________________
नमितविस्तरा-सटीका
शास्त्रार्थप्रणयनान्मुक्तकैवल्ये तदसम्भवेनागमानुपपत्तेः, भव्यजनधर्मप्रवर्तकत्वेन परम्परानुग्रहकरास्तीर्थकरा इति तीर्थकरत्वसिद्धिः ४ ॥ - पं०...'शास्त्रार्थप्रणयनात्' शास्त्रार्थस्य-मातृकापदनयलक्षणस्य प्रणयनाद्-उपदेशनात्, तीर्थकरा इति वक्ष्यमाणेन सम्बन्धः, विपक्षे बाधकमाह-'मुक्तकैवल्ये' अपवर्गलक्षणे 'तदसम्भवेन' शास्त्रार्थप्रणयनाघटनेनाशरीरतया प्रणयनहेतुमुखाद्यभावाद् "आगमानुपपत्तेः" आगमस्य-परैरपि प्रतिपन्नस्यानुपपत्ते:-अयोगात, नत्वसावकेवलिप्रणीतो, व्यभिचारसम्भवात, नाप्यपौरुषेयस्तस्य निषेत्स्यमानत्वात, कीदृशाः सन्त इत्याह'भव्यजनधर्मप्रवर्तकत्वेन' योग्यजीवधर्मावतारकत्वेन 'परम्परानुग्रहकराः' परम्परया-व्यवधानेनानुग्रहकराउपकारकराः, कल्याणयोग्यतालक्षणो हि जीवानां स्वपरिणाम एव क्षायोपमिकादिरनन्तरमनुग्रहहेतुः तदेततया च भगवन्तोऽथवा परम्परया-अनुबन्धेन स्वतीर्थानुवृत्तिकालं यावत् सुदेवत्वसुमानुषत्वादिकल्याणलाभलक्षणया वाऽनुग्रहकरा इति ॥
_____टी०...यथाऽऽदित्यः स्वभावतया पृथ्वीपटे प्रकाशं विस्तारयति तथा तीर्थंकरो भगवान्, सति घातिकर्मक्षये केवल ज्ञानयोगेन तीर्थकरनामकर्मणो रसोदयेन तीर्थकरणस्वभावतया 'उवण्णेइ वा विगमेइ वा धुवेइ वेत्येतद्रूपमातृकापदनयलक्षण-त्रिपदीरूपशास्त्रार्थं प्रणयति, (भगवान् स्थापयति तीर्थमर्थाद् गणधरभगवन्तः श्री जिनेश्वरदेवमेकां प्रदक्षिणां दत्त्वा तारकं च नमस्कृत्य पच्छन्ति भदन्त ! किं तत्त्वं ? इति प्रथमप्रश्नस्य प्रत्युत्तरे, भगवान् कथयति. 'उत्पद्यते' वेत्त्युत्तरद्वारा भगवान् द्रव्यनिष्ठपर्यायस्योत्पादसिद्धान्तं दर्भयति, गणधरभगवन्तः परमात्मना दत्तमुत्तरं श्रुत्वा परामशन्ति, परामर्शाऽनन्तरमधिकपृच्छाया आवश्यकत्वमस्ति ततो भगवन्तं पुनः प्रदक्षिणां दत्त्वा पृच्छन्ति, भदन्त ! किं तत्त्वं ? अथ द्वितीयप्रश्नस्योत्तर परमात्मा ज्ञापयति यथा 'विगमयती' त्युत्तर-द्वारा पदार्थ निष्ठपर्यायस्य विगमस्वभावरूपसिद्धान्तं व्यञ्जयति, परमात्मदत्त-प्रत्युत्तरं श्रुत्वा गणधरदेवाः सम्यग् विचारयन्ति. पूर्णविचारणानन्तरं सम्पूर्णतत्त्वजिज्ञासापूर्त्यर्थं, अद्यापि पृच्छाया आवश्यकताऽस्ति, केवलं पदार्था उत्पद्यन्त इति किं युक्तं भवेत् ? उत्पादानन्तरं विनष्टा भवेयुरिति किं युक्तं भवेत् ? एतस्मात् कारणाद्गणधरा भगवन्तः पुनः परमात्मानं तृतीयां प्रदक्षिणां दत्त्वा पृच्छन्ति-भदन्त ! किं तत्त्वं ? गणधरैः पृष्टं तृतीयसमये प्रश्न प्रत्युत्तरयति परमात्मा यद् 'ध्रुवति' वेति प्रत्युत्तरद्वारा परमात्मा प्रज्ञापयति 'द्रव्यनिष्ठध्रौव्य-ध्रुवतास्वभावसिद्धान्त' इत्येततृतीयमुत्तरं भगवतः श्रीमुखतः श्रुत्वाऽनन्तरं गणधरैः 'उत्पादव्ययध्रौव्य युक्तं तत्त्वं (सत्) इति पूर्णतया तत्त्वरूपं ज्ञातमेव. गणधरकृता प्रश्नत्रयी' 'निषद्यात्रयी' जैनशासने प्रख्याताऽस्ति, भगवद्दत्तप्रत्युत्तरत्नयी 'त्रिपदी' तिरु पेण प्रख्याताऽस्ति.) उपदेशदानरूपप्रणयनद्वारा तीर्थकरणशीलास्तीथंकरा भवन्ति,यदि केवल ज्ञानाऽनन्तरमव्यवहितत्वेनार्हन्तो भगवन्तो मुक्ता भवन्तीति मते मुक्तकैवल्ये अर्थाद्, मुक्ती त्रिपदीरूप शास्त्रार्थप्रणयनरूप रचनाया असम्भवोऽस्ति यतो मुक्ताः-सिद्धा अशरीरिण एवातो वचनरचनारूपप्रणयनहेतुभूतशरीरावयवरूपमुखादेरभावो वर्ततेऽत आगमस्याभावोऽस्ति, अर्थादर्थरूपा
. 74