________________
ललितविस्तरा-सटीका
रूपविकासस्य नियमोऽस्ति तर्हि तथा तन्निरूपणस्यापि तादृशः क्रमनियमः कर्त्तव्य इति वादिनो बृहस्पतिशिष्या मन्यन्ते, ते बृहस्पतिशिष्यः, हीनगुणोपमायोग एवाधिकगुणोपमारे इष्यन्ते, अर्थात्, गुणापेक्षया हीनगुणवत्योपमया सह पूर्व उपमेयं-उपमेयगतहीनगुण-धर्म, उपमित्य-तोलयित्वा, पश्चात्-अधिकगुणवत्या उपमाया उपन्यासद्वारोपमेयगतोऽधिको गुण उपमातु युक्त एवेदृशः क्रमनियमोऽस्ति, तथाहि प्रकृते पूर्व गन्धगजरूपया हीनगुणवत्योपमया, उपमेयगतं कथं हीनगुणवत्त्व ? इति चेत् कथ्यते महाप्रभावशालिना शक्रादिपुरुषमात्रेण मारीतिदुभिक्षाधुपद्रवाणां निवृत्तिः साध्यतेऽतो हीनगुणवतो भगवद्विहारस्य साधिते सति-सिद्धरनन्तरमधिकगुणवत्या (शक्रादिपुरुषमात्रा साध्यया) पुण्डरीकोपमया सह-भुवनाद्भुतभूताः,-त्रिजगदाश्चर्यकल्पाऽतिशयसम्पत्-सर्वातिशयसमृद्धि -केवलज्ञानश्रीप्रभृतयो निर्वाणप्राप्तिपर्यवसाना:-मोक्षप्राप्तिपर्यन्ता गुणा भगवतामुपमातुयुक्ताः, तथा च बृहस्पतिशिष्याः, पूर्वमहतो भगवतो होनगुणोपमया (गन्धहस्तिरूपोपमया) स्तुत्वा पश्चाद्, अधिकगुणवत्योपमया (पुण्डरीकादिरूपोपमया) अर्हन्तो भगवन्तः स्तोतव्या इति मन्यन्ते, यत: पूर्वानुपूर्वीवाच्यवाचकक्रमयुक्तं सदिति मते सति वाचकशब्दक्रमस्य-परिपाट्या व्यत्ययेन-वैपरीत्येन, वाच्यमपि (अर्थोऽपि) वाचकवत् परिपाटोशून्यं-क्रमरहितं भवेदित्यापत्तिः, एवं क्रमशून्यत्वेन वस्तु, असत्, पूर्वानुपूर्वी-विशिष्टवाच्यवाचकक्रमयुक्तं वस्तु सत्, पूर्वानुपूर्वी-विशिष्टबाच्यवाचकक्रमरहितं वस्तु असत्, अत्र साक्षिकं वचोऽस्ति, यत्, 'अक्रमवदसत्' इति परिपाटिरहितं वस्तु अविद्यमानं, क्रमेण वृत्तं (भूतं-वृत्तिमत्) जन्मोत्पत्ति र्यस्य, तस्य-क्रमवृत्तजन्मनोऽर्थस्याक्रमोवती सत्यां क्रमरूपेणार्थस्य स्थितेरभावेन, अभिधेयत्वेनाभिधेयस्या-सत्त्वमापद्यतेति, पूर्वोक्तबृहस्पतिशिष्यमतस्य निरासायान्ययोगव्यवच्छेदक-विशेषणपद्धत्या कथयति 'पुरुषवरगन्धहस्तिभ्योऽर्हद्भ्यो भगनभ्यो नमः' पूर्वकथितस्वरूपा:-पुरुषोत्तमा वरगन्धहस्तिन इव गजेन्द्रा इव क्षुद्रगजनिराकरणादिस्पधर्मसमानतया अर्हन्तो भगवन्तः पुरुषवरगन्धहस्तिन . उच्यन्ते उपमानोपमेयगतसमानधर्मस्य समन्वयः = यथा गन्धहस्तिनामक एकप्रकारक उत्तमो हस्ती वर्त्तते, यस्य कुम्भस्थलतः सुरभिसुगन्धमयो मदः (दानं) क्षरति, हस्तिहस्रेभ्य एतादृशो हस्ती क्वचित् कश्चिल्लभ्यते, एष यत्र गच्छति ततस्य मदस्य तीव्रगन्धवासनाहेतुना प्रत्यभिज्ञायते, अन्यच्चात एव क्षुद्रा:-सामान्य -कोटिका हस्तिनो गजेन्द्रागमनमात्रेण भज्यन्ते, स्थानान्तरे पलायन्ते, तत्र न तिष्ठन्ति, ।। पञ्चविंशत्यधिके योजनशते, उपद्रवगजाः सर्व एव पलायन्ते तत्रोपद्रव-गजानां वर्णनं चेत्यम् = (१) पूर्वोत्पन्ना रोगाः-व्याधयोऽजसा भगवद्विहारपवनगन्धेन विलीयन्ते. (२) भगवद्विहारभूमौ धान्यादिहानिकारका मूषकशलभशुकाद्या नाविर्भवन्तीतिनामक उपद्रवो विलीयते.
102