________________
ललितविस्तरा-सटीका अवसाने = अन्तिममोक्षावस्थायां पुडरीकोपमानताद्वारा-पुंडरीकगतनिर्लेपतादिगुणभाक्त्वेनार्हत्सु स्तोतव्यस्वभावसिद्धिरिति, एवं तिसृषु, अवस्थासु, अर्हतां भगवतां स्तोतव्यानां, स्तवनीयस्वभावगुणधर्मादिसिद्धी पूर्वोक्तपदचतुष्टयवती, स्तोतव्यसम्पद एवासाधारणगुणरूपा हेतुसम्पत् कथिता, यतः पुरुषोत्तमानां सिंहपुण्डरोकगन्धहस्तिधर्मभाक्त्वेन स्तोतव्यतोपपत्तिर्भवतीति. (३) सम्पत् (विशे षहेतुसम्पदपि) समाप्ता. साम्प्रतं 'समुदायेंष्वपि प्रवत्ताः-शब्दाअनेकधा नयवापि प्रमर्तन्ते, स्टोक्वाप्येव वाचकप्रवृत्तिरिति न्यायसंवर्शनार्थमाह- लोकोत्तमम्य इत्यादिसापकचकम् इह यापि लोकशब्दन तत्त्वतः पञ्चास्तिकाया. उच्यन्ते, धर्मादीनां वृत्चिन्याय भवति यत्र तत् क्षेत्रम् । तैव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्य ॥१॥ मितिवचनात्, तथाऽप्यत्र....
पं०...'अनेकधा' अनेकप्रकारेषु 'अवयवेष्वपि' न केवलं समुदाय इत्यपि शब्दार्थः, शब्दाः प्रवर्तन्ते, यथा सप्तर्षिशब्दः सप्तसु ऋषिषु लब्धप्रवृत्तिः सन्नेकः सप्तर्षिी सप्तर्षी त्रयः सप्तर्षय उद्गता इत्यादिप्रयोगे तदेकदेशेषु नानारूपेषु अविगानेन वर्त्तते, तथा प्रस्तुतस्तवे लोकशब्द इति भावः, ...............
टी०...'साम्प्रत' वर्तमानप्रस्तुतसूत्रे युक्तं का समुदायेषः अपि प्रवृत्ता-शक्ति-ग्रह-बन्तो भवन्तः, समुदायवाचकाः शब्दा. अनेकप्रकारवच्छेदेन समुदायाभिषेकभागरूपावयववाचकता, परन्तु केवलं समुदायवाचका न भवन्त्यपि शब्दार्थः) भवन्ति । यथा सप्तर्षिशब्द: समुदायवाचकः सप्तसु -ऋषिष लब्धप्रवृत्तिः (शक्तिग्राहक:). अवयववाचकः सन्नेकः सप्तर्षि, द्वौ सप्तर्षी वयः सप्तर्षय उद्गता इत्यादिप्रयोगे तदेकदेशेषु (सप्तर्षिसत्कावयवेषु) नानारूपेषु, अविमानेन अविरोधेन वर्तते, ('मरीचिप्रमुखा; सप्तर्षयश्चित्रशिखण्डिनः' अ.चि.लि.कां. श्लो-३८, 'मरीचिरन्यडिपरसो पुलस्त्यः पुलहः क्रतुः । वसिष्ठश्च महातेजाः सप्तमः परिकीर्तितः' । 'बृहस्पतिः सुराचार्य जीवश्चिन शिवण्डिजः' अ.चि.द्वि.कां.श्लो.३२,, 'गी हत्योः पतिरुतथ्यानुजाऽऽगिरसौ गुरुः' अ.चि.द्वि.कां.श्लो:३३, सप्तसु ऋषिषु मध्ये अंगिरस्नामकसप्तर्षिपुत्रस्य यथाऽङिगरसत्वेन : व्यबहियते तथा 'चिन्न मिखण्डिज:-सप्तर्षिजातत्वेन व्यवह्रियते, यतः समुदाय-प्रवृत्तशब्दस्य व्यवहारस्तदवयव भूतैकदेशोऽपि प्रवर्तते इति नियमोऽत्र समञ्जसत्वेन. घटते.) महाजलाशयरूपमहासरोवरस्यैक भागोऽपि ससस्त्वेमोच्यते, सेनाद्यानां समुदायशब्दानामप्येकमेवात्तिदेकभागेऽपि सेनादिरुच्यते ।। एवमेव स्तवेषु-स्तोत्ररूप -सूवेष्वपि वाचकानां-शब्दानां प्रवृत्तिरिति न्यायसंदर्शनहेतवे 'लोकोत्तमेभ्य इत्यादिसूत्रपाक अत्तमस्ति, इह यद्यपि लोकशब्दः । तत्त्वतः (व्युत्पत्त्या, च परिभाषया-रुढ्या) : पञ्चास्तिकाय वाचकोस्ति, यत आगमवचनमस्ति, यन क्षेत्रे धर्माधर्माकाशपुद्गलज़ीवरूपाणां पञ्चानामस्तिकायाख्यानां द्रव्याणां वृत्ति-विद्यमानत्वं भवति, तैः पञ्चभिरस्तिकाय र्दव्यः सह तत्-क्षेत्रं लोक उच्यते,
107