्वहेतुजन्यत्वं वर्ततेऽतः सर्वभव्यजीवानां युगपन्मुक्तिप्रसङगो भविष्यतीति 'निश्चयनयमएतदतिसूक्ष्मबुद्धिगम्यमिति परमार्थनयाऽभिप्राय एतद्यदुत 'भव्यत्व चित्र' तथाभव्यत्वमिति. व्यवहारनयाऽभिप्रायेण तु स्यादपि तुल्यत्व, तस्य सौदृश्यमावाश्रयेणव प्रवृत्तत्वात् । अवेदमित्थं बोध्यं 'स्यादपि तुल्यत्वां' भव्यत्वतुल्याः सहकारिणः सहकारितुल्यं भव्यत्वमिति द्वयो तुल्यत्वं स्यादितिपणे कथंचिदपि भेदाभावेन सर्वभव्यजीवगतं द्वयं तुल्यमिति मतेन सर्व भव्यजीवेषु कारणकार्ययोस्तुल्यत्वेन युगपद्-एकसमयेन तुल्यत्वेन सर्वेषां भव्यानां मुक्तिप्रसङग-आपत्तिरापतिता भवेदतः, सहकारिवैचित्र्यप्रयुक्तं भव्यत्ववैचित्र्यं, भव्यत्वव चित्र्यप्रयुक्तं सहकारवैचित्र्यमिति मिथो वैचित्र्यमस्तीति मान्यतायां युगपत्मर्वभव्यानां मुक्तिप्रसङगो नापतिष्यत्यतः 'भव्यत्वमेव विचित्रं तथाभव्यत्व' मिति मन्तव्यमेवेति लोकोत्तमाः' इति दशमं पदं समाप्तम् ।। तथा 'लोकनार्थभ्यः' इति, इह तु लोकशब्देन तथेतरभेदाद्विशिष्ट एव तथा रागाद्युपद्रवरक्ष गीयतया बीजाधानादिसंविभक्तो भव्यलोकः परिगृह्यते, अनीशि नाथत्वानुपपत्तेः, योगक्षेमकृदयमिति विद्वत्प्रवादः, न तभयत्यागाद्, आश्रयणीयोऽपि परमार्थेन तल्लक्षणायोगात्, इत्थमपि तदम्युपगमेऽतिप्रसङगाइ, महस्वमात्रस्यहाप्रयोजकत्वात, विशिष्टोपकारकृत एव तत्त्वतो नायस्वात्, औपचारिकवाग्वृत्तेश्च पारमार्थिकस्तवत्वासिद्धिः, तदिह येषामेव बीजाधानोभेदपोषणर्योगः क्षेमं च तत्तदुपद्रवाद्यभावेन, त एवेह भव्याः परिगृह्यन्ते, पं०...तथा 'तथेति' समुदायेष्वपि प्रवृत्ता इत्यादिसूत्रं वाच्यमिति तथाशब्दार्थः, एवमुत्तरसूत्रेष्विति तथाशब्दार्थो वाच्य इति । 'ततरभेदात्' तया-तत्प्रागे भव्यरूप एव य इतरभेदो-भव्यसामान्यस्य बीजाधानादिना संविभक्तिकत्तु मशक्तिसस्माद् विशिष्ट एव' विभक्त एव 'तथा' तेन तेन प्रकारेण 'रागाद्यपद्रवरक्षणीयतया' रागादय एव तेभ्यो वा उपद्रवो रागाद्याद्रवस्तस्माद् रक्षणीयता-तद्विषयभावाद् अपसारणता तया 'बीजापानादिसंविभक्तो 'धर्मबीजवानचिन्नासन्छ त्यादिना गलाशयविशेषेण सर्व वा स्वायत्तीकृतेन संविभक्त:-समयापेक्षया संगतविभागवान कृतः, भगवत्प्रसादलभ्यत्वात् कुशलाशयस्य, 'भव्यलोकः' उक्तस्वरूप: 'परिगृह्यते' बाश्रीयते, कुत इत्याह-'अनीदृषि' बीमाधानाद्यसंविभक्ते-अविषयभूते 'नायत्वानुपपत्तेः' भगवतां नाथभावाषटनात कुतो ? यतः 'योगक्षेमकृत्' योगक्षेमयोः कर्ता 'अयमिति' नाथः 'इति' एवं, 111
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy