________________
ललितविस्तरा-सटीका
टी.... प्रत्येकबुद्धस्य पृथक्स्वरूपं = सन्ध्यासमयजनितमेघवा ईलसत्करूपरंगादीन्द्रधनुस रूपान्तरनिष्ठपरिवर्तनादीनि दृष्ट्वा तथाविधपदार्थानां तादृशानि रूपान्तराणि वा दृष्ट्वा, निमित्तं प्राप्य वैराग्यभावनाप्रकटनानन्तरं केवलज्ञानं प्राप्य कैवल्यं गतः प्रत्येकबुद्ध उच्यते.
बुद्धबोधितस्य पृथग्स्वरूपं = बुद्धा आचार्यादिकगुरवः, तं बोधिताः- बोधं प्रापिता अर्थाद् गुर्वादीनामुपदेशेन संसारस्य स्वरूपमसारत्वेन भासते तदा वैराग्यभावनाप्रकटनेन केवलज्ञानं प्राप्य कैवल्यं गतो यः स बुद्धबोधित उच्यते, स्वयं बुद्धस्य पृथक्स्वरूपं = गुर्वादीनामुपदेशं विना तथाविधकर्मणां लघुत्वेन - कृशत्वेन किमपि निमित्तं विना स्वयमेव स्वतः संसारस्वरूपं सर्वथा निःसारं भासमानं वर्तते ततो वैराग्यभावनाप्रकटनेन केवलज्ञानं प्राप्य कैवल्यं प्राप्तो यः स स्वयंबुद्ध उच्यते..
अर्थात् पृथक् पृथग् भिन्नस्वरूपाणां प्रत्येकबुद्ध-बुद्धबोधितस्वयंबुद्धादीनां वाचकशब्दविशेषाणां प्रामाणयेन - परस्पराऽविरोधि-संवादेन, अर्थात् तीर्थंकरव्यक्तिश्व तोर्थ कर भिन्नप्रत्येकबुद्धादयो व्यक्तिविशेषा भिन्ना इति बिनागमरूपं, शास्त्रसिद्धं, वस्तु, वर्त्ततेऽत एव जात्यरत्नसमाः पुरुषोत्तमा अर्हन्तोभगवन्त: सन्ति, अजात्यरत्नसमाः प्रत्येकबुद्धादयो व्यक्तयः, एवमनुच्छिन्न- जातिस्वभावरूपयोग्यताकृतो भेदोSसमानता वर्त्तते, व्यतिरेकपद्धत्या ज्ञापयति - अन्यथा - जात्यरत्नतीर्थकरस्य चाजात्यरत्नसमप्रत्येकबुद्धादे र्भेदाभावे-समानस्वभावतायां शास्त्रसिद्धप्रत्येकबुद्धा दिभेदस्तथा लौकिकव्यवहार- सिद्धाजात्यरत्नादेर्भेदः, युक्तिव्यवहारागमद्वारा, सिद्धोऽपि न्याययुक्तो न भवेदित्यापत्तिः, मत एव जात्यरत्नसमानपुरुषोत्तमानामहंतां भगवतां चाजात्यरत्नसमान प्रत्येकबुद्धादीनां मध्ये सर्वथाऽन्तरंमेदोऽसमानत्वं प्रतिपत्तव्यमेव, एवं सस्मभेदसियों, पराशङकोदेति - इह संसारे पुरुषोत्तम - प्रत्येकबुद्धबुद्धबोधित - स्वयं बुद्धादयः सर्वे मियो भिन्नस्वरूपत्वेन भिन्ना एव तदा मुक्तावपि तेषु भेदप्रसङग :आपत्तिः कथं न ? इति पराशङका
तत्समाधानं सावच्छू यताम् अत एव इह संसारे सत्त्वभेद - सिद्धेरेव हेतुतः - मुक्तावपि ( न केवल मिह ) निर्विशेषण- सत्त्वमात्रभावतो नैव भेदः तत्रासमानता वैषम्यं वा कुत इत्याह
ज्ञानवरणीयादिसकलकर्मणः क्षयाऽनन्तर - अव्यवहित-क्षणभाविनी कार्यरूपा मुक्तिरस्ति, अर्थाद्मुक्षकर्ममातस्यक्षयाऽनन्तरभावि कार्यमस्ति किञ्च तत्, क्षीणकर्मसु सर्वेषु सिद्धेषु जीवेषु, एकसमानता वत्तंते, ततो भेदः कथं ? भेदकाभावात् ? यतः यादृशं कारणं तादृशं कार्यं ( तज्जा'तीमादेव हेतोस्तज्जातीयं कार्यमुत्पद्यते इति परमार्थः) हेतौ वैशिष्ट्याभाव: स्यात्तदा, कार्येऽपि - वैशिष्ट्याभाव:, यदि सकलकर्मक्षयरूपे कारणे काऽपि विशेषता वर्त्तत, तदा सकलकर्मक्षयजनित- मुक्तिरूपकार्ये भेदः समापतेदेवं नास्त्यतो न भेदः ।
"कारणभेद प्रयुक्त कार्यभेदोऽस्ति कारणभेदाभावे कार्यभेदाभावस्तत्र विषये दृष्टान्तः कथ्यते
88