________________
ललितविस्तरा - सटीका
स्याभावोऽस्ति, एवं वेदवादिनामागमधार्मिकाणां मतं प्रतिपादकवचनमस्ति इति वेदवादिनां मतनिरासनद्वारा 'एषां अर्हतां भगवतामादिकराणां तीर्थंकरत्वप्रतिपादनायाह-:
'तीर्थकरेभ्यः' इति, तत्र तीर्थकरणशीलाः तीर्थकरा:, अचिन्त्यप्रभावसहापुण्यसंज्ञिततन्नामकर्म्मविपाकतः, तस्यान्यथा वेदनायोगात्, तत्र येनेह जीवा जन्मजरामरणसलिलं, मिथ्यादर्शनाविरतिगम्भीरं महाभीषणकषायपातालं सुदुर्लङघ्यमोहावत्तंरौद्रं विचित्रदुः लौकुष्टश्वापदं रागद्वेषपवनविक्षोभितं संयोगवियोगबीचीयुक्तं प्रबलमनोरथ वेलाकुलं सुदीघं संसारसागरं तरन्ति तत्तीर्थमिति, एतच्च यथावस्थितसकलजीवादिपदार्थप्ररूपकं अत्यन्तानवधान्याविज्ञातचरणकरणक्रियाऽऽधारं त्रैलोक्यगतशुद्ध धर्मसम्पद्युक्तमहासत्वाश्रयं अचिन्त्यशक्ति, समन्विता विसंवादिपरमबोहित्थकत्वं प्रवचनं सङघो वा, निराधारस्य प्रवचनस्यासम्भवाद्, उक्तं च- "तित्यं भंते! तित्थं ? तित्थगरे तित्थं ? गोयमा ! अरहा ताव नियमा तित्थंकरे, तित्यं पुण चाउव्वण्णो समणसंधी" ततश्चैतदुक्तं भवति -घातिकम्मंक्षये ज्ञानकैवल्ययोगात्तीर्थ करनामकंम्मदयतस्तत्स्वभावतया आदित्यादिप्रकाश निदर्शनतः,
पं०... महाभीषणकषायपातालमिति पातालप्रतिष्ठितत्वात् तद्वद्गम्मीरत्वाच्च पातालानि, योजनलक्षप्रमाणाश्चत्वारो महाकलशा:, यथोक्तम् = गणनउई उ सहस्सा ओगाहित्ता चउद्दिसि लवणं । वज्रोसिजरठाणसंठिया होंति पायाला ॥१॥ ततो महाभीषणाः कषाया एव पातालानि यत्र स तथा तत्, 'त्रैलोक्यगतशुद्धधर्मसम्पद्युक्तमहासत्त्वाश्रयमिति' त्रैलोक्यगता भुवनत्रयवत्तिनः शुद्धया- निर्दोषया धर्मसम्पदा - सम्यक्त्वादिरूपया समन्विता - युक्ता महासत्त्वा उत्तमप्राणिनः आश्रय- आधारों यस्य तत्तथा, 'घातिकर्मेत्यादि' घातिकर्मक्षयेशांनावरणाद्यदृष्टचतुष्टयप्रलये 'ज्ञानकैवल्ययोगात्' ज्ञानकैवल्यस्य केवलज्ञानदर्शन लक्षणस्य च संबंधं प्राप्य 'तीर्थंकरनामकर्मोदयात्' तीर्थंकरन । म्नः कर्मणो विपाकाद्ध ेतोः 'तत्स्वभावतया' तीर्थंकरणस्वाभाब्येन, कथमित्याह'आदित्यादिप्रकाश निदर्शनतः' इति, - 'तत्स्वाभाव्यादेव प्रकाशयतिभास्करो यथा लोकम् । तीर्थप्रवर्तनाय प्रवर्तते तीर्थंकर एवम् ||१|| ' ( तत्त्वार्थ. भा. कारिका ६) आदिशब्दाच्चन्द्र मण्यादिनिदर्शनग्रहः किमित्याह -
टी०... तीर्थकरेभ्यः = तीर्थंकरा इत्युक्ते कोऽर्थः ? इति प्रश्ने, कथयति तत्र शक्रस्तवे तीर्थंकरणशीलास्तीर्थ कराः, कस्मात् कारणात् तीर्थकरणशीलास्तीर्थकरा, तद् हेतु कथयति - कल्पनातीतमाहात्म्य वन्महापुण्यापरनामकतीर्थ करना मकर्मणो विपाकोदयतस्तीर्थं करणशीलास्तीर्थं कराः, तीर्थकरणं विनाऽन्यप्रकारेण तीर्थकरनामकर्मणो वेदनस्यानुभवस्याभावो भवति. तीर्थकरणाविनाभावि तीर्थंकरकर्म वेदनं भवति, तीर्थंकरपदघटकतीर्थं व्युत्पादयति येन-तीर्थेन, इह - मनुष्यजगति, जीवा जन्मजरामरणनामक जलसमूहपूर्ण, मिथ्यादर्शनाविरतिभ्यां गम्भीरं- अगाधं, 'महामोषणकषायपातालं इति' कषायनामक - महाभयङक विशिष्टपरिभाषित - महाप्रमाणपाताल - महाकलशविशिष्टं, अतिशयेन दुःखेन लङध्य = सुदुर्लंङध्यमोहनामकावर्त्तेन रौद्रं भयंकरं विचितनानाविधदुःखजालरूप
72