________________
ललितविस्तरा - सटीका
सकलकर्मक्षयलक्षणा, कृत्स्नकर्मक्षयद्वारा स्वस्वरूपावस्थानविशेषो जीवाऽवस्थैव तत्र गमनं तद्भावपरिणमनरूपं सिद्धिगमनं, तस्य योग्यत्वमर्थाद् योक्ष्यते सामग्री सम्भवे स्वसाध्येनेति योग्यं तद्भावो योग्यत्वम्. भविष्यत्कालीन - सिद्धिरूपसाध्यप्राप्तिविशिष्ट योगका रकशक्तिविशेषो भव्यत्वम्, आदिरहितकालतः सर्वात्मप्रदेशैः सहाभिव्याप्तो जीवस्वभावः सोऽनादिपरिणामिको भावो भव्यत्वं, (जीवादीनां स्वरूपानुभवं प्रति प्रह बीभावरूपत्वं पारिणामिकस्य लक्षणम्, परिणमनं तेन तेन रूपेण वस्तूनां भवनं परिणामः स एव तेन वा निर्वृत्तः पारिणामिकः. )
तथाभव्यत्वमिति च विचित्रमतत्, कालादिभेदेनात्मनां बीजादिसिद्धिभावात् सर्वया योग्यताऽभेदे तदभावात्, तत्सहकारिणामपि, तुल्यत्वप्राप्तेः, अन्यथा योग्यताऽभेदायोगात्, तदुपनिपाताक्षेपस्यापि तन्निबन्धनत्वात्, निश्चयनयमतमेतदतिसूक्ष्मबुद्धिगम्यमिति लोकोत्तमाः १० ।
पं०....तथाभव्यत्वमिति च' तथा तेनानियतप्रकारेण भव्यत्वम् उक्तरूपमिति शब्दः - स्वरूपोपदर्शनार्थश्वकारोऽवधारणार्थी भिन्नक्रमः, ततश्च यदेतत्तथाभव्यत्वं तत्किमित्याह- 'विचिवं' नानारूपं सद् एतदेव भव्यत्वं तथाचव्यत्वमुच्यते, कुत इत्याह- 'कालादिभेदेन' सहकारिकालक्षेत्र गुर्वादिद्रव्य वैचित्येण 'आत्मनां जीवानां 'बीजादिसिद्धिभावात्' बीजं धर्म्मप्रशंसादि आदिशब्दाद् धर्म्मचिन्ताश्रवणादिग्रहस्तेषां सिद्धिभावात् सत्त्वात्, व्यतिरेकमाह- 'सर्व्वथा योग्यताऽभैदे' सर्व्वेः प्रकारकाकारायां योग्यतायां 'तदभावात्' कालादिभेदेन बीजादिसिद्धयभावात् कारणभेदपूर्वकः कार्यभेद इति भावः । पारिणामिक हेतोर्भव्यत्वस्याभेदेऽपि सहकारिभेदात् कार्यभेद इत्याशङ्कानिरासायाह-'तत्सहकारिणामपि तस्य भव्यस्वस्य सहकारिणः- अतिशयाधायकाः प्रतिविशिष्टद्रव्यक्षेत्रादयस्तेषां न केवलं भव्यत्वस्येत्यपिशब्दार्थः, किमित्याह - 'तुल्यत्वप्राप्तेः' सादृश्यप्रसङगात् । अत्रापि व्यतिरेकमाह - 'अन्यथा' सहकारितादृश्याभावे 'योग्यताया' भव्यत्वस्य 'अभेदायोगाद्' एकरूपत्वाघटनाद्, एतदपि कुत इत्याह--'तदुपनिपाताक्षेपस्यापि तेषां सहकारिणामुपनिपातो - भव्यत्वस्य समीपप्रवृत्तिस्तस्याक्षेपो - निश्चितं स्वकालभवनं तस्य, न केवलं प्रकुलबीजादिसिद्धिभावस्येत्यपिशब्दार्थः, 'तन्निबन्धनत्वात्' योग्यता हेतुत्वात्, ततो योग्यताया अभेदे तत्सहकारिणामपि निश्चितमभेद इति युगपत्तदुपनिपातः प्राप्नोतीति, 'निश्चयनयमतं' परमार्थनाभिप्राय एतद्यदुत - भव्यत्वं वितमिति, व्यवहारनयाभिप्रायेण तु स्यादपि तुल्यत्वं, तस्य सादृश्यमानाश्रयेणैव प्रवृत्तत्वात्,
टी....तथा भव्यत्वपरिष्कारः = शब्दार्थः = अनियतप्रकारावच्छिन्नं तथाभव्यत्वं, विशिष्टार्थ:, = एतद्विचितं = नानारूपं सदेतदेव भव्यत्वं तथाभव्यत्वं यतः सहकारि ( सहकार्य कारि ) कालक्षेतगुर्वादि द्रव्यवैचित्र्य प्रयुक्त - जीवनिष्ठधर्मप्रशंसादि -- बीजधर्म चिन्ताश्रवणादिरूप - बीजादीनां सत्त्वमस्ति विचित्र - तथाभव्यत्वसत्त्वे, कालादिभेदेनात्मनां वीजादिसत्त्वम्, विचित्रतथाभव्यत्वाभावे
109