________________
ललितविस्तरा - सटीका
ग्रहजन्यबोधादिमन्त एवं' इति मन्यन्ते, यतो विषमेऽस्मिन् सदाशिववादिनामागम वचोऽस्ति. "महेशातून हाद् बोधनियम" इति नथवा 'बोधनियमादिति पाठे तादृशबोधस्य नियमोऽस्ति, अर्थाद् यो यस्तादृशबोधो भवति स सोऽवश्यं महेशकृतानुग्रहकारणजन्योऽस्ति इति नियमोऽक्ष शेष:, (बोधनिष्ठव्याप्यता (कार्यता ) निरूपितव्यापकता ( कारणता ) महेशकृताऽनुग्रहे वर्त्तते इत्येवं बोध्यम्.) इत्येवमेकान्तवादिनां मतनिरसनायाह 'स्वयं सम्बुद्धेभ्यः' कस्यचिदप्यनुग्रहं विना स्वयोग्यताऽपेक्षया तथा तीर्थंकरनामकर्मयोगेन स्वयंसम्बोधि प्राप्तेभ्यः 'स्वयं सम्बुद्धेभ्योऽर्हद्द्भ्यो भगवद्भ्यो नमः' प्रथमद्वितीयस्वयं सम्बोधिसिद्धिः =
'तथेत्यादि' तथा तेन प्रकारेण प्रतिविशिष्टं भव्यत्वमेव तथा भव्यत्वं ( सर्वेत र भव्यत्वेभ्यो विलक्षणरूपं ) भव्यत्वं नाम सिद्धिगमनयोग्यत्वमनादि - पारिणामिको भावः - आत्मसतत्त्वमेव, तथाभव्यत्वं तु भव्यत्वमेव' कालादिभेदेनात्मनां बीजसिद्धिभावान्नानारूपतामापन्नम्, 'तथा मुक्तत्वप्रयोजिका सामान्यतोऽभव्यव्यावृत्ता जातिभव्यस्वमिति गीयते, प्रत्यात्मतथा तथापरिणामितया समुपात्तविशेषात् - तथा भव्यत्वमिति सिद्धम्,
आदिशब्दात्-तथाभव्यत्वतोऽन्यकाल नियतिपूर्वं कर्म पुरुषादिसहकारिकारणपरिग्रहः, तेषां तथाभव्यत्वादीनां सामग्री-संहतिः, (कार्यायोयव्यवच्छिन्नः कारणसमुदायः सामग्री, अन दण्डचक्रादिन्यायेन समुदित-मिलित तथा व्यत्वादि सामग्री, तस्याः प्रथमसम्बीधि प्रति कारणता ज्ञेया, (सामग्री व कार्य'जनिका) समुदाय विनैकेन केनापि कारणेन न कार्यं भवतीति ज्ञेयम्, स्वभावकालनियतिपूर्वपुण्यकर्मपुरुषार्थपुरुषादिः स च सहकारि-कारणं ज्ञेयम् . ) यस्था यः परिपाकः - विपाकः - अव्याहता स्वकार्य-करणशक्तिः, तस्मात् (स्वकार्योत्पादं प्रत्याभिमुख्यं परिपाकः तस्मात् ) 'प्रथमसम्बोधेऽपि ' प्रथम सम्यक्त्वादिनाभेऽपि ( एवं च सम्यक्त्वस्योत्पत्ती पारमार्थिक कारणं तत्तदात्मनिष्ठतथाभव्यत्वरूपाऽनादिपारिणामिक-स्वभावविशेषोऽस्ति यतो येन तत्तद्विवक्षितक्षेत्रे तत्तद्विवक्षितकाले तत्तत्प्रतिनियतार्हद्भगवतां बिम्बपूजादिदर्शनादिसहकारि कारणद्वारा सम्यक्त्वलाभो भवति, केषाचित्तु तथाविधाद्भगवतां बिम्बस्य पूजादर्शनादिनिमित्तं विनाऽपि सम्यक्त्वलाभो भवति, तथाभव्यत्वमेतत्साध्यव्याधिसमानमस्ति, यथा कश्चिदेकः साध्यव्याधिः स्वयमेव शाम्यति, तथैतत्तथाभव्यस्वमपि किञ्चित्तु स्वयमेव परिपच्यते, येनाहंदादि - बिम्बस्य पूजादर्शनादिबाह्यालम्बनं विनाऽऽत्मनि सम्यक्त्वादिः समुत्पद्यते, किञ्चित्तथाभव्यत्वं, भर्हदादि - बिम्बस्य पूजादर्शनादि, विशिष्टतपोलक्ष्मीभूषितमुनींनां दर्शनं तथा जिनवचनश्रवणनिमित्तमपेक्ष्य परिपाकपूर्वकं सम्यक्त्वादि जयतेऽथवा चिरकालेन बिना निमित्तं निसर्गतो जायते इति . ) किं पुनस्तीर्थंकरभवप्राप्ताचपरोपदेशेनाप्रथम - सम्बोध इत्यपि शब्दार्थः, स्वयंसम्बुद्धा इति योगः ॥
स्वयोग्यताप्राधान्यात्, त्रैलोक्याधिपत्यकारणाचिन्त्यप्रभावतीर्थ करनामकर्म्मयोगे चापरोपदे
77.