________________
ललितविस्तरा-सटीका
शेन स्वयं-आत्मनब सम्यग्बरबोधिप्राप्त्या बुद्धा मिथ्यात्वनिद्रापगमसम्बोधेन स्वयंसम्बद्धाः, न वै कम्मणो योग्यताऽमावे तत्र क्रिया क्रिया, स्वफलाप्रसाधकत्वात, अश्वमापादौ शिक्षापक्त्याचपेक्षया ।
पं०...'स्वयोग्यताप्राधान्यात्' स्वयोग्यताप्रकर्षों हि भगवतां प्रथमबोधे प्रधानो हेतुः, लूयते केदारः स्वयमेवेत्यादाविव केदारादेल्लंबतो, 'न वै इत्यादि' न वै-नैव कर्मणः-क्रियाविषयस्य कम्मकारकस्येत्यर्थों 'योग्यताऽभावे' क्रिया प्रति विषयतया परिणतिस्वभावाभ वे 'तत्र' कर्मणि "क्रिया' सदाशिवानुग्रहादिका क्रिया भवति, किन्तु ? क्रियाभासैव, कुत इत्याह-'स्वफलाप्रसाधकत्वाद्' अभिलषितबोधादिफलाप्रसाधकत्वाद्
| इत्याह-प्रयासमानत्वात क्रियायाः, कथमेतत्सिवमित्याबश्वमाषादी' कम्मणि, 'आदिशब्दात कासादिपरिग्रहः, 'शिक्षापक्तयाबपेक्षया' शिक्षा पक्तिमादिशब्दाल्लाक्षारागादि वाऽपेक्ष्य । ... टी...प्रथमसम्बोधि प्रति अर्थात् वरबोधि प्रति भगवता स्क्योग्यताप्रकर्ष उत्कृष्टकोटिकयोग्यताया वशेन वर (तीर्थकरपददायकत्वेन तथाविधोत्कृष्ट) बोधिलाभो भवति-प्रथमसम्बोधि:स्वयं आत्मना कारणेन जन्यतेऽत उत्तमः-सर्वप्रथमो बोधो ज्ञेयः । लूयते केदारः स्वयमेवेश्यन-अतिसूकरत्वेन कर्तव्यापारस्याविवक्षणमिवाप्रयासेन तत्त्वदर्शिभवनतया बोधदातव्यापारस्य स्वल्पत्वात स्वयंसम्बुद्धाः, ("क्रियमाणं तु यत्कर्म स्वयमेव प्रसिद्धयति । सुकरैः स्वैगुणे यस्मात् कर्मकर्तेति तद्विदुः" .(व्या.का.) यत्कर्माऽपि गुणयोगाद-वस्तुमध्यस्थितसुकरत्वादियादवाद-गणस्य संयोगात् कत्त खेन । विवक्ष्यते स कर्मकर्तेत्युच्यते 'कर्मवत् कर्मणा तुल्यक्रियः' कर्मस्था या क्रिया तया क्रियया तुल्यक्रियः कर्ता कर्मवद् भवति-कर्मणः कर्तृत्वेन विवक्षायां कर्ता- कर्मवत् स्यादिति यावत्, (अत्र कतुरभिहितत्वात् प्रथमा) 'यदा सौकर्यातिशयं द्योतयितु कत्तुं व्यापारो न विवक्ष्यते तदा कारकान्तराण्यपि कत्तुं संज्ञां लभन्ते, स्वव्यापारे स्वतंत्रत्वात्' यदा सौकर्यातिशयविवक्षया कत्तुं: पुरुषस्य व्यापार: प्रयत्नो न विवक्ष्यते किन्तु कर्मादिगत एव व्यापारो विक्लित्यादिफलानुकूलत्वेन विवक्ष्यते तदा कर्मादिकारकाण्यपि कर्तृ संज्ञां लभन्ते इत्यर्थः). तथा च स्वयोग्यताप्राधान्यात् प्रथमसम्बोधि प्रतीत्य स्वयंसम्बुद्धा भगवन्तस्तथा लोक्यस्याधिपत्यस्य कारणस्य, अचिन्त्यप्रभावकतीर्थकरनामकर्मणो योगे चापरोपदेशेन-परोपदेशं विना, अप्रथमसम्बोधिं (केवल ज्ञानवर्धनादिसम्बोधि) प्रतीत्य स्वयंसम्बुद्धा अर्थात् स्वयं-आत्मनव सम्यगवरबोधिप्राप्त्या बुद्धा मिथ्यात्वनिद्राप्रबम (क्षय) सम्बोधेन स्वयंसम्बुद्धाः, (प्रधानमतस्वयोग्यताजन्यप्रथमसम्बोधाऽभिन्न-स्वयोग्यताप्रकर्षजन्यत्रैलोक्याऽधिपत्यकारणभूताचिन्त्यप्रभावकतीर्थकरनामकर्मयोगरूपसम्बन्धोत्तरकालीन-स्वयमात्मना-परोपदेशनिमित्तनिरपेक्षतया सम्यग्वरबोधिप्राप्तिकरणकमिथ्यात्वरूपभावनिद्राया अपगम-क्षयरूपसम्बोधाभिन्नस्वयंबोधशालिनः स्वयंसम्बुद्धा भगवन्तो भवन्ति.) अर्थान्महेशकृताऽनुग्रह-निरपेक्ष-स्वतंत्र विशिष्ट-स्वत उज्जागररूपतुर्यदशा-परमज्योतीरूपाः स्वयंसम्बुद्धा भगवन्तः सदा जयन्ति ।
78