________________
ललितविस्तरा-सटीका
भयसाधारण्येन-स्वभावरूपजातिद्वारा) जीवादी गुणवति हीनाधिका द--गुणाना व्यवस्था (स्वरूप-- लाभलक्षण-बिशिष्टावस्था) अभ्युपगच्छन्ति, अतस्तथा पूर्वयुक्त्यपेशया वच्यिमपि तथाऽक्रमवदसन्न परन्तु सदस्ति - पूर्वानुपूर्वी-पश्चानुपूर्वी-अनानपूयाद्यन्यतमद्वारा वाच्यवाचक-क्रमाक्रमादियुक्तं वस्तु सदित्यायातम्, यथा वाच्यं तथा वाचकमिति सिद्धान्तः स्मर्तव्यः, इदमेवान सारं = पुण्डरीकनामकोपमया--उपनीतस्य (अभिव्यक्तस्य) अत्यन्तातिशायिनः केवलज्ञानादिगुणस्य सिद्धौ सत्यामेव गन्धगजोपमया विहारनामक-गुणस्यार्पणं (अभिव्यञ्जनम् ) परवादिनाऽभिप्रेतहीनादिगुणक्रमाप्रेक्षयाऽक्रमवदपिनासबपिलु मवेति भावः, अस्यैवार्थस्यानेनैवोपन्यासेन व्यतिरेकपद्धत्या सिद्धिः = अन्यथा = गुणिनिष्ठगुणानाः क्रमाक्रमव्यवस्थायाश्च पूर्वानुपूर्वी -पश्चानुपूर्वी-अनानुपूर्वीद्वारा कथनाह-अप्रियास्वाभावस्य चाभावे. सति, या वाच्यगुणनिमित्तजन्य -पुण्डरीकोपमोपन्यासरूप--शब्दप्रवृत्ति भवतिा सा न भवेत्। यतो होनादिक्रमणैव गुणोत्पत्तिनियमस्य मान्यतायां च पूर्वानपूर्वीद्वारैव (न पश्चानुपूर्व्या नानासुपूर्व्या) "गुणांना वाच्यत्वे मते. पूर्वानुपूर्वी क्रमविशिष्टाभिधेयमुलनिमत्त-प्रयोज्यशब्दव्यवहार-प्रयोगप्रणालिकायां कल्पितायां सत्यां 'पुरुषवरपुण्डरीकेतिसूत्रकथनानन्तरं 'पुरुषवरगन्धहस्ति' इति स्तोत्ररूपशब्दप्रवृत्तिः कथं युक्तियुक्ता स्यात् ? अर्थान्न युक्ता भवेत् इदमन हाद कथ्यते वस्तुनिबन्धना (पूर्वानुपूर्वी-पश्चानुपूर्वी-अनानुपूर्वीअन्यतमक्रमाक्रमोत्क्रमादिविशिष्टवाच्यगुणनिमित्तवती) शन्दप्रकृतिः - प्रत्यक्षा दृश्यते; तथा वस्तुनिबन्धनप्रवृत्तेावे सति. अधिकृतस्तवस्य (शक्रस्तवगतपुरुषवरपुण्डरीक पुरुषवरगन्धहस्तिरूगोपमाभितस्तुतिप्रतिपादकवाक्यस्य) निष्फलता भवेत्, यतः, - असद्भूतार्थकयनद्वारा स्तधर्ममतिक्रम्य स्तवरूपकार्याकरणमायातं स्यात्. ततश्च स्तववैयर्थ्याच्च स्तवलक्षणः प्रयासः, अन्धका रविहितनतनतुल्यो भवेत्, स्तुवप्रयासः सफलोऽस्ति यतः स स्तवः सफलारम्भि-गणधरमहापुरुषप्रणीतोऽस्ति. वस्तुवस्त पुण्डरीकोपमेयकेवलनानादिसिद्धी यात्तिकर्मक्षयजन्यत्वेनाधिक-रूपत्वेन गन्धगजीपमेयाँतिशयरूपविहारगुणरूपजनतागतापायापगमातिशयरूपविशिष्टगुणसिद्धिरदुष्टैवेति, नवमपदरूप पुरुषवरगन्धहस्तिरूपविशेषणं समाप्तम् (६) एवं-अनेन प्रकारेणेव पुरुषोत्तमसिंहपुण्डरीकधर्मातिशया (अतिशायि-विशिष्ट धर्माणां) योगे-सम्बन्धे सत्येव, एकान्तेन (मविसंवादेन) नियमत: मादौ (आदिभूतावस्थायां मोक्षाऽवस्थातः प्रोक्ससारावस्थायां) अनादिकालतः भवेषु, शनिसमक्ष्यामि परोपकारव्यसमादिजन्यपुरुषोत्तमत्वयोगतः, अहंदात्मसु स्तोतव्यस्वभावसिद्धिः, मध्यरूपावस्थामां-व्रतविधिविषये, आचारप्रधान-महाव्रतक्रियादिरूपविषये (शौर्यादिगुणापेक्षया चोपद्रव-अपायरूपक्षुद्रगण-निराकरणादिरूपगुणापेक्षया) सिंहगन्धगजधर्मभाजोऽर्हन्तो भगवन्तो भवन्ति, अतोऽर्हदात्मसु स्तोतव्यस्वभावसिद्धिः,
106