________________
ललितविस्तरा-सटीका
निश्चितस्य क्रमादेरेकस्य कस्यचिदभावात्, व्यतिरेकमाह-'अन्यथा' पूर्वानु पूर्व्यादिभिरनभिधेयस्वभावतायां गुणानां 'तथा' पूर्वानुपूर्व्यादिक्रमेण 'अभिधानाप्रवृत्तेः' 'अभिधायकानां ध्वनीनामप्रवृत्ते वमप्यभिधानक्रमाभाव इति योगः, अभिधेयतया परिणत्यपेक्षो ह्यभिधानव्यवहारः, किं सिद्धमित्याह, न-नैवैवम्-अभिधानन्यायेनाभिधेयमपि तथा-अक्रमवदसदिति परोपन्यस्तं, कुत इत्याह-'उक्तवत्' प्रतिपादितनीत्या, 'अक्रमवत्वासिद्ध:' अभिधानक्रमाक्षिप्तस्य क्रमवतोऽभिधेयस्य क्रमोत्क्रमादिना प्रकारेणाभिधानार्हस्वभावपरिणतिमत्त्वात्सर्वथा क्रमरहितत्वासिद्धः, एवमभिधेयपरिणतिमपेक्ष्याभिधानद्वारेण गुणानां क्रमाक्रमावुक्ती, इदानीं स्वभावत एवाभिधातुमाह-'क्रमाक्रमव्ययवस्थाभ्युपगमाच्च' क्रमेणाक्रमेण च सामान्येन हीनादिगुणानां गुणिनि जीवादी व्यवस्थायाः-विशिष्टाया अवस्थायाः स्वरूपलाभलक्षणाया अभ्युपगमात्-अङगीकरणात्स्याद्वादिभिः, चकारः पूर्व युक्त्यपेक्षया समुच्चयार्थः, नाभिधेयमपि तथाक्रमवदसदिति योगः, पुण्डरीकोपमोपनीतात्यन्तातिशायिगुगसिदो गन्धगजोरमया विहारगुणार्पणू पराभिप्रेतहीनादिगुणक्रमापेक्षयाऽक्रमवदपि नासदितिभावः, अमु मेवार्थमनेनैवोपन्यासेन व्यतिरेकतः साधयितुमाह-'अन्यथा' क्रमाक्रमव्यवस्थायाः पूर्वानुपूाद्यभिधेयस्वभावस्य चाभावे 'न' नैव. 'शब्दप्रवृत्तिः' प्रस्तुतोरमोपन्यासरूपा 'वस्तुनिबन्धना' वाच्यगुणनिमित्ता, हीनादिक्रमेणव हि गुणजन्मनियमे पूर्वानुपयवाभिधेयस्वभावत्वे च सति तन्निबन्धने च तथैव शब्दव्यवहारे कथमिव शब्दप्रवत्तिरित्थं युज्यत इति भावः 'इति' अस्माद्ध तोर्वस्तुनिबन्धनशब्दप्रवृत्त्यभावलक्षणात 'स्तववैयर्थ्यमेव' स्तवस्याधिकृतस्यैव वैयर्थ्यमेव -निष्फलनवमेवासदर्थाभिधायितया स्तवधौतिक्रमेण स्तवकार्याकरणात् । ततश्च' स्तववैयर्थ्याच्च 'अन्धकारनृत्तानुकारी' सन्तमसविहितनत्तंनसदृशः 'प्रयासः' स्तवलक्षण इति, न चवमसी, सफलारम्भिमहापुरुषप्रणीतत्वादस्येति, पुण्डरीकोपमेयकेवलज्ञानादिसिद्धो गन्धगजोपमेयविहारगणसिदिरदुष्टेति, - 'एकान्तेनेत्यादि' एकान्तन-अव्यभिचारेण 'आदिमध्यावसानेष' बादौ- नादो भवेषु पुरुषोत्तमतया मध्ये-व्रत विधौ सिंहगन्धहस्तिधर्मभाक्त्वेन, अवसाने च-मोक्षे पुण्डरीकोपमानतया 'स्तोतव्यसम्पत्सिद्धिः' स्तवनीयस्वभाव सिद्धिरिति ॥
टी०...अभिधानन्यायेन-वाचकशब्दक्रमव्यत्ययेन वाच्यमपि, वाचकवत् परिपाटिक्रमरहितं असत्-अविद्यमानं 'अक्रमवदसदि' ति परेण-वादिना यदुपन्यस्तं तन्न युक्तं यतः पूर्वोक्त-प्रतिपादितनीतिरेव प्रमाणम, तथाहि = अभिधान-वाचकक्रमापेक्षया मानितक्रमवदभिधेयमस्ति, तत् क्रमवद् वाच्यं, क्रमेण -उत्क्रमेणाक्रमादिना प्रकारेणाभिधानार्हस्वभावपरिणति-मदस्ति, अतः सर्वथा क्रमरहितं नास्ति, एवं वाच्यगतिपरिणतिमपेक्ष्य-कीदृशी वाच्य-परिणतिरस्ति ? किं क्रमप्रकारावच्छिन्ना ? किमुक्रमप्रकारावच्छिन्नाऽस्ति ? किमक्रमप्रधाना वाच्यपरिणतिरस्ति ? यादृशी-यत्प्रकारावच्छिन्नाऽस्ति वाच्यपरिणतिः, तादृशी.तत्तत्प्रकारावच्छिन्नां वाच्यपरिणतिमपेक्ष्य-निमित्तोकृत्य वाचक-शब्दद्वारा गुणाना क्रमश्चाक्रमश्च-क्रमाक्रमो कथितो. अधुना स्वभावतः क्रमाक्रमव्यवस्थावर्णनम् = स्याद्वादिनः, क्रमाक्रमाभ्यां (सामान्येन = क्रमाक्रमो
105