________________
ललितविस्तरा-सटीका
दृष्टश्च दरिद्रेश्वरयोरप्यविशिष्टो मृत्युः, आयुःक्षयाविशेषात्, न चैतावता तयोः प्रागप्यविशेषः, तदन्यहेतुविशेषात्, निदर्शनमात्रमेतदिति पुरुषोत्तमाः ।६। एते च बाह्यार्थसंवादिसत्यवादिभिः.
पं०...'दृष्टश्च' उपलब्धश्च 'दरिद्र श्वरयोरपि' पुरुषविशेषयोरपि, किं पुनरन्ययोरविशिष्टयोरित्यपिशब्दार्थः, 'अविशिष्टः' एकरूपो 'मृत्युः' प्राणोपरमः, कुत इत्याह-'मायुःक्षयाविशेषाद' आयुःक्षयस्य-प्राणो. परमकारणस्य अविशेषात्-अभेदात्, कारणविशेषपूर्वकरच कायं विशेष इति, तहिं तयोः प्रागप्यविशेषो भविष्यतीत्याह-'न चैतावता' मृत्योरविशेषेण 'तयोः' दरिद्रेश्वरयोः 'प्रागपि' मृत्युकालाद् 'अविशेषः' उक्तरूपः, कुत इत्याह'तदन्यहेतुविशेषात' तस्माद्-आयुः क्षयादन्ये ये विभवसत्त्वासत्त्वादयो हेतवस्तविशेषात्-विशिष्टीकरणात्, निदर्शनमानमेतदिति' क्षीणसर्वकर्मणां मुक्तानां क्षीणायुः कम्मांशविशेषाभ्यां दरिद्रेश्वराभ्यां न किञ्चित्साम्यं परमार्थत इति दृष्टान्तमानमिदमिति पुरुषोत्तमत्वसिदिः ॥ 'बाह्येत्यादि' सम्यक्शुभभावप्रवर्तकमितरनिवत्तं च वचनं सत्यमसत्यं वा निश्चयतः सत्य, तत्प्रतिषेधेन 'बाह्मार्थसंबाचेव' अभियानाम्यभिचार्येव सत्यवादिभिर्व्यवहाररूपं सत्यं वक्तव्यमिति बदितु शीलं येषां ते तथा तैः।
टी०...दरिद्रश्चेश्वरश्च = दरिद्रेश्वरी तयो ईरिद्रेश्वरयोः, दरिद्रत्वविशेषणविशिष्टदरिद्रे-निर्धने, चेश्वरत्वविशेषणविशिष्टेश्वरे-धनवति, अपि = किं पुनरन्ययोरविशिष्टयोरित्यपिशब्दार्थः, अविशिष्टो मृत्युदंष्टः, एकरूपः प्राणोपरमरूपप्राणवियोगः प्रत्यक्षप्रमाणसिद्धः, (जैनदर्शने प्राणः सह विप्रयोगो मरणमुच्यते नान्यदिति) मृत्युरस्ति, यतः प्राणवियोगकारणभूतस्यायुः क्षयस्याऽविशेषरूपाभेदोऽस्ति, नियमोऽस्ति, यत्कारणविशेषपूर्वकश्च कार्य विशेषः कार्यविशेष प्रति कारणविशेषः कारणम्, कारणनिष्ठविशेषताप्रयुक्तकार्यनिष्ठविशेषता ज्ञेया, प्राणवियोगरूपमरणकारणायुः क्षयनिष्ठविशेषताऽभावप्रयुक्तः, मिथोविरुद्ध-दरिद्रेश्वरनिष्ठमृत्युनिष्ठविशेषताऽभावः, प्रत्यक्षप्रमाणविषय एव । अन्यच्च मृत्युनिष्ठविशेषाभावप्रयोजक-प्रयुक्तो, मृत्युकालात् प्रागपि, दरिद्रेश्वरयोः, अविशेष:-अभेदो नास्ति, अपि तु विशेषो-भेदोऽस्त्येव, यतस्तदन्य-हेतुविशेषोऽस्ति = आयुः क्षयादन्ये ये विभवसत्त्वासत्त्वादिहेतुजन्यविशेषो-विशिष्टीकरणं विद्यत एव, . निदर्शनमात्रमेतदिति = क्षीणसर्वकर्मणां मुक्तानां, क्षीणायुःकशिविशेषाभ्यां, दरिद्रेश्वराभ्यां सह न किञ्चित्साम्यं परमार्थतोऽपितु कारणाभेदप्रयुक्तकार्याभेद-मान-दर्शनं, पर्याप्तमस्तीति, अंशतो दृष्टान्त-मात्रमिदमिति पुरुषोत्तमत्वसिद्धिः । सम्यग् (सर्वथा) शुभभावप्रवर्तकत्व-विशिष्टाशुभभावनिवर्तकं वचनं व्यवहारतो-द्रव्यतः सत्यमसत्यं वा, निश्चयनयापेक्षया भावप्रधानत्वेन सत्यमेवेति. तत्प्रतिषेधद्वारा बाह्यपदार्थनिष्ठवाच्यार्थेन सहाविरोधित्वेन सर्वथा समञ्जससङगतसंवादवदेव व्यवहाररूपं सत्यं वाच्यमिति वादिभिः साङकृतनामकप्रवादिना शिष्यः साङ्कृत्यः, सिंहपुण्डरीका
89