________________
बबितविस्तरा-सटीका
गताऽसमानताऽनुमीयते प्रमीयते-यतः कार्यं दृष्ट्वा कारणमनुमीयते यथा धूमं दृष्ट्वाऽग्निरनुमीयते, फलं दृष्ट्वा मूलवत् यदि संस्कारसंयोगजन्योत्तरकालीनशुद्धावस्थागताऽसमानताऽस्ति, तहिं पूर्वपूर्वकालीनावस्थायामसमानतायां कः प्रश्न: ? ("न खल्वसमारचितमपि जात्यरत्नं समानमितरेण न च समारचितोऽपि काचादि त्यिरत्नी भवति") तां भेदोपपत्तिमेव भावयति = संस्कारयोगेऽपि 'न हि काचः पद्मरागी भवति' (अपद्मरागः पनरागः सम्पद्यमानस्तथा भवति, 'अभूततद्भा वेकृभ्वस्तियोगे नाम्नश्च्विः ') तत्र हेतुमाह-काचादिस्वभावमपरित्यज्य कान्त्यादिगुणानां वृद्धेरभावात्, काचः, पद्मरागो मणिः संस्कारयोगे सत्यपि न भवति, यतः काचादिः स्वजाति-स्वस्वभावं न त्यजत्यत एवं कान्त्यादिगुणानां प्रकर्षों वृद्धि नं भवति. तथा चाजात्यरत्नकाचादिगतसंस्कारयोगेऽपि कान्त्यादिगुणाचा प्रकर्षाभावे काचादिनतस्वभावजालेरनुल्लडधनमेव हेतु:-काचादेरनुल्लङिधत-अनुच्छिन्न-स्वस्वभावरूपजातिरेव. कारणमस्ति, एवं संस्कारयोगेऽपि जात्यरत्नगतकान्त्यादिगुणानां प्रकर्षसद्भावे, जात्यरत्नगत-स्वस्वभावरूपजातेरनु. ल्लङधनं हेतुरस्ति, परागादिमतानुन्छिन्नस्वस्वभाव एब जाति ज्ञेया। . अशुद्धावस्थायां जात्यरत्न-पद्मरागादौ गुणप्रकर्षभावः प्रच्छन्नोऽस्ति, सति संस्कारे शुद्धावस्थायां जात्यरत्ने गुणानां प्रकर्षः प्रादुर्भवति. एष एव जातिस्वभावः, अशुद्धावस्थायां बजात्यरत्नकाचादी गुणप्रकर्षाऽभावः, प्रत्यक्षः तथा सति संस्कारेऽपि-अजात्यरत्न काचादौ गुणप्रकर्षाऽत्यन्ताभावः, प्रत्यक्ष एव. एष एव जातिस्वभावः, जातिस्वभावोऽनुल्लङघनीयोऽनुच्छेद्यो वर्त्तते इति नियमः, अत एव जातिस्वभाव एवासमानतायाः कारणमस्ति. कस्यामप्यवस्थायां काचमण्यो भैद एवाऽवधारणीयः (परीक्षककरप्राप्तः काचः काचोमणिर्मणिः) -आगमरूप-शब्दवचनप्रामाण्येन भेदसिद्धिःप्रत्येकबुद्धादिवचनप्रामाण्यात्, प्रभेदानुपपत्तेः, न तुल्यभाजनतायां तदभेदो न्याय्य इति, न चात एव मुक्तावपि विशेषः, कृत्स्नकर्मक्षयकार्यत्वास, तस्य चाविशिष्टत्वात् ।
पं०...'प्रत्येकबुद्धादिवचनप्रामाण्यात्' प्रत्येकबुद्धबुद्धबोधितस्वयंबुद्धादीनां प्रथभिन्नस्वरूपाणां बचनानि-निरूपिका ध्वनयस्तेषां प्रामाण्यं-आप्तोपदिष्टत्वेनाभिधेयाव्यिभिचारिमावस्तस्मात्, अस्यैव व्यतिरेकेण समथनार्थमाह-तभेदानुपपत्तेः' इहान्यथाशब्दाध्यारोपाद् अन्यथा तभेदानुपपत्तेरिति योज्यं, तद्भेदानुपपत्तिमेव भावयति-'न' नैव 'तुल्यभाजनतामां' तुल्ययोग्यतायां 'तभेदः' प्रत्येकबुखादिभेदो न्याय्यो' युक्तिसंगतः, 'इति एवं सत्त्वदसिद्धी, मुक्तावपि तद्भेदप्रसंग इति पराशङ्कापरिहारायाह-'न' व 'अत एवं' इह सत्यभेदसिररेव हेतुतो 'मुक्तावपि' मोक्षेऽपि न केवलमिह 'विशेषो' भेदस्तवापि सत्त्वमानभावात्, कुत. इत्याह-कृत्स्नकर्वक्षयकार्यत्वात' ज्ञानावरणादिनिखिलकर्मक्षयानन्सरभावित्वान्मुक्तेः, एवमपि किमित्याह-'तस्य च' कृत्स्वकर्मक्षयस्य 'अविशिष्टत्वात्' सर्वमुक्तानामेकादशत्वात्, तदेवार्थान्तरदर्शनेन भावयति
87