________________
ललितविस्तरा-सटीका
(७) न भयमुपसर्गेषु = एषामहंतां, देवमनुष्यतिर्यगादिकृतेषूपसर्गेषु सत्सु न भयमांदुपसर्गेभ्यो न बिभ्यत्यर्हन्तः, "बीहंति न चेव जो उवसग्गपरीषहणधोराणं वियरंति असंकमणा भन्नति ततो पुरुषसीहा" तथा च भयस्य = परिणामचञ्चलतारूपस्य शरीरमनः सत्कचञ्चलतारूपस्याभाव एवोपसर्गाणां क्षमापूर्वकं सहनं शक्यम्, भयसत्तायामुपसर्गाणां साम्यपूर्वकं सहनमशक्यम्, उपसर्गान् प्रति निर्भयतानामकापूर्वगुणविशिष्टपुरुषा एव निर्विवादं पुरुषसिंहाः कथ्यन्ते.. (८) न चिन्ताऽपीन्द्रियवर्गे = एषामहतां स्व-स्व-विषयग्राहकेन्द्रियवर्गस्य स्वकीयस्य कि भविष्यतीति चिन्ताया-व्यग्रताया अत्यन्ताभावविशिष्टा अर्हन्तो भवन्ति, इन्द्रियवर्गचिन्तासत्त्वे स्वात्मस्वस्थता न भवति, इन्द्रियवर्गचिन्ताया असत्त्व एव परमात्मस्वास्थ्यमव्यग्रं भवति. (E) न खेदः संयमाध्वनि = एषामहंतां, संयममार्गे-प्रव्रज्यामार्गे प्रगतानामेषां न खेदः = प्रवृत्ती परिश्रमो (निराशा-प्रमादो) नार्थात् सर्वसंगत्यागरूपप्रवज्यां निरतिचारतया पालयतामेषां कदाचिदपि न श्रमः शोको वा ग्लानि:-शैथिल्यं न भवति. अतोऽखिन्नतया संयममार्गे स्थिता:-पूर्णतां प्राप्ता अर्हन्तः सिंहोपमा एव. (१०) निष्प्रकम्पता सद्ध्याने = एषामर्हता, धर्म्यशुक्लोभयरूप-सत्-प्रशस्तध्यानेऽथवोत्पादव्ययधोव्यात्मकसद-रूपपदार्थविषयक-ध्याने, सद्विषये एकप्रत्ययसन्ततिरूपे ध्याने निष्प्रकम्पतामेरुमासमाननिश्चलता वर्तते तादृश-सद्विषयकध्याने निष्प्रकम्पतानामकगुणविशिष्टा अर्हन्तः सिंहोपमा एव अत्रका कल्पना मदीया = महापुरुषाणामेकाऽविकृतप्रकृतिरस्ति, यत् सर्वत्र सर्वतो गुणानां ग्रहणं कर्त्तव्यम् यदा सिंहादिषु स्वेतरावृत्तित्वविशिष्टा असाधारणाः शौर्यादयो गुणा दृष्टाः श्रुता वा ततोऽपि मया शौर्यादयो गुणा ग्राह्या इति निश्चयः कृतः, सिंहस्था गुणा असाधारण-शौर्यादय आत्मना मनसा गृहीतास्तत: स्वात्मसात् कृत्वा, प्रशस्ततमरूपत्वेन परिणामिता कर्मादिरागादिकान् प्रति प्रयुक्ता उपयुञ्जाना गुणग्रहण-दृष्टि--द्वारा परस्थान् गुणान् गृहीत्वाऽत्मनि, आत्मसात् कृत्वा तद्रूपा इव भूत्वाऽर्हन्तः प्रशस्तपरिणामतया परिणामिनो जगति परोपकारं कृत्वा स्वयं तीर्णाः परतारका अजायन्त. तथा च पूर्वोक्तगुणधर्मरूपसमानधर्मः सिंहेन सह भगवतां कृतसादृश्य-उपमा न मृषा-असत्याअयथार्थाऽपितु सत्या-यथार्थेव, यतः सिंहोपमाद्वारेण-मार्गेण, तत्त्वतः-परमार्थापेक्षया, न तु शाब्दव्यवहारतः-शब्दप्रयोगरूपव्यवहारापेक्षया-शाब्दिकालङकारापेक्षया परन्तु वस्तुतः सत्याऽस्ति.. तवसाधारणगुणाभिधानात्, विनेयविशेषानुग्रहार्थमेतत्, इत्यमेव केषाम्बिबुक्तगुणप्रतिपत्तिदर्शनात्, चित्रो हि सत्स्वानां क्षयोपशमः, ततः कस्यचित्कञ्चिदाशयशुविभावात् ।।
पं०...'तदसाधारणगुणाभिधानात्' तेषां-भगवतामसाधारणा:-सिंहादी क्वचिदन्यवाप्रवृत्ता ये
92