________________
ललितविस्तरा-मटीका
कालादिभेदेनात्मनां बीजादिसत्त्वाभावः, अर्थात् सर्वप्रकारावच्छिन्न-भव्यताया भेदाभावे-सर्वप्रकासभावापेक्षयाः एकरूपायामेकाकारायां योग्यतायां-नियतैकप्रकारावच्छिन्नं भव्यत्वे सति, कालादिभेदेन जीवानां बीजादिसत्ताऽभाव: यतो विचित्रतथाभध्यत्वरूपकारणाभावे कालादिभेदेनात्मनां बीजादिरूपकार्याभाव इति अन्वयव्यतिरेकरूपव्यवस्था ज्ञेया.... .. नन पारिणीमिकहेतुरूप-भव्यत्वस्य भेदा-(वैचित्र्या) भावेऽपि-एकरूपत्वेऽपि सहकारिणां भिन्नत्वाद्बीजादिकार्य भविष्यतीति चेत् कथ्यते तद्भव्यत्वेऽतिशयाधायक = वैशिष्टयकारक-विशिष्ट द्रव्यक्षेत्रादीनां सहकारिणामपि भव्यत्वतुल्यता-भव्यत्व-सादृश्यस्य प्राप्तिर्भवेदाद् भव्यत्वसदृशाः सहकारिणो भवेयुः, (यदि तथाभव्यत्वं विचित्रं न स्यात्तदा सहकारिणां भेदो म स्यात्, तथाभव्यत्वस्य वैचित्र्येणव सहकारिकारणान्यपि भिन्नभिन्नावसरे लभ्यन्ते यतस्तथाभव्यत्वसापेक्षाः सहकारिभेदा भवन्ति, अर्थात् तथाभव्यत्वस्य तादृशस्वभावो न भवेत्तदा सहकारिणां तादृशी प्रवृत्ति न भवेत्. एतादृशोऽनेकान्तवादोऽस्ति, स एव तात्त्विकोऽस्ति सोऽनेकान्तवादः, तथाभब्यत्वं विचित्र मिति मान्यतायां घटतेऽन्यथा सर्वथा भव्यत्वस्य तुल्यतायामेकान्तवादः प्रसरति, एकान्तवादे काऽपि व्यवस्था न सम्भवति, यतस्तथाभव्यत्वस्य भेदाभावे सहकारिणामपि भेदाभाव: स्यात्. एवं च भव्यत्वसहकारिभूत -वैशिष्टयाधायकविशिष्टद्रब्यक्षेत्राद्या स्तुल्या-एकरूपा भवेयुः, भव्यत्वमप्येकरूपं भवेत् यदि द्रव्याद्याः सहकारिण एकसमाना न स्युस्तदा भव्यत्वमप्येकसमानं न घटेत, तद्भव्यत्वस्यकसमानत्वे सहकारिद्रग्यादीनामेकसमानताऽपत्तिः, 'यदि भव्यत्वं विचित्रं' इति मताभावे युगपद्भव्यत्वतत्सहकारिणां द्रव्यादीनां नियमतोऽभेदतापत्तिः, ततः सर्वेषां भव्यानां योगपद्येन मुक्तेरापत्तिः, तस्मानिश्चयनयस्य -परमार्थनयस्यैतादृशोऽभिप्रायोऽस्ति यदुत 'भव्यत्वं चित्रं-तथा भाव्यत्वं' अर्थाद्. अनेकप्रकारावच्छिन्नं भव्यत्वं, भव्यत्ववैचित्र्यप्रयुक्त सहकारि-द्रव्यादिवचित्र्यं सहकारिद्रव्यादिवचित्र्यण युगपत्सर्वभव्यमुक्तिप्रसङगो न भवेदिति निश्चितं भवति) भव्यत्वसदृशाः सहकारिणः । यदि सहकारिसदृशी योग्यता-भव्यता नेति मान्यतायां भव्यत्वनिष्ठ मेकरूपत्वं न घटते, कथमिति चेत् कथ्यते, सहकारिणां भव्यत्वसमीपवृत्तित्व, अतो भव्यत्वस्य निश्चितं स्वकालभवनं (परिपक्वत्वं-परिपाकदशावर्तित्वभव्यत्वस्य न केवलं प्रकृतबीजादि-सिद्धिभावस्य परिपाकः परन्तु भव्यत्वस्य परिपाकः) तत्रापि-तस्याऽपि योग्यतैव-भव्यतैव हेतुरस्ति. ततो योग्यताया अभेदे-वैचित्र्यशून्यत्वे तत्सहकारिणामपि निश्चितमभेद:-भेदशून्यत्वमिति, योग्यतासहकारिणोयुगपदुपनिपातप्रयुक्ता युगपत्-सर्वभव्य जीवमुक्ति: प्राप्नोतीति-इदमत्र हृदयम् =
110