________________
ललित विस्तरा - सटीका
त्मागमवन्त एव शास्त्रार्थप्रणेतारो भवन्ति, नाऽन्ये, एष शास्त्रार्थरूप आगमो नाकेवलिप्रणीतोऽस्ति यतश्चहठ छद्मस्थप्रणयने व्यभिचार- विसंवाद- पूर्वापरविरोधस्य सम्भवोऽस्ति. (अर्थापेक्षया श्रीतीर्थंकरभगवतो ज्ञानं 'आत्मागमः' कथ्यते, श्रीतीर्थंकरसकाशात् - अनन्त ररूपेण प्राप्तं श्रीगणधराणां ज्ञानं 'अनन्तरागमः तदनन्तरं शिष्यप्रशिष्यरूपगुरुपर्व परूपरम्परयोत्तरोत्तरमागच्छदाचार्यादिकस्य ज्ञानं 'परम्परागमः कथ्यते परन्तु सूत्रापेक्षया गणधर ज्ञानं 'आत्मागमः' तस्य शिष्यस्य ज्ञानं 'अनन्तरागमः ' तस्य प्रशिष्यस्य ज्ञानं 'परम्परागम:' इत्यनुयोगद्वारे) अनंत रार्थाऽऽगमवन्तो गणधराः, परम्परार्थागमवन्तो गणधर शिष्याः त्रिपदीरूपशास्त्रार्थप्रणयनं कर्त्तुमशक्ता एव, पारिशेष्यात्, केवलितीर्थंकरा भगवन्त एव धर्मतीर्थ प्रवर्तकाः, किञ्चैष वचनरचनारूपः शास्त्रार्थः, अपौरुषेयो नास्ति, परन्तु परमपुरुषक कोsस्ति, अपौरुषेयवचनस्य खंडनं पुरस्तात् भविष्यति (या या वचोरचनाऽस्ति सा सा कुमारसंभवादिवत् कालीदासांदिपुरुषकर्तुं का दृश्यते, एवं वचोरचनारूपागमोऽस्ति, सोऽपि केनचित् परमज्ञानिपुरुषेण कृतोऽस्ति, ततस्तात्वादिव्यापारवत् पुरुषस्य वचोरूप आगम: 'अपौरुषेयः' इति कथनमयुक्तमेव. 'तात्वादिजन्मा ननु वर्णवर्गो, वर्णाऽऽत्मको वेद इति स्फुटं च । पुंसश्च तात्वादि रतः कथं स्यादपौरुषेयोऽयमिति प्रतीतिः ॥ )
-योग्ये जीव धर्मस्यावतारकारकत्वरूपाऽपेक्षया, परम्परा ( कारणस्य कारणेन - व्यवधानेन ) अनुग्रह - उपकारकरास्तोर्थंकरा भवन्ति.
कया रीत्या परम्परयाऽनुग्रहकरा भवन्ति ? इत्याह, कल्याणस्य योग्यतारूपं लक्षणं यस्य सः = कल्याणयोग्यतालक्षणो हि जीवानां स्वपरिणाम: - स्वभाव एव क्षायोपशमिकादिः ( क्षायोपशमिकोपशमिक क्षायिकादिः) अनंतरमव्यवहितत्वेनानुग्रह - उपकारहेतुः तद्धेतुतया च (स्वपरिणामरूपहेतोहेतुतया ) व्यवहितत्वेन - कारणकारणत्वेन - परम्परया च भगवन्तोऽनुग्रहकरा भवन्ति न साक्षात्, इदमत हृदयम् - जीवनिष्ठ कल्याणयोग्यतालक्षणक्षायोपशमिकादि - स्वपरिणाम एवोत्कृष्ट कल्याणरूपकार्य, प्रति अव्यवहित कारणमस्ति, स्वपरिणामहेतु प्रति अर्हन्तो भगवन्तः कारणमस्ति तस्मात्कारणात् जीवानामुत्कृष्ट कल्याणं प्रति, अर्हन्तोभगवन्तः परम्परा - व्यवहितकारणमस्ति अर्थादर्हतो भगवतो निमित्तकारणभूतान् विहाय स्वपरिणामः - क्षायोपशमिकादिभावो न भवति. स्वपरिणामं विना जीवानां कल्याणं न भवतीति.
(तीर्थंकरपदं परोपकारि- उत्कृष्ट कल्याणकारि तथाहि तीर्थंकरोपदेशेन मोहतमो विनश्यति, सूक्ष्मा अतीन्द्रियाः पदार्थाः शीघ्रं ज्ञायन्ते, श्रद्धामृतास्वादो भवति, वचनादरस्ततोऽनर्थंनाशः सुखोद्गमः, परोपकारेण विशेषसुखं, एवमुत्तरोत्तर विशेषसुख संप्राप्त्याऽन्ते मोक्षो - महोदयो भवति. )
भव्य जीवनिष्ठधर्मप्रवृत्तिं वोत्कृष्टमहाकल्याणं प्रति कल्याणयोग्यतारूपक्षायोपशमिकादिरूपस्वपरिणामजननद्वारा, अर्हन्तों भगवन्त उपकारकारकं कारणं भवति. (व्यापारेण व्यापारिणो नाऽन्यथा सिद्धिः,
75