SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ललितविस्तरा - सटीका मिव्यापारद्वारा व्यापारवद् दण्डस्य नान्यथा सिद्धिः, यथा घटं प्रति दण्डः कारणमस्ति परन्तु साक्षान्नहि परन्तु भ्रमिव्यापारद्वारा तथा जीवकल्याणं प्रति अर्हन्तोभगवन्तः कारणमस्ति साक्षान्नहि परन्तु जीवनिष्ठस्वपरिणामव्यापारजननद्वारेव तथाऽर्हन्तो भगवन्तः स्वात्मपरिणामं जनयित्वा जीवकल्याणं कुर्वन्त्येव, अर्हद्भगवत्कारणेन जनितस्वात्मपरिणामः जीवनिष्ठमहाकल्याणकार्यजनकोऽस्ति यतो जीवनिष्ठस्वपरिणामो व्यापारोऽस्ति यत्र व्यापारिणः प्रमाणबोधितकारणतानिवहाय व्यापारस्य कारणत्वं कल्प्यते तत्रैव व्यापारेण व्यापारिणो नाऽन्यथासिद्धत्वम्.) अथवा परम्परया - अनुबन्धेन - अविच्छिन्नधारया, स्वतीर्थानुवृत्तिकालं तीर्थंकर - तीर्थस्यानुवृत्ति - ( अधिकार-शासन गतिप्रगति ) - कालं यावत् सुदेवत्वसुमानुषत्वादिकल्याणला भलक्षणया परम्परया वाऽनुग्रहकरास्तीर्थंकरा इति. तीर्थंकरत्वसिद्विः ४ । तथा च 'तीर्थंकरेभ्योऽर्हद्भ्यो भगवद्भ्यो नमोऽस्तु' इति शक्रस्तवघटित 'तीर्थकरेभ्यः' रूपचतुर्थपदस्य व्याख्यानं द्वितीयसम्पद्वृत्तिद्वितीयपदस्य व्याख्यानं समाप्तम् । अथ शास्त्रकारो द्वितीयसम्पदः 'स्वयं संबुद्धरूपस्य तृतीयपदस्यावतरणिकया सह व्याख्यानं विधत्ते. एतेऽप्यप्रत्ययानुग्रहबोधतन्त्रः सदाशिववादिभिस्तदनुग्रहबोधवन्तोऽभ्युपगम्यन्ते 'महेशानुग्र'हाद् बोधनियमा' विति वचनात् एतद्वयपोहायाह- "स्वयंसम्बुद्धेभ्यः” तथाभव्यत्वादिसामग्रीपरिपाकतः प्रथमसम्बोधेऽपि, पं०...'अप्रत्ययानुग्रहबोधतन्त्रैरिति' अप्रत्ययो - हेतु निरपेक्षात्मलाभत्वेन महेशस्तस्यानुग्रहो-बोधयोग्य स्वरूप सम्पादन लक्षण उपकारस्तेन बोधः - सदसत्प्रवृत्तिनिवृत्तिहेतुर्ज्ञान विशेषस्तत्प्रधानस्तन्त्रः- आगमो येषां ते ' तथा तै: 'सदाशिववादिभिः ईश्वरकारणिकैः, तन्त्रमेव दर्शयति- ' महेशानुग्रहाद्द्बोधनियमाविति' उक्तरूपो बोधो नियमश्च - सदसदाचारप्रवृत्तिनिवृत्तिलक्षणः, बोधनियमादिति तु पाठे बोधस्य नियम:- प्रतिनियतत्वं तस्मात् । 'तथेत्यादि' तथा-जेन प्रकारेण प्रतिविशिष्टं भव्यत्वमेव तथाभव्यत्वं, भादिशब्दात् तदन्यकालादिस हाकारिकारणपरिग्रहः, तेषां सामग्री -संहतिः तस्या यः परिपाको विपाकः, अव्याहता स्वकार्यकरणशक्तिस्तस्मात् 'प्रथमसम्बोधेऽपि' प्रथमसम्यक्त्वादिलाभेऽपि किं पुनस्तीर्थकर भवप्राप्तावपरोपदेशेनाप्रयमसम्बोध इत्यपिशब्दार्थः, स्वयंसंबुद्धा इति योगः । कुत इत्याह टी.... एतेऽपि - पूर्वोक्तविशेषणविशिष्टा अर्हन्तो भगवन्तः, अप्रत्ययो नाम हेतु निमित्तरूपानुग्राह्यापेक्षां विनाऽऽत्मलाभरूपबोधादिकारकत्वेन महेशस्तत्कृतोऽनुग्रहः -पूर्व अनुग्राह्ये बोधस्य योग्यतां सम्पादयति, ततः सदसत्प्रवृत्तिनिवृत्तिहेतुभूत - ज्ञानविशेषबोधं जनयति ततः सदसत्प्रवृत्तिनिवृत्तिरूपं नियमं सम्पादयति तथा च तादृशबोधनियमरूपकार्यं प्रति महेशकृततादृशानुग्रह उपकारः - कारणम्, तादृशकार्यकारणप्रधानागमानुयायिसदाशिववादिनः, बोधादावीश्वर एव कारणमिति मन्यमाना 'ईश्वरकारणिका: ' उच्यन्ते, पूर्वोक्तविशेषणविशिष्टा 'अहंन्तो भगवन्तस्तीर्थकराः महेशकृतानु 76
SR No.022497
Book TitleLalit Vistarakhya Chaitya Stavvrutti
Original Sutra AuthorN/A
AuthorBhadrankarsuri, Vikramsenvijay
PublisherBhuvan Bhandrankar Sahitya Prachar Kendra
Publication Year1991
Total Pages550
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy