________________
ललितविस्तरा-सटीका
स्यात्, अतः पूर्वानुपूर्व्यादिक्रम-प्रणालिकामते, अभिधानक्रमाभावो (वाचकशब्दपरिपाटिव्यत्ययः) न भावी, परन्तु, अभिधानक्रमः (वाच्यवाचकक्रमः) समञ्जसरीत्या घटमानो भविष्यति, अनैतादृशो नियमोऽस्ति, तथाहि-अभिधानव्यवहारः (शब्दप्रयोगः-कथनप्रवृत्तिः) अभिधेयतया परिणत्यपेक्षावान् भवति, अर्थाद् यादृश्या यादृश्या, अभिधेयतया (कथनस्य शब्दस्य विषयतया) अभिधेयस्य (अभिधानविषयगुणपर्यायरूपवाच्यार्थस्य) परिणतिरस्ति, तादृशीं परिणतिमपेक्ष्य = एतद्वाचकं -(कथनं शब्दोवा) कस्मिन्नर्थे गुणपर्यायात्मके परिणति:-शक्तिग्रहोऽस्ति, तादृशीं पदार्थपरिणति शक्तिग्रहमपेक्ष्य शब्दव्यवहारः प्रवर्तते (अर्थ बुद्धवा शब्दरचनेति न्यायोऽत्र घटनीयः) अभिधानक्रमाभावेऽभिधेयमपि तथा, 'अक्रमवदसदिति' वचनात्, एतन्निरासायाह-'पुरुषवरगन्धहस्तिम्य इति', पुरुषाः पूर्ववदेव, ते वरगन्धहस्तिन इव गजेन्द्रा इव क्षुद्रगजनिराकरणादिना धर्मसाम्येन पुरुषवरगन्धहस्तिनः, यथा गन्धहस्तिनां गन्धेनैव तद्देशविहारिणः क्षुद्रशेषगजा भज्यन्ते, तद्वदेतेऽपि, परचक्रदुभिक्षमारिप्रभूतयः सर्व एवोपद्रनगजा -अचिन्त्यपुण्यानुभागतो भगद्विहारपगनगन्धादेव भज्यन्त इति, न चकानेकस्गभानत्वे वस्तुन एगमप्यभिधानक्रमाभावः, सर्वगुणानामन्योऽन्यसंवलितत्वात, पूर्वानुपूाद्यभिधेयस्वभावत्यात्, अन्यथा तथाऽभिधानाप्रवृत्तः, नैवमभिधेयमपि तथाऽक्रमवदसदित्युक्तवद्, अक्रम स्वासिद्धः, क्रमाक्रमव्यवस्थाम्युपगमाच्च, अन्यथा न वस्तुनिबन्धना, शब्दप्रवृत्तिरिति स्तवगैयर्थ्यमेव, ततश्चान्धकारनृत्तामुकारी प्रयास इति, पुरुषवरगन्ध हस्तिन इति ६ । एवं पुरुषोत्तमसिंहपुण्डरीकगन्धहस्तिधर्मातिशययोगत एव, एकान्तेनादिमध्यावसानेषु स्तोतव्यसम्पत्सिद्धिरिति स्तोतव्यसम्पद एवासाधारणरूपा हेतुसम्पदिति ३।
पं०... अभिधानक्रमाभावे' वाचकध्वनिपरिपाटिव्यत्यये 'अभिधेयमपि' वाच्यमपि तथा' अभिधानवद, 'अक्रमवत्' परिपाटिरहितम् 'असत्' अविद्यमानं, क्रमवृत्तजन्मनोऽभिधेयस्याक्रमोक्तो' तद्र पेणास्थितत्वात् न चेत्यादिन च-नैवैकानेकस्वभावत्वे-रको द्रव्यतयाऽनेकश्च पर्यायरूपतया स्वभाव:-रूपं यस्य तत्तथा तदभावस्तत्त्वं तस्मिन्, 'वस्तुनः' पदार्थस्य 'एवमपि' अधिकगुणोपमायोगे हीनगुणोपमोपन्यासेऽपि 'अभिधानक्रमाभावो' वाचकशब्दपरिपाटिव्यत्ययः, कुत इत्याह'सर्वगुणानां' यथास्वं जीवाजीवगतसर्वपर्यायाणाम् 'अन्योऽन्यं' परस्परं 'संवलितत्वात्' संसृष्ट रूपत्वात्, किमित्याह -'पूर्वानु पूर्व्याभिधेयस्वभावत्वात्' पूर्वानुपूर्व्यादिभिः-व्यवहारनयमतादिभिरादिशब्दात् पश्चानुपूय॑नानुपूर्वीग्रहः अभिधेयः-अभिधानविषयभावपरिणतिमान् स्वभावो येषां ते, तथास्तभावस्तत्त्वं तस्मात्, संवलितरूपत्वे हि गणानां
104