________________
ललितविस्तरा-सटीका
( " सम्बन्धो हि सम्बन्धिद्वयभिन्नत्वे सति द्विष्ठत्वे सति आश्रयतया विशिष्टबुद्धिनियामकः " इत्यभि युक्तव्यवहारात् यथा घटवद्भूतलमित्यादौ संयोगरूपः संबंध: संबंधिभ्यां भिन्नो द्विष्ठो घटनिरूपितसंयोगाश्रयो भूतलमिति विशिष्टबुद्धिनियामकस्तथाऽत्रापि 'कर्मवानात्मा' यथोक्तचेष्टारूपसंयोगसंबंधः, सम्बन्धिभ्यां भिन्नो द्विष्ठो ( कर्मात्मोभयनिष्ठः) कर्मनिरूपितयथोक्तचेष्टारूपसंयोगसम्बन्धाश्रय आत्मेति विशिष्टबुद्धि नियामकः । द्विष्ठत्वमत्रोभय निरूपितवृत्तित्वमथवा स्थानद्वयवृत्तित्वम् । सम्बंधस्य किञ्चित्प्रतियोगित्वं किञ्चिदनुयोगित्वम् । भिन्नयो द्रव्ययोः संयोगः ) इदमत्र हार्दम्,
परशङका =
तादृशकर्म पुद्गलनिष्ठ एवेतादृशः स्वभावोऽस्ति, यदात्मना सह तादृशसंबंधं करोत्येवेति मान्यतायां, यथा भवन्त आत्मनि संबंधयोग्यतां मत्वा कर्मपुद्गलैः सहाऽऽत्मनः सम्बन्धस्य सिद्धि कल्पयन्ति, तत्स्थानेऽस्मद्वत् तादृश- कर्मपुद्गलेषु संबंधयोग्यस्वभावं मत्वा, कर्मपुद्गलैः सहात्मनः सम्बन्ध-सिद्धिकल्पने भवतां का हानि: ? किमर्थं आत्मनि सम्बन्धयोग्यस्वभावं कल्पयन्ति ?
समाधानं = तादृण-सम्बन्धः, एकस्मिन् सम्बन्धिनि न तिष्ठति, परन्तु सम्बन्धिद्वय एव तिष्ठति, आत्मा च कर्माणवश्च पूर्वोक्त सम्बन्धयोग्यतारूपस्वभावमपेक्षन्ते, अर्थादात्मक मं पुद्गलरूपसम्बन्धिनी पूर्वोक्त संबंध योग्यतारूपस्वभावमपेक्षेते इति.
द्विष्ठत्ववत्सम्बन्ध- विरुद्धरूप- विपक्षे बाधकमाहान्यथेति.
अर्थात् - यद्यात्मनि सम्बन्धयोग्यस्वभावस्याभावे सति कर्माण्वादिनिष्ठसम्बन्धयोग्यस्वभावे सवि आत्मना सह (कर्माणूनां ) सम्बन्धसिद्धिरस्तीति कल्पनया सह विरोधो भवति यतः शास्त्रसिद्ध दृष्टान्तरूपन्यायस्याऽनुपपत्तेः कर्माण्वादावेव सम्बन्ध - योग्यस्वभावे सति, आत्मना सह सम्बन्धरूपकल्पनाविरोधः,
इदमन हृदयम् = वक्ष्यमाणन्यायानुपपत्तौ सत्यां पूर्वोक्त कल्पना विरोधोऽस्ति, पूर्वोक्तकल्पना विरोधस्य दूरीकरणायात्मनि सम्बन्धयोग्यस्वभावोऽवश्यं मन्तव्य एव (अथवाऽऽत्मनि संबंधयोस्यस्वभावाभावे सति आत्मजन्मादिरूपप्रपञ्च कल्पनामा अभावो भवेद् यतः 'द्वयाधीनो बंध : बंधः सम्बन्ध-उभयाधीन भवति एतद्रूपन्यायानुपपत्तेः, सम्बन्धिद्वये सम्बन्धयोग्यस्वभावो मन्तव्यः ) न्यायानुपपत्तिमेव भावयन्नाह-न हीति = पूर्वोक्तरूप कर्मपरमाण्वादिनिष्ठालोकाकाशेन सह संबंधयोग्यस्वभावोऽस्तीति तथा कल्पनायामपि ( किं पुनस्तदभावे इत्यपिशब्दार्थ : ) ( अलोकाऽत्रं तु धर्माद्यैर्भावैः पञ्चभिरुज्झितम् । अनेनैव विशेषेण लोकाभ्रात् पृथगीरितम्, लो. प्र. ) अलोकाकाशेन सह।वगाह्यावगाहकलक्षण - सम्बन्धः ( कर्माण्वादी) न घटते यतोऽलोकाकाशनिष्ठः, कर्माण्वादिना सह सम्बन्धयोग्यस्वभावाभावोऽस्ति इदमत्र हृदयम् = यथा कर्माण्वादी, अलोकाकाशेन सह संबंधयोग्यस्वभावकल्पनायां, अलोकाऽऽकाशे सम्बन्धयोग्यस्वभावाऽभावे सति कर्माण्वादि - अलोकाकाशयोः संबंधो न भवति, तथाऽऽत्मनि संबंधयोग्यस्वभावो नास्तीति कल्पनायां च कर्माण्वादी, आत्मना सह
69