________________
ललितविस्तरा-सटीका
(३) यत्र भगवान् विहरति तत्र भूमौ स्त्री-क्षेत्र-ग्रामादिहेतुजन्यो वैराग्नि:-विरोधानलः प्रशाम्यति. मिथो वैर-विरोधरूप उपद्रवो गच्छतीति. (४) अशेषाशिवोच्छेदडिण्डिम-समे भगवतां प्रभावे भुवि भ्राम्यति सति दुष्टव्यन्तरशाकिनीप्रभृतिकारणजन्या भुवनारयो मारयो न सम्भवन्ति अर्थाज्जगत: कालसदृशा जीवितापहारिणो रोगोपद्रवा न प्रभवन्ति. (५) विश्वकवत्सले लोक-मनोवाञ्छितपूरके भगवति विहरति सति, अतिवृष्टिरवृष्टि र्वा (अनावृष्टिः) या जनतोपतापकारिणी सा न प्रभवति. (६) भगवनां प्रभावात् स्वराष्ट्रपरराष्ट्रजन्या ये क्षुद्रोपद्रवास्ते द्रुतं विद्रवन्ति... (७) सर्वाद्भुतप्रभावसम्पन्ने जङगमकल्पवृक्षसमाने भगवति पृथ्वीतले विहरति सति जगद्भयङकरदुःखदायकं दुभिक्षं क्षीयते एवेति.. . एते सर्वे एवोपद्रवगजा अचिन्त्यतीर्थकरनामक्रमहापुण्य-सम्पूर्णपुण्यानुबन्धिपुण्योदयप्रभावतो भगद्विहार-पवनगन्धमात्रेण भज्यन्ते-पलायन्ते, एषोऽपायापगमातिशयः कर्मघातजन्यकादशातिशय-मध्ये गण्यतेऽर्थात् सर्वज्ञताप्राप्त्यनन्तरमेषोऽतिशयः प्रादुर्भवतीति. अत एषोपमा न हीनगुणा अपित्वधिक गुणा भासतेऽतः क्रमभङगः कथं ? हीनगुणत्वे उपमायां शक्रादिपुरुषमात्रसाध्योपद्रव-निवृत्तिः कथिता तदपि न, यतः शक्रादिषु शक्तिर्दशिता न तु कदाचिदुपयोगितेति शेयम्. अथवा वाचकशब्दक्रमव्यत्ययो नास्तीति वर्णनम् = एकानेकस्वभावं वस्तु, अर्थाद् द्रव्यतयकोऽनेकःस्वपर्यायतया स्वभाव: -रूपं यस्य तत्-एकानेकस्वभाववत् नेस्तु कथ्यते, एतादृशवस्तुनः स्वभावत्वहेतुनाऽधिकगुणोपमायोगे हीनगुणोपन्यासेऽपि वाचकशब्दक्रमव्यत्ययरूपो भङगो नैव भवति कथमिति चेत् कथ्यते तथाहि = यथा स्वं-स्वपदार्थापेक्षया स्वस्वपदार्थवृत्तयः सर्वे स्वस्वपर्याया:-गुणा वा स्वस्वपदार्थे संसर्गसम्बन्धेन मिथः संगलिताः-शवलिता-मिश्रिता भवन्ति, अर्थाज्जीवगताः सर्वे स्वगुणा:-पर्यायाः जीवरूपैकाधिकरणाऽवच्छेदेन संसर्गरूपेण मिथः संवलिताः सन्ति, तथाऽजीवगताः सर्वे स्वपर्यायाः, अजीवरूपस्वाधिकरणाऽवच्छेदेन मिथो मिश्रिता एव, एवं स्वस्वपदार्थरूपाऽधिकरणाऽवछेदेनाऽवच्छिन्ना मिथः संसर्गरूपसम्बन्धाऽवच्छिन्नाः सर्वे स्वपर्यायाः सन्ति । किञ्च तेषां स्वस्वपदार्थनिष्ठानां सर्वेषां गुणानां पर्यायाणां च स्वभावः, व्यवहारनयमतपूर्वांनुपूर्वी-पश्चानुपूर्वी-अनानुपूर्वीक्रमतः (पद्धत्या -प्रणालिकया) सर्वपदार्थगतसर्वगुणपर्यायाणा वचनविषय-वाच्यभावे-वाच्यत्वे परिणमन-परिणतिमत्स्वभावो वर्ततेऽतो गुणानां पर्यायाणां वा मिथः संसृष्ट-संवलितरूपत्वे सत्येव निश्चित-पूर्वानुपूादिरूपक्रमादे मध्यात्कस्यचिदेकस्याभावो वर्त्ततेऽन्यथा-पूर्वानुपूर्व्यादिक्रमादिभिः, अनभिधेय -अकथनीय स्वभाववन्तो गुणाः सन्तीति मते पूर्वानुपूर्व्यादिक्रमद्वारा, वाचकशब्दानां प्रवृत्तेरभावः
103