________________
ललितविस्तरा-सटीका
तद्विपरीतं = धर्मादीनां पञ्चानामस्तिकायानां द्रव्याणामविद्यमानत्वं यत्र वर्तते तत् क्षेत्रम-... लोकनामकं कथ्यते इति. शास्त्रे लोकशब्देन पञ्चास्तिकायात्मकं क्षेत्रं लोकः कथ्यते तथाप्यत्र'लोकोत्तमेभ्योऽर्हद्भ्यो नमः' इत्यत्र वाक्यघटकलोकशब्देन सामान्येन भव्यसत्त्व-प्राणिलोक एव गृह्यते, अर्थादन लोकोत्तमनामके पदे वर्तमानो लोकशब्दः सामान्येन (भव्यत्व जात्या--समस्तभव्यलोकसंग्रहद्वारा) पंचास्तिकायात्मकलोकस्य समुदायवाच कस्यैकदेशरूपसकलभव्यजोवरूपार्थवाचको लोकशब्दो भवतीति. लोकवनिना सामान्येन भव्यसत्त्वलोक एवं गृह्यते, सजातीयोत्कर्ष एवोत्तमत्वोपपत्तः, अन्यथाऽतिप्रसङ्गोऽभव्यापेक्षया सर्नभव्यानामेवोत्तमत्वात्, एवं च नैषामतिशय उक्तः स्यादिति परिभावनीयोऽयं न्यायः। ततश्च भव्यसत्त्वलोकस्य सकलकल्याणकनिबन्धनतया भव्यत्वभावेनोत्तमाः, भव्यत्वं नाम सिद्धिगमनयोग्यत्वम्, अनादिपारिणामिको भावः
पं०...'भव्यत्वमित्यादी' भविष्यति विवक्षितपर्यायणेति भव्यस्तभावो भव्यत्वं, नामेति संज्ञायां, ततो भव्यत्वनामको जीवपर्यायः, सिध्यन्ति-निष्ठितार्था भवन्ति जीवा अस्यामिति सिद्धिः, सकलकम्मक्षयलक्षणा जीवावस्थैव, तन गमनं-तदभावपरिणमन लक्षणं सिद्धिगमनं, तस्य योग्यत्वं नाम-योक्ष्यते सामग्रीसम्भवे स्वसाध्येनेति योग्यं, तद्भावो योग्यत्वम्, अनादि:--आदिरहितः स चासो परीति--सर्वात्मना नामः-प्रह्वीभावः परिणामः, स एव पारिणामिकश्चानादिपारिणामिको भावो-जीवस्वभाव एव । एवं सामान्यतो भव्यत्वमभिधायाथ तदेव प्रतिविशिष्टं सत्तथाभव्यत्वमित्याह --
टी०...अन लोकनामकशब्देन भव्यसत्त्वलोको गृह्यते एव, यतः सजातीयोत्कर्षे एव = समानजातीयोत्कर्षे-वत्तंमानमुत्तमत्वं उपपन्नं भवति, यदि सजातीयोत्कर्षवृत्ति, उत्तमत्वं न मन्यते च निजातीयोत्कर्षवत्ति उत्तमत्वं मन्येत तदाऽतिप्रसङग आयाति, तथाहि अभव्यापेक्षया : अभव्येभ्यः सर्वेषां भव्यानामेनोत्तमत्वं नर्तते, एवं च-विजातीयोत्कर्षवृत्त्युत्तमत्वं यदि मन्येत तदा चैषामहंतां भगवतां अतिशयः (उत्कर्षः-उत्तमत्व-गिशिष्ट-नैशिष्टयं) कथितो न भवेदर्थाद यः सजातीयेषत्कृष्ट: स एनोत्तमः यथा नरोत्तमदेगोत्तमादिः, यः सजातीयेषत्कृष्टो न स नैनोत्तमः यथा नरोत्तमो देवोत्तमो न कथ्यते । एषोऽन्वयव्य तिरेकात्मको न्यायः-युक्तिविशेषः परिभाननीयः, सजातीयेषत्कृष्ट: स एणोत्तमोऽस्तीति न्यायापेक्षया, सजातीयभव्यसत्त्वलोकेषु सकलकल्याणं प्रति, अनन्यासाधारणनिबन्धन-(तीर्थकरत्नादि-कारण) भूतमतएन विशिष्टतथाभव्यत्वं (चित्रभव्यत्वं) तम्य भावेन - विद्यमानत्वेनोत्तमाः लोकोत्तमाः' इत्यर्थः, भव्यत्वार्थस्य अभिव्यक्तिः = भविष्यति सिद्धत्गरूपविवक्षित-पर्यायात्मनेति भव्यस्तस्य भागो भव्यत्वं ततोभव्यत्वनामको जीवपर्यायः, भव्यत्वमर्थात् सिद्धिगमनयोग्यत्वं, सिद्धिः = सिध्यन्ति-निष्ठितार्था भवन्ति, जीवा अस्यामिति सिद्धिः,
.
त५५
108