________________
मालितविस्तरा-सटीका
दुष्टश्वापदं, रागद्वेषनामकपवनेन विक्षोभितं, संयोमवियोगनामकवीची भिमहातरङमैयुक्तं, अत्यन्तबलवती-मनोरथ-संकल्पविकल्पजन्यमनोराज्यनामिका या वेला-जलवृद्धिस्तयाऽऽकुलं, अत्यन्तदीर्घ संसारनामकं सागरं तरन्ति तत्तीर्थम् (तीर्थस्य व्युत्पत्तिलभ्योऽर्थो ज्ञेय एषः) अथ प्रवृत्तिनिमित्तभूतमर्थ तीर्थस्य दर्शयति (प्रवृत्तिनिमित्तम्-पदशक्यताऽवच्छेदकम् । यथा घटत्वं घटपदस्य प्रवृत्तिनिमित्तम् । एवं शुक्लादिपदस्य शुक्लत्वं । पाचकादेः पाकः, देवदत्तादेस्तत्तत्-पिण्डादि, प्रवृत्ति-निमितं भवति, प्रवृत्तिनिमित्तशब्दस्य व्युत्पत्तिः-शब्दानामर्थबोधनशक्तेः निमित्तं प्रयोजकमिति । तच्च शक्यताऽवच्छेदकं भवतीति ज्ञेयम् । तल्लक्षणं च प्रकारतया शक्तिग्रह-विषयत्वम् (चि.) अथवा वाच्यत्वे सति वाच्यवृत्तित्वे सति वाच्योपस्थितिप्रकारत्वमिति । (म.शक्ति.) एतच्च तीर्थ यथार्थसमस्तजीवादि (आदिपदेनाजीवादि) पदार्थ-वस्तुतत्त्वप्ररूपकं, सर्वथा निरवद्यान्याविज्ञात-(अन्यः कपिलादिभिरज्ञात)-चरणकरणनामकक्रियाया आधारं (सकलपदार्थविषयकप्ररूपणा, सर्वथा निरवद्यपराविज्ञातचरणकरणरूपविशिष्टक्रिया च विना तीर्थमशक्यवेति.) भुवनत्रयवत्तिनः, शुद्धधर्मसम्पत्-समन्विता महासत्त्वा एवैतस्य तीर्थस्याश्रयः कथ्यते. धर्मस्याधारमिवत्, न धर्मो धार्मिकैविनेत्यादि वाक्यानि धर्मधर्मिणोरभेदादिति. स्मरणीयान्यन, घृतपानं विना घृतं न तिष्ठतीतिवत् धर्मरूपाधेयम्, धर्मिरूपाधारं विना कथं तिष्ठेत् ? इति.. कल्पनातीत-शक्तिसमन्वितमत एवाविसंवादि (पूर्वापरविरोधरूपविसंवादरहितं) परमबोहित्थपरमप्रवहणसमानं प्रवचनं सम्घो वा, निराधारस्य प्रवचनस्याऽसम्भवाद्, उक्तं च-"तीर्थं च श्रुतं संसारसागरोत्तरणाऽसाधारणकारणत्वात्, तदाधारत्वेन च सङघस्य तीर्थशब्दाऽभिधेयत्वात्, भ.२ श. ८ उ. टीकायां-तीर्थप्रस्तावादिदमाह-'तित्थं भंते' इत्यादि, 'तीर्थ' सङघरूपं, भदन्त ! 'तित्थं' ति तीर्थशब्दवाच्यमुत तीर्थकरः 'तीर्थ' तीर्थशब्दवाच्यम् ? इति प्रश्नः, अत्रोत्तरं-'अर्हन्'-तीर्थकरस्तावत् तीर्थङकरः तीर्थप्रवर्तयिता, न तु तीर्थ, तीर्थं पुनः 'चाउवण्णाइन्ने समणसंघेति' चत्वारो वर्णा यन्त्र स धतुर्वर्णः, सचासावाकीर्णश्च क्षमादिगुणे याप्तश्चतुर्वर्णाकीर्णः क्वचित् 'चाउवण्णो समणसंघ' ति पठयते, तच्च व्यक्तमेव, प्रकर्षणोच्यतेऽभिधेयमनेनेति प्रवचनं द्वादशाङगीरूपागमः." ततश्चैतदुक्तं भवति-ज्ञानावरणदर्शनावरणमोहनीयान्तरायरूपाणि ज्ञानादिघातकत्वेन घातीनि पौद्गलिकादृष्टरूपाणि चतुष्टयकर्माणि तेषां प्रलये, (अतः (पुण्यानुबंधिपुण्यस्य) पुरुषसम्प्राप्ताद्विज्ञेयं फलमुत्तमं । तीर्थकृत्त्वं सदौचित्या प्रवृत्त्या मोक्षसाधकम् ॥१०॥ ह.पं. अष्टके, यदुदयाज्जीवः सदेवमनुजासुरपूज्यमुत्तमोत्तमं परममुनिप्रणीतधर्म-तीर्थस्य प्रवर्तयितृपदमवाप्नोति तत्तीर्थकरनामकर्मेत्यर्थः' क.प्र.टी. गा. ४६) केवल ज्ञानप्राप्त्यनन्तरं तीर्थकरनामकर्मणो रसोदयरूपहेतुद्वारा तीर्थकरत्वं !, आदित्यादिप्रकाशदृष्टान्तः = यथा भास्करः स्वस्वभावत एव लोकं प्रकाशयति, एवं तीर्थकरप्रभुः तीर्थस्य प्रवर्तनमुद्दिश्य प्रवर्तते, आदिशब्दद्वारा चन्द्रकांतसूर्यकांतादिप्रकाशकमण्यादि-कस्य ग्रहणं कर्त्तव्यम् ।
73